अनुवाकः 3 TS 2.6.3

(A3)

(प्र॒जा॒प॒त्यं - ते - ऽक्षोऽनु॑पाक्तो - वे॒देना॒भि वा॑सयति॒ तस्मा॒द् - यज॑मानस्य॒ - द्वात्रिꣳ॑शच्च)

अनुवाकः 3 - Complete Audio

TS 2.6.3 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑ति र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒थ्
PS1.2 स आ॒त्मन्नाज्य॑मधत्त॒ तं दे॒वा
PS1.3 अ॑ब्रुवन्ने॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व
PS1.4 नोऽत्रा॒स्त्विति॒ सो᳚ऽब्रवी॒द्-यजान्॑ व॒ आज्य॑भागा॒वुप॑
PS1.5 स्तृणान॒भि घा॑रया॒निति॒ तस्मा॒द्-यज॒न्त्या-ज्य॑भागा॒वुप॑ स्तृणन्त्य॒भि
PS1.6 घा॑रयन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्
PS1.7 स॒त्याद्- या॒तया॑मान्य॒न्यानि॑ ह॒वीꣳ-ष्यया॑तयाम॒-माज्य॒मिति॑ प्राजाप॒त्य
PS1.8 - [ ]
PS2.1 -मिति॑ ब्रूया॒दया॑तयामा॒ हि दे॒वानां᳚
PS2.2 प्र॒जाप॑ति॒रिति॒ छन्दाꣳ॑सि दे॒वेभ्योऽपा᳚क्राम॒न् न
PS2.3 वो॑ऽभा॒गानि॑ ह॒व्यं ॅव॑क्ष्याम॒ इति॒
PS2.4 तेभ्य॑ ए॒त-च्च॑तुरव॒त्त-म॑धारयन् पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै
PS2.5 दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुरव॒त्तं जु॒होति॒
PS2.6 छन्दाꣳ॑स्ये॒व तत् प्री॑णाति॒ तान्य॑स्य
PS2.7 प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं ॅव॑ह॒न्त्यङ्गि॑रसो॒
PS2.8 वा इ॒त उ॑त्त॒माः सु॑व॒र्गं
PS2.9 ॅलो॒कमा॑य॒न् तदृष॑यो यज्ञ्वा॒स्त्व॑भ्य॒वाय॒न् ते॑
PS2.10 - [ ]
PS3.1 ऽपश्यन् पुरो॒डाशं॑ कू॒र्मं भू॒तꣳ
PS3.2 सर्प॑न्तं॒ तम॑ब्रुव॒न्निन्द्रा॑य ध्रियस्व॒ बृ॒हस्पत॑ये
PS3.3 ध्रियस्व॒ विश्वे᳚भ्यो दे॒वेभ्यो᳚ ध्रिय॒स्वेति॒
PS3.4 स नाद्ध्रि॑यत॒ तम॑ब्रुवन्न॒ग्नये᳚ ध्रिय॒स्वेति॒
PS3.5 सो᳚ऽग्नये᳚ऽद्ध्रियत॒ यदा᳚ग्ने॒यो᳚- ऽष्टाक॑पालो- ऽमावा॒स्या॑यां
PS3.6 च पौर्णमा॒स्यां चा᳚च्यु॒तो भव॑ति
PS3.7 सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै॒ तम॑ब्रुवन् क॒थाऽहा᳚स्था॒
PS3.8 इत्यनु॑पाक्तो ऽभूव॒मित्य॑ब्रवी॒द्-यथाऽक्षोऽनु॑पाक्तो॒ - [
PS3.9 ]
PS4.1 ऽवार्च्छ॑त्ये॒वमवा॑ ऽऽर॒मित्यु॒परि॑ष्टा-द॒भ्यज्या॒धस्ता॒-दुपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒
PS4.2 सम॑ष्‌ट्यै॒ सर्वा॑णि क॒पाला᳚न्य॒भि प्र॑थयति॒
PS4.3 ताव॑तः पुरो॒डाशा॑न॒मुष्मि॑न् ॅलो॒के॑ऽभि ज॑यति॒
PS4.4 यो विद॑ग्धः॒ स नै॑र्.ऋ॒तो
PS4.5 योऽशृ॑तः॒ स रौ॒द्रो यः
PS4.6 शृ॒तः स सदे॑व॒स्तस्मा॒दवि॑दहता शृत॒कृंत्यः॑
PS4.7 सदेव॒त्वाय॒ भस्म॑ना॒ऽभि वा॑सयति॒ तस्मा᳚न्माꣳ॒॒
PS4.8 सेनास्थि॑ छ॒न्नं ॅवे॒देना॒भि वा॑सयति॒
PS4.9 तस्मा॒त् - [ ]
PS5.1 केशैः॒ शिरः॑ छ॒न्नं प्रच्यु॑तं॒
PS5.2 ॅवा ए॒तद॒स्माल् लो॒कादग॑तं देवलो॒कं
PS5.3 ॅयच्छृ॒तꣳ ह॒विरन॑भिघारित-मभि॒घार्योद्-वा॑सयति देव॒त्रैवैन॑द्-गमयति॒ यद्येकं॑
PS5.4 क॒पालं॒ नश्ये॒देको॒ मासः॑ संॅवथ्स॒रस्यान॑वेतः॒
PS5.5 स्यादथ॒ यज॑मानः॒ प्रमी॑येत॒ यद्
PS5.6 द्वे नश्ये॑तां॒ द्वौ मासौ॑
PS5.7 संॅवथ्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒ यज॑मानः॒ प्रमी॑येत
PS5.8 स॒ङ्ख्यायोद्-वा॑सयति॒ यज॑मानस्य - [
PS5.9 ]
PS6.1 गोपी॒थाय॒ यदि॒ नश्ये॑दाश्वि॒नं द्वि॑कपा॒लं
PS6.2 निर्व॑पेद् द्यावापृथि॒व्य॑- मेक॑कपालम॒श्विनौ॒ वै
PS6.3 दे॒वानां᳚ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं
PS6.4 क॑रोति द्यावापृथि॒व्य॑ एक॑कपालो भवत्य॒नयो॒र्वा
PS6.5 ए॒तन्न॑श्यति॒ यन्नश्य॑- त्य॒नयो॑रे॒वैन॑द्-विन्दति॒ प्रति॑ष्ठित्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.6.3.1 TS 2.6.3.1
प्र॒जाप॑ति र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒थ् स आ॒त्मन्नाज्य॑मधत्त॒ तं दे॒वा अ॑ब्रुवन्ने॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व नोऽत्रा॒स्त्विति॒ सो᳚ऽब्रवी॒द्-यजान्॑ व॒ आज्य॑भागा॒वुप॑ स्तृणान॒भि घा॑रया॒निति॒ तस्मा॒द्-यज॒न्त्या-ज्य॑भागा॒वुप॑ स्तृणन्त्य॒भि घा॑रयन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद्- या॒तया॑मान्य॒न्यानि॑ ह॒वीꣳ-ष्यया॑तयाम॒-माज्य॒मिति॑ प्राजाप॒त्य - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । दे॒वेभ्यः॑ । य॒ज्ञान् । व्यादि॑श॒दिति॑ वि - आदि॑शत् । सः । आ॒त्मन्न् । आज्य᳚म् । अ॒ध॒त्त॒ । तम् । दे॒वाः । अ॒ब्रु॒व॒न्न् । ए॒षः । वाव । य॒ज्ञ्ः । यत् । आज्य᳚म् । अपीति॑ । ए॒व । नः॒ । अत्र॑ । अ॒स्तु॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । यजान्॑ । वः॒ । आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ । उपेति॑ । स्तृ॒णा॒न् । अ॒भीति॑ । घा॒र॒या॒न् । इति॑ । तस्मा᳚त् । यज॑न्ति । आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ । उपेति॑ । स्तृ॒ण॒न्ति॒ । अ॒भीति॑ । घा॒र॒य॒न्ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । कस्मा᳚त् । स॒त्यात् । या॒तया॑मा॒नीति॑ या॒त - या॒मा॒नि॒ । अ॒न्यानि॑ । ह॒वीꣳषि॑ । अया॑तयाम॒मित्यया॑त-या॒म॒म् । आज्य᳚म् । इति॑ । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयाष्टके षष्ठप्रपाठके तृतीयोनुवाकः)। (प्रधानभूताग्नेयपुरोडाशाभिधानम्) आज्यभागौ च याज्यानुवाक्या उक्ता द्वितीयके। अथ तृतीयानुवाके प्रधानभूत आग्नेयपुरोडाशोभिधातव्यः। तत्रादौ तावदुपस्तरणाभिधारणे विधत्ते प्रजापतिरिति। तवेदं तवेदमिति यज्ञसाधनद्रव्याणि देवेभ्यो विभज्य दत्त्वात्मन्याज्यद्रव्यं प्रजापतिः स्थापितवान्। तं प्रजापतिं देवा एवमब्रुवनआज्यमिति यत्, एष एव यज्ञो नाम सर्वेषु यज्ञियेषु द्रव्येषु घृतस्यैव सारत्वात्। तस्मादस्माकमप्यस्मिन्नाज्ये कियानपि भावोस्त्विति। ततः स प्रजापतिस्तान्देवानेवाब्रवीत् हे देवा युष्मानुद्दिश्यं यष्टार आज्यभागौ यजन्तु। प्रधाने च हविष्यधस्तादुपस्तरणमुपर्यभिधारणं कुर्वन्त्विति। उपस्तृणानुपस्तृणन्तु। अभिधारयानभिधारयन्त्वित्यर्थः। यस्मादेवं यस्मादाज्यभागावाज्येन यजेयुः, प्रधानहविषोधस्तादुपस्तृणीयुरुपरिष्टाच्चाभिधारयेयुः। तदेतदुपस्तरणादिसाधनमाज्यं प्रशंसति ब्रह्मवादिन इति। अन्यानि पुरोडाशचर्वादीनि हवींषि द्वित्रैर्दिवसैर्यातय मानि गतसाराणि भवन्ति। आज्यं तु ससारमेव तिष्ठति न तु स्वादिमानं परित्यजति। तत्कस्मादिति ब्रह्मवादिनः परस्परं पप्रच्छुः। तत्र कश्चिद्बुद्धिमान्ब्रह्मवादीप्राजापत्यमेतदाज्यमिति ब्रूयात्। इन्द्राग्न्यादयो देवाः कल्पे कल्पे विनश्वरत्वाद्गतसारास्तेषां मध्ये प्रजापतिस्तु जगदीश्वरत्वात्पुनः पुनस्तादृशानुत्पादयन्नुपसंहरंश्च यथापूर्वमेव तिष्ठतीत्यगतसारस्तदीयत्वादाज्यमपि सर्वदा ससारमिति। अत्र हविष उपस्तरणाभिधारणाभ्यां सह चतुरवदानं विधत्ते छन्दा सीति। पुरोनुवाक्यादिमन्त्रगतानि यानि गायत्र्यादिच्छदांसि तानिहविर्भाग्भ्यो देवेभ्यो विमुखानि सन्त्यपाक्रामन्वयं भागरहितानि भूत्वा युप्माकं हव्यानि न वक्ष्याम इति वदन्ति निर्गतानि। अत्र च्छन्द शब्देन तदभिमानिदेवता उच्यन्ते। ततो हविर्भाजो देवाःस्तेभ्यच्छन्दोभ्यो देवताभूतेभ्यो भागत्वेन च तुरवत्तम दत्तवन्तः। तत्र पुरोनुवाक्यादिशब्दाभिधेयाश्छन्दोभिमानिन्यः। आहुत्याधारभूतोग्निर्देवताशब्देनोच्यते । यस्मादेवं तस्मादेतच्छन्दसां प्रीत्यै चतुरवत्तं जुहुयात्। तेन प्रीतानि च्छदांसि हविर्भाग्भ्यो देवेभ्यो हव्यं वहन्ति। अथाग्नेयं पुरोडाशं विधत्ते अङ्गिरसो वा इति। अङ्गिरोनामका ऋषय इतो भूलोकादुत्तमा उद्गत तमास्त्वरया निर्गताः स्वर्गां प्राप्ताः। तत्र स्वर्गे त ऋषयो यज्ञवास्तु यज्ञभूमिमभि लक्ष्य समागताः। तस्यां भूमौ पुरोडाशाभिमानी देवः स्वशरीरमन्तर्धाय कूर्मशरीरी भूत्वा प्रकर्षेण पलायत। तं दृष्ट्वा त ऋषयोब्रुवन् इन्द्रादीनां मध्येन्यतमस्मै (माय) त्वा दास्यामस्त्वं ध्रियस्व त्वमवतिष्ठस्वेति। ततः स पुरोडाशो नातिष्टत्। अग्यर्थं तिष्ठेत्युक्ते स्थितवान्। अतो दिनद्वयेप्यष्टाकपालः पुरोडाश आग्नेयोच्युतः कर्तव्यः। तेन स्वर्गाभिजयो भवतीति। अज कपालेभ्य उद्वासितस्य पुरोडाशस्याभ्यञ्जनोपाञ्जनरूपमलंकरणं विधत्ते तमब्रुवन्निति। तं पुरोडाशं त ऋषयोब्रुवन्। केन हेतुना त्वमहास्था यज्ञदेशं परित्यक्तवानसि। ततः पुरोडाशोब्रवीत् अनुपाक्तोभूवमञ्जनकृतालं करणरहितोभूवम्, तस्मात्त्यक्तवानस्मि। यथा लोके शकटत्याक्षोञ्जनरहि तोवार्छति विनश्यति एवमहमप्यञ्जनरहितोवारं विनष्टोस्मीति। तस्मात्पुरोडाशमुपरिष्टादघस्ताच्चायेनालं कुर्यात्। तेन स्वर्गस्य सम्यग्व्याप्तिर्भवति।"

अथोद्वासनात्पुरा कपालेषु स्थापितस्य हस्तेन प्रसारणं विधत्ते

सर्वाणि कपालानीति। यावन्ति कपालानि स्थापितानि तावन्ति सर्वाणि यथाभि व्याप्नोति तथा प्रसारयेत्। तथा सति कपालसंख्यान्पुरोडाशान्निर्वृतिसाधनत्वेन स्वर्ग प्राप्नोति। पाके सौकर्यविशेषं विधत्ते—यो विदिग्ध इति।

"विपरीतत्वेन दग्धो विदग्धः। क्वचित्पक्वः क्वचिदपक्व इति वाप्रभावेन वा विपरीत्वं, तादृशो राक्षसप्रियः। अशृतोपक्व रुद्रस्य प्रियः। सुष्ठु पक्वो देवप्रियः। तस्माद्विपरीतदाहमकुर्वता पुरोडाशः शृतंकृत्यः सम्यक्पक्वो यथा भवति तथा कर्तव्यः। तथा सति देवप्रियो भवति। यदुक्तं सूत्रकारेण--- “सं ब्राह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति” इति। तदतद्विधत्ते भस्मनेति। पक्वस्य कठिनत्य पुरोडाशस्योपरि भस्मनाच्छादनमस्थ्न उपरि मांसच्छादनमिव भवति। आच्छादनकाले वेदगतदर्भनाडीसंस्पर्शेन केशच्छन्नं शिर इव भवति। पौरोडाशिककाण्डे विद्यमानस्यापि विधेरत्रोपन्यासः प्रत्यभिज्ञानार्थः। यद्वा ब्राह्मणयोः शाखाभेदमभिप्रेत्येयमीदृशी पुनरुक्तिः परिहर्तव्या। पूर्वमवदानकालेभिधारणं विहितमिदानीमुद्वासकालीनमभिधारणं विधत्ते प्रच्युतं वा इति। हविषो मन्त्रेण पाके सति लौकिकत्वमपेतमित्यस्माल्लोकात्प्रच्युतिः। अभिधारणाभावे शास्त्रीयत्वमसंपूर्णमिति स्वर्गाप्राप्तिः। तस्माच्छा स्त्रीयत्वसंपर्त्त्यर्थ्यमाज्येनाभिधार्य पश्चादुद्वासयेत्। तथा सति देवेष्वेनद्धविः प्रापितं भवति। कपालानामुद्वासनकाले गणानां विधत्ते यद्येकमिति। एककपालनाशेन मास एको न्यूनो भवेत्। ततो यजमानो म्रियते। तथा द्विकपालनाशेनापि । अतो यजमानस्य रक्षणाय गणयेत्। अथ प्रमादादिना नाशे प्रायश्चित्तं विधत्ते "

यदि नश्येदिति। स्पष्टोर्थः।

अत्र मीमांसा।

प्रथमाध्यायस्य चतुर्थपादे चिन्तितम् “यदाग्नेयोष्टाकपाल इति नाम गुणोथवा। नामाग्निहोत्रवन्मैवं नामत्वे देवता न हि। मन्त्रो हि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः। देवद्रव्यविशिष्टस्य विधानादेकवाक्यता”।।दर्शपूर्णमासयोः श्रूयतेः----“यदाग्नेयोष्टाकपालोमावास्यायां च पौर्णमास्यांचाच्युतो भवति” इति। तत्र यथाग्निहोत्रशब्दोग्नये होत्रमत्रेत्यमुमर्थं निमित्तीकृत्य कर्मनामधेयं तथाग्नेयशब्दोप्यग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेन्मैवम्। नामत्वे देवताराहित्यप्रसङ्गात्। अग्निहोत्रे त्वग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोतीत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्ष इति मान्त्र वर्णिकी देवता लभ्यते। इह तु न तादृशो मन्त्रोस्ति। आग्नेयशब्दस्तु देवतां विधातुं शक्नोति। अग्निर्देवतास्येत्यस्मिन्नर्थे तद्धितस्योत्पन्नत्वात्। न च द्रव्यदेवतयोरुभयोगुणयोर्विधानाद्वाक्यभेद इति वाच्यम्। कर्मणोप्राप्तत्वेन द्रव्यदेवतारूपगुणद्वयविशिष्टस्य कर्मणो विधानादेकवाक्यत्वोपपत्तेः। तस्मादाग्नेयशब्देन देवतागुणो विधीयते। तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् यागे हविर्यजेत्कृत्स्नं कोप्यंश शिष्यतेथवा। देवार्थत्वाद्यजेत्सर्वं शिष्यते द्विरवत्ततः।। आग्नेयोष्टाकपाल इत्यत्र कृत्स्नोपि पुरोडाशोग्नये त्यक्तव्यः। तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धोवगतेस्त्यागमन्तरेण तदनुपपत्तेरिति चेन्न। द्विर्हविषोवद्यतीत्यवदानद्वयं श्रूयते। अवदेयं चाङ्गुष्ठपर्वमात्रम्। तथा च सूत्रकारः “आग्नेयस्य पुरोडाशमध्यादङ्गुष्ठपर्वमात्रमवदानं तिरश्चीनमवद्यति” इति।

तत्र हविषः सकाशादङ्गुष्ठपर्वमात्रद्वयं त्रोटयित्वा त्यक्तव्यम्। इतरच्छेषणीयम्। देवतासंबन्धश्चां शद्वाराप्युपपद्यते।

"दशमाध्यायस्याष्टमपादे चिन्तितम् “चतुर्द्विर्वा पुरोडाशेवदानं होम्यतोक्तितः। चतुर्मैवं सहाज्येन सिद्धस्यात्रानुवादतः ”।। दर्शपूर्णमासयोराम्नायते—“चतुरवत्तं जुहोति” इति। तत्र किं पुरोडाशद्रव्यगतस्यावत्तस्य चतुःसंख्या किंवा तत्र द्विसंख्या, चतुष्ट्वं तूपस्तरणाभिधारणाभ्यामाज्यावत्ताभ्यां सह संपद्यत इति संशयः, । तत्र चतुरवत्तस्य द्वितीयाविभक्त्या होमकर्मत्वमुच्यते। न चोपस्तरणा (द्य) र्थस्य होमकर्मत्वमस्ति। तस्मात्पुरोडाशावदाने चतुःसंख्येति प्राप्ते ब्रूमः- उपस्तरणाभिधारणाभ्यामवदानाभ्यां प्रसिद्धं चतुरवत्तमनूद्य होमस्य विधानाद्धविषो मध्यात्पूर्वादिति द्विरवदानस्यैव प्राप्तिः। तस्माद्द्विर्हविषोवदानम्। पञ्चमाध्यायस्य चतुर्थपादे—"

‘अवदानादि सांनाय्ये पूर्वमाग्नेयकेथवा। धर्मप्रवृत्तिक्रमतः सांनाय्ये पूर्वतोचिता।।

प्रदानं पूर्वमाग्नेयेवदानं च तथोचितम्। अङ्गानां मुख्यतन्त्रत्वान्मुख्यक्रमबल (लि) त्वतः।।

दर्शपूर्णमासयोः सांनाय्यधर्मा वत्सापाकरणदोहनादयः प्रथमप्राम्नाताः। पुरोडाशधर्मा निर्वापावधातादयः पश्चादाम्नाताः। ततश्च तेनैव पाठक्रमेण धर्मानुष्ठानं प्रवृत्तम्। ततः प्रावृत्तिकक्रमेणावदानमपि सांनाय्ये पूर्वमेव कर्तव्यमिति प्राप्ते ब्रूमः याज्यानुवाक्यादिमन्त्रबलादाग्नेये पूर्वं प्रदानमित्युक्तम्। तत्र (च्च) प्रदानं फलपत्यासत्त्या मुख्यमवदानं तु तदङ्गम्। तथा सति मुख्यस्य क्रममनुसृत्यावदानमप्याग्नेये पूर्वं कर्तव्यम्। मुख्यक्रमो हि प्रावृत्तिकक्रमात्प्रबलः। प्रावृत्तिके हि क्रमे सांनाय्ये पूर्वमवदानमभिधारणमासादनं च कृत्वा प्रदानमकृत्वैवा

ग्नेयेवदानादीनि कर्तव्यानि। तथा सति सांनाय्येनुष्ठितान्यवदानादीन्यङ्गानि मुख्यप्रदानाद्विप्रकृष्यन्ते। मुख्यक्रमाश्रयणे तु आग्नेये प्रथमवदानादि प्रदानान्तं कृत्वा पश्चात्सांनाय्ये तदनुष्ठीयते। तत्र नास्त्यङ्गाङ्गिविप्रकर्षः। नन्ववदानादिप्रदानान्त एकः पदार्थ इत्युक्तम्। तत्र कुतः क्रमविचारः। एवं तर्हि कृत्वाचिन्तास्तु अथवा स्विष्टकृदवदानादिविषयैव चिंन्तास्तु। तत्रैव द्वितीयपादे चिन्तितम् “अवदानेनुसमयो होमान्ते वावदानके।

पदार्थत्वं विधेयत्वात्तेनानुसमयस्ततः।। अवद्यतिः प्रदानान्तोवदानस्य तदर्थतः (ता)।

अतोनुसमयस्तत्र होमान्तान्न तु केवलात्”।। दर्शपूर्णमासयोर्द्विर्हविषोवद्यतीत्येकेन विधिना विहितत्वाद्द्विसंख्याविशिष्टमवदानमेकः पदार्थः। ततस्तेनावदानमात्रेणानुसमयः कर्तव्यः। आग्नेयस्य द्विरवदानं कृत्वा तद्धोमान्प्रागेवाग्नीषोमीयस्य द्विरवदानमिति प्राप्ते ब्रूमः---अवदानं तु होमपर्यन्तमेकः पदार्थः। होमस्यावदानमन्तरेणानुपपत्तेर्होमविधिनैवाक्षिप्तं होमार्थमवदानम्। अत एव चतुरवत्तं जुहोतीत्येकेन विधिना सावदानक एको होमपदार्थो विहितः। उपस्तरणाभिधारणाभ्यां सह यच्चतुरवत्तं तस्मिन्हविर्विषयमवदानद्वित्वं विधातुं द्विर्हदिषोवद्यतीत्युच्यते। ततो होमान्तस्यावदानस्यैकपदार्थत्वादाग्नेयमवदाय हुत्वा पश्चादग्नीषोमीयावदानमित्यनुसमयः। षष्ठाध्यायस्य चतुर्थपादे चिन्तितम् “अवत्तनाशे तच्छेषात्पुरोडाशादवद्यति।

यजेदाज्येना वाद्योत्र मध्यपूर्वार्धसंभवात्।। कृत्स्नस्य मध्यपूर्वार्धं ये शेषस्थे न ते ततः।

हविर्नाशादाज्यविधिः सुतरां सर्वनाशने”।। दर्शपूर्णमासयोः पुरोडाशावदाने श्रूयते “मध्यादवद्यति पूर्वार्धादवद्यति”इति। तत्र यद्यवत्तं नश्येत्तदानीमवशिष्टात्पुरोडाशात्पुनरप्यवदातव्यम्। कुतः। अवदानापादानयोर्मध्यपूर्वार्धयोः शिष्टेपि संभवादिति चेन्मैवम्। कृत्स्नपुरोडाशगते मध्यपूर्वार्धे अपादानत्वेन श्रूयेते. न त्ववशिष्टभागगते मध्यपूर्वार्धे। ततो मुख्यहविषो नाशादाज्यं प्रतिनिधाय यष्टव्यम्। अत एव श्रूयते “यस्य सर्वाणि

हवी षि नश्येयुर्दुष्येयुरपहरेर्युर्वाज्येनैता देवताः परिसंख्याय यजेत” इति। तत्र सर्वशब्दस्य निमित्तविधेषणत्वेनाविवक्षितत्वान्नाशमात्रे सर्वत्राज्यस्य विधिः।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-

तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके

तृतीयोनुवाकः।। ३।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रजापतिर्देवेभ्य इत्यादि ॥ यजनसाधनानि हवींषि यज्ञाः तान् देवेभ्यो विविधमादिश्य आज्यमात्मन्येवाधत्त आज्यव्यतिरिक्तमेव देवेभ्यो ददौ तं देवाः प्रजापतिमब्रुवन् आज्यमेव यज्ञसाधनं, तस्मादत्राज्ये अस्माकमपि भागित्वमस्त्येव । यद्वा - अत्रापि भागित्वमस्माकमस्त्विति । ततः प्रजापतिराज्यभागौ उप-

स्तरणाभिघारणे च देवेभ्यो दत्वा अन्यत्सर्वमात्मार्थं वृतवानिति । सर्वत्र लेट्याडागमः । तस्मादित्यादि । देवानां तृप्त्यर्थम् ॥

2 ब्रह्मवादिन इत्यादि ॥ यातयामानि गच्छता कालेन गतसाराणि देवानां मध्ये प्रजापतिरयातयामा गतेऽपि महति काले अगतसारत्वात् । अन्येषां च मन्वन्तरावधिकालस्थत्वात् ॥
3 छन्दांसीत्यादि ॥ पुरोऽनुवाक्यादिचतुष्ठयार्थेन चतुर्गृहीतेन छन्दसां तृप्तिः । गायत्रीत्रिष्टुब्जगत्यनुष्टुभां प्रधानच्छन्दसां ग्रहणमित्येके ॥
4 अङ्गिरसो वा इत्यादि ॥ आग्नेयस्याष्टाकपालस्य विधिः । गेतेष्वङ्गिरस्सु तेषां यज्ञवास्तु अभ्यागताः ऋषयः कूर्मरूपिणं सर्पन्तं च्यवमानं स्वर्गादवपतन्तं पुरोडाशमपश्यन् । तमित्यादि । ध्रियस्व अवतिष्ठस्व । अच्युत इति । आग्नेयस्याच्युतत्वात् स्वर्गस्याभिजयः ॥
5 तमित्यादि ॥ अभ्यज्यमानोपाञ्जनहेतुः । केन हेतुना त्वमहास्थाः यज्ञसकाशात्प्रच्युतोऽसि । अवार्छतीति । अवपत्तिः अवार्च्छतेः पाघ्रादिना ऋच्छादेशः । 'उपसर्गादृति धातौ' इति वृद्धिः । अवारमिति । 'सर्तिशास्त्यार्तिभ्यश्च' इत्यङ् ॥
6 अभि प्रथयतीति ॥ सर्वाणि कपालान्यभि व्याप्नोति तथा पृथूकरोति । तावत इति । यावन्ति कपालान्यभिप्रथयति तावत्सङ्ख्यान् पुरोडाशानमुष्मिन् लोके इष्टसाधनत्वेन प्राप्नोति ॥
7 विदग्धो विरूपो दग्धः, अतिदग्धो वा । अशृतः अपक्वः । शृतः सुष्ठु पक्वः । सदेवः देवयोग्यः । शृतं कृत्य इति । सुष्ठु पक्तव्यः । शृतमिति तु नकारान्तो निपातः । 'विभाषा कृवृषोः' इत्यप् ॥
8 अभितश्छादनमव्भिवासनम् ॥
9 प्रच्युतमित्यादि ॥ गतम् । देवत्रेति । 'देवमनुश्य' इत्यादिना द्वितीयान्तात्त्राप्रत्ययः ॥
10 यद्येकमित्यादि ॥ कपालानां सङ्ख्ययोद्वासनविधिः । अनवेतः अनवगतः । अन्यून इति यावत् सङ्ख्ययोद्वासनं यजमानस्य रक्षार्थम् ॥
11 प्रमादाद्विनाशे आश्विनादिविधिः । गतमन्यत् । इष्ट्यन्तभाविनोऽपि हविश्श्रपणान्ते प्रासन्ङ्गिकमुद्वासनस्यामननम् ॥
इति द्वितीये षष्ठे तृतीयोनुवाकः ॥
पञ्चशत् 2 #
TS 2.6.3.2 TS 2.6.3.2
-मिति॑ ब्रूया॒दया॑तयामा॒ हि दे॒वानां᳚ प्र॒जाप॑ति॒रिति॒ छन्दाꣳ॑सि दे॒वेभ्योऽपा᳚क्राम॒न् न वो॑ऽभा॒गानि॑ ह॒व्यं ॅव॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒त-च्च॑तुरव॒त्त-म॑धारयन् पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुरव॒त्तं जु॒होति॒ छन्दाꣳ॑स्ये॒व तत् प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं ॅव॑ह॒न्त्यङ्गि॑रसो॒ वा इ॒त उ॑त्त॒माः सु॑व॒र्गं ॅलो॒कमा॑य॒न् तदृष॑यो यज्ञ्वा॒स्त्व॑भ्य॒वाय॒न् ते॑ - [ ]
पदपाठः (Word-by-word)
इति॑ । ब्रू॒या॒त् । अया॑तया॒मेत्यया॑त - या॒मा॒ । हि । दे॒वाना᳚म् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । इति॑ । छन्दाꣳ॑सि । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒न्न् । न । वः॒ । अ॒भा॒गानि॑ । ह॒व्यम् । व॒क्ष्या॒मः॒ । इति॑ । तेभ्यः॑ । ए॒तत् । च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् । अ॒धा॒र॒य॒न्न् । पु॒रो॒नु॒वा॒क्या॑या॒ इति॑ पुरः - अ॒नु॒वा॒क्या॑यै । या॒ज्या॑यै । दे॒वता॑यै । व॒ष॒ट्का॒रायेति॑ वषट् - का॒राय॑ । यत् । च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् । जु॒होति॑ । छन्दाꣳ॑सि । ए॒व । तत् । प्री॒णा॒ति॒ । तानि॑ । अ॒स्य॒ । प्री॒तानि॑ । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒न्ति॒ । अङ्गि॑रसः । वै । इ॒तः । उ॒त्त॒मा इत्यु॑त् - त॒माः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । तत् । ऋष॑यः । य॒ज्ञ्॒वा॒स्त्विति॑ यज्ञ् - वा॒स्तु । अ॒भ्य॒वाय॒न्नित्य॑भि - अ॒वायन्न्॑ । ते ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.6.3.3 TS 2.6.3.3
ऽपश्यन् पुरो॒डाशं॑ कू॒र्मं भू॒तꣳ सर्प॑न्तं॒ तम॑ब्रुव॒न्निन्द्रा॑य ध्रियस्व॒ बृ॒हस्पत॑ये ध्रियस्व॒ विश्वे᳚भ्यो दे॒वेभ्यो᳚ ध्रिय॒स्वेति॒ स नाद्ध्रि॑यत॒ तम॑ब्रुवन्न॒ग्नये᳚ ध्रिय॒स्वेति॒ सो᳚ऽग्नये᳚ऽद्ध्रियत॒ यदा᳚ग्ने॒यो᳚- ऽष्टाक॑पालो- ऽमावा॒स्या॑यां च पौर्णमा॒स्यां चा᳚च्यु॒तो भव॑ति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै॒ तम॑ब्रुवन् क॒थाऽहा᳚स्था॒ इत्यनु॑पाक्तो ऽभूव॒मित्य॑ब्रवी॒द्-यथाऽक्षोऽनु॑पाक्तो॒ - [ ]
पदपाठः (Word-by-word)
अ॒प॒श्य॒न्न् । पु॒रो॒डाश᳚म् । कू॒र्मम् । भू॒तम् । सर्प॑न्तम् । तम् । अ॒ब्रु॒व॒न्न् । इन्द्रा॑य । ध्रि॒य॒स्व॒ । बृह॒स्पत॑ये । ध्रि॒य॒स्व॒ । विश्वे᳚भ्यः । दे॒वेभ्यः॑ । ध्रि॒य॒स्व॒ । इति॑ । सः । न । अ॒द्ध्रि॒य॒त॒ । तम् । अ॒ब्रु॒व॒न्न् । अ॒ग्नये᳚ । ध्रि॒य॒स्व॒ । इति॑ । सः । अ॒ग्नये᳚ । अ॒द्ध्रि॒य॒त॒ । यत् । आ॒ग्ने॒यः । अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । च॒ । पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् । च॒ । अ॒च्यु॒तः । भव॑ति । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । तम् । अ॒ब्रु॒व॒न्न् । क॒था । अ॒हा॒स्थाः॒ । इति॑ । अनु॑पाक्त॒ इत्यनु॑प - अ॒क्तः॒ । अ॒भू॒व॒म् । इति॑ । अ॒ब्र॒वी॒त् । यथा᳚ । अक्षः॑ । अनु॑पाक्त॒ इत्यनु॑प - अ॒क्तः॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.6.3.4 TS 2.6.3.4
ऽवार्च्छ॑त्ये॒वमवा॑ ऽऽर॒मित्यु॒परि॑ष्टा-द॒भ्यज्या॒धस्ता॒-दुपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्‌ट्यै॒ सर्वा॑णि क॒पाला᳚न्य॒भि प्र॑थयति॒ ताव॑तः पुरो॒डाशा॑न॒मुष्मि॑न् ॅलो॒के॑ऽभि ज॑यति॒ यो विद॑ग्धः॒ स नै॑र्.ऋ॒तो योऽशृ॑तः॒ स रौ॒द्रो यः शृ॒तः स सदे॑व॒स्तस्मा॒दवि॑दहता शृत॒कृंत्यः॑ सदेव॒त्वाय॒ भस्म॑ना॒ऽभि वा॑सयति॒ तस्मा᳚न्माꣳ॒॒ सेनास्थि॑ छ॒न्नं ॅवे॒देना॒भि वा॑सयति॒ तस्मा॒त् - [ ]
पदपाठः (Word-by-word)
अ॒वार्च्छ॒तीत्य॑व - ऋच्छ॑ति । ए॒वम् । अवेति॑ । आ॒र॒म् । इति॑ । उ॒परि॑ष्टात् । अ॒भ्यज्येत्य॑भि - अज्य॑ । अ॒धस्ता᳚त् । उपेति॑ । अ॒न॒क्ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं-अ॒ष्ट्यै॒ । सर्वा॑णि । क॒पाला॑नि । अ॒भीति॑ । प्र॒थ॒य॒ति॒ । ताव॑तः । पु॒रो॒डाशान्॑ । अ॒मुष्मिन्न्॑ । लो॒के । अ॒भीति॑ । ज॒य॒ति॒ । यः । विद॑ग्ध॒ इति॒ वि - द॒ग्धः॒ । सः । नै॒र्॒.ऋ॒त इति॑ नैः-ऋ॒तः । यः । अशृ॑तः । सः । रौ॒द्रः । यः । शृ॒तः । सः । सदे॑व॒ इति॒ स - दे॒वः॒ । तस्मा᳚त् । अवि॑दह॒तेत्यवि॑ - द॒ह॒ता॒ । शृ॒त॒कृंत्य॒ इति॑ शृतं - कृत्यः॑ । स॒दे॒व॒त्वायेति॑ सदेव - त्वाय॑ । भस्म॑ना । अ॒भीति॑ । वा॒स॒य॒ति॒ । तस्मा᳚त् । माꣳ॒॒सेन॑ । अस्थि॑ । छ॒न्नम् । वे॒देन॑ । अ॒भीति॑ । वा॒स॒य॒ति॒ । तस्मा᳚त् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.6.3.5 TS 2.6.3.5
केशैः॒ शिरः॑ छ॒न्नं प्रच्यु॑तं॒ ॅवा ए॒तद॒स्माल् लो॒कादग॑तं देवलो॒कं ॅयच्छृ॒तꣳ ह॒विरन॑भिघारित-मभि॒घार्योद्-वा॑सयति देव॒त्रैवैन॑द्-गमयति॒ यद्येकं॑ क॒पालं॒ नश्ये॒देको॒ मासः॑ संॅवथ्स॒रस्यान॑वेतः॒ स्यादथ॒ यज॑मानः॒ प्रमी॑येत॒ यद् द्वे नश्ये॑तां॒ द्वौ मासौ॑ संॅवथ्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒ यज॑मानः॒ प्रमी॑येत स॒ङ्ख्यायोद्-वा॑सयति॒ यज॑मानस्य - [ ]
पदपाठः (Word-by-word)
केशैः᳚ । शिरः॑ । छ॒न्नम् । प्रच्यु॑त॒मिति॒ प्र - च्यु॒त॒म् । वै । ए॒तत् । अ॒स्मात् । लो॒कात् । अग॑तम् । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । यत् । शृ॒तम् । ह॒विः । अन॑भिघारित॒मित्यन॑भि - घा॒रि॒त॒म् । अ॒भि॒घार्येत्य॑भि - घार्य॑ । उदिति॑ । वा॒स॒य॒ति॒ । दे॒व॒त्रेति॑ देव - त्रा । ए॒व । ए॒न॒त् । ग॒म॒य॒ति॒ । यदि॑ । एक᳚म् । क॒पाल᳚म् । नश्ये᳚त् । एकः॑ । मासः॑ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । अन॑वेत॒ इत्यन॑व - इ॒तः॒ । स्यात् । अथ॑ । यज॑मानः । प्रेति॑ । मी॒ये॒त॒ । यत् । द्वे इति॑ । नश्ये॑ताम् । द्वौ । मासौ᳚ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । अन॑वेता॒वित्यन॑व - इ॒तौ॒ । स्याता᳚म् । अथ॑ । यज॑मानः । प्रेति॑ । मी॒ये॒त॒ । स॒ख्यांयेति॑ सं - ख्याय॑ । उदिति॑ । वा॒स॒य॒ति॒ । यज॑मानस्य ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.6.3.6 TS 2.6.3.6
गोपी॒थाय॒ यदि॒ नश्ये॑दाश्वि॒नं द्वि॑कपा॒लं निर्व॑पेद् द्यावापृथि॒व्य॑- मेक॑कपालम॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति द्यावापृथि॒व्य॑ एक॑कपालो भवत्य॒नयो॒र्वा ए॒तन्न॑श्यति॒ यन्नश्य॑- त्य॒नयो॑रे॒वैन॑द्-विन्दति॒ प्रति॑ष्ठित्यै ॥
पदपाठः (Word-by-word)
गो॒पी॒थाय॑ । यदि॑ । नश्ये᳚त् । आ॒श्वि॒नम् । द्वि॒क॒पा॒लमिति॑ द्वि - क॒पा॒लम् । निरिति॑ । व॒पे॒त् । द्या॒वा॒पृ॒थि॒व्य॑मिति॑ द्यावा - पृ॒थि॒व्य᳚म् । एक॑कपाल॒मित्येक॑-क॒पा॒ल॒म् । अ॒श्विनौ᳚ । वै । दे॒वाना᳚म् । भि॒षजौ᳚ । ताभ्या᳚म् । ए॒व । अ॒स्मै॒ । भे॒ष॒जम् । क॒रो॒ति॒ । द्या॒वा॒पृ॒थि॒व्य॑ इति॑ द्यावा - पृ॒थि॒व्यः॑ । एक॑कपाल॒ इत्येक॑-क॒पा॒लः॒ । भ॒व॒ति॒ । अ॒नयोः᳚ । वै । ए॒तत् । न॒श्य॒ति॒ । यत् । नश्य॑ति । अ॒नयोः᳚ । ए॒व । ए॒न॒त् । वि॒न्द॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ॥
पदसंख्या: 32