अनुवाकः 11 TS 2.6.11

(A11)

(य॒ज्ञ् - ममै॒ - रधि॑ - वृष॒ - न्नेका॒न्न विꣳ॑श॒तिश्च॑ )

अनुवाकः 11 - Complete Audio

TS 2.6.11 - स्वरानुगामी

0:00 0:00
PS1.1 यु॒क्ष्वाहि दे॑व॒हूत॑माꣳ॒॒ अश्वाꣳ॑ अग्ने र॒थीरि॑व
PS1.2 नि होता॑ पू॒र्व्यः स॑दः
PS1.3 उ॒त नो॑ देव दे॒वाꣳ
PS1.4 अच्छा॑ वोचो वि॒दुष्ट॑रः
PS1.5 श्रद्विश्वा॒ वार्या॑ कृधि
PS1.6 त्वꣳ ह॒ यद्य॑विष्ठ्॒य सह॑सः सूनवाहुत
PS1.7 ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑
PS1.8 अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑
PS1.9 मू॒र्द्धा क॒वी र॑यी॒णां
PS1.10 तं ने॒मिमृ॒भवो॑ य॒था ऽऽन॑मस्व॒ सहू॑तिभिः
PS1.11 नेदी॑यो य॒ज्ञ् - [ ]
PS2.1 -म॑ङ्गिरः
PS2.2 तस्मै॑ नू॒ नम॒भिद्य॑वे वा॒चा
PS2.3 वि॑रूप॒ नित्य॑या
PS2.4 वृष्णे॑ चोदस्व सुष्टु॒तिं
PS2.5 कमु॑ ष्विदस्य॒ सेन॑या॒ऽग्नेरपा॑कचक्षसः
PS2.6 प॒णिं गोषु॑ स्तरामहे
PS2.7 मा नो॑ दे॒वानां॒ ॅविशः॑ प्रस्ना॒तीरि॑वो॒स्राः
PS2.8 कृ॒शं न हा॑सु॒रघ्नि॑याः
PS2.9 मा नः॑ समस्य दू॒ढ्यः॑
PS2.10 परि॑द्वेषसो अꣳ ह॒तिः
PS2.11 ऊ॒र्मिर्न नाव॒मा व॑धीत्
PS2.12 नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑
PS2.13 देव कृ॒ष्टयः॑
PS2.14 अमै॑ - [ ]
PS3.1 -र॒मित्र॑मर्दय
PS3.2 कु॒विथ्‌सुनो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒ॅवेषि॑षो र॒यिं
PS3.3 उरु॑कृदु॒रु ण॑स्कृधि
PS3.4 मा नो॑ अ॒स्मिन् म॑हाध॒ने
PS3.5 परा॑ वर्ग्भार॒भृद्य॑था
PS3.6 सं॒ॅवर्गꣳ॒॒ सꣳ र॒यिं ज॑य
PS3.7 अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना᳚
PS3.8 वर्द्धा॑ नो॒ अम॑व॒च्छवः॑
PS3.9 यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्यवा
PS3.10 तं घेद॒ग्निर्वृ॒धाऽव॑ति
PS3.11 पर॑स्या॒ अधि॑ - [ ]
PS4.1 सं॒ॅवतोऽव॑राꣳ अ॒भ्या त॑र
PS4.2 यत्रा॒हमस्मि॒ ताꣳ अ॑व
PS4.3 वि॒द्मा हि ते॑ पु॒रा
PS4.4 व॒यमग्ने॑ पि॒तुर्यथाव॑सः
PS4.5 अधा॑ ते सु॒म्नमी॑महे
PS4.6 य उ॒ग्र इ॑व शर्य॒हा
PS4.7 ति॒ग्मशृ॑ङ्गो॒ न वꣳस॑गः
PS4.8 अग्ने॒ पुरो॑ रु॒रोजि॑थ
PS4.9 सखा॑यः॒ सं ॅवः॑ सं॒यञ्च॒मिषꣳ॒॒
PS4.10 स्तोमं॑ चा॒ग्नये᳚
PS4.11 वर्.षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते
PS4.12 सꣳ स॒मिद्यु॑वसे वृष॒न्न (
PS4.13 ) -ग्ने॒ विश्वा᳚न्य॒र्य आ
PS4.14 इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒
PS4.15 वसू॒न्या भ॑र
PS4.16 प्रजा॑पते॒ स वे॑द॒सोमा॑ पूषणे॒मौ दे॒वौ

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.6.11.1 TS 2.6.11.1
यु॒क्ष्वाहि दे॑व॒हूत॑माꣳ॒॒ अश्वाꣳ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥उ॒त नो॑ देव दे॒वाꣳ अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि ॥त्वꣳ ह॒ यद्य॑विष्ठ्॒य सह॑सः सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्द्धा क॒वी र॑यी॒णां ॥तं ने॒मिमृ॒भवो॑ य॒था ऽऽन॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञ् - [ ]
पदपाठः (Word-by-word)
यु॒क्ष्व । हि । दे॒व॒हूत॑मा॒निति॑ देव-हूत॑मान् । अश्वान्॑ । अ॒ग्ने॒ । र॒थीः । इ॒व॒ ॥ नीति॑ । होता᳚ । पू॒र्व्यः । स॒दः॒ ॥ उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुष्ट॑र॒ इति॑ वि॒दुः - त॒रः॒ ॥ श्रत् । विश्वा᳚ । वार्या᳚ । कृ॒धि॒ ॥ त्वम् । ह॒ । यत् । य॒वि॒ष्ठ्य॒ । सह॑सः । सू॒नो॒ । आ॒हु॒तेत्या᳚ - हु॒त॒ ॥ ऋ॒तावेत्यृ॒त - वा॒ । य॒ज्ञियः॑ । भुवः॑ ॥ अ॒यम् । अ॒ग्निः । स॒ह॒स्रिणः॑ । वाज॑स्य । श॒तिनः॑ । पतिः॑ ॥ मू॒र्द्धा । क॒विः । र॒यी॒णाम् ॥ तम् । ने॒मिम् । ऋ॒भवः॑ । य॒था॒ । एति॑ । न॒म॒स्व॒ । सहू॑तिभि॒रिति॒ सहू॑ति - भिः॒ ॥ नेदी॑यः । य॒ज्ञ्म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे षष्ठप्रपाठके एकादशोनुवाकः)। (संवर्गेष्टिहोत्रमन्त्राभिधानम्)

दशमे शंयुवाकश्च पत्नीसंयाजकाः स्थिताः। या दर्शपूर्णमासाख्या सेष्टिरत्र समापिता।।

"अथैकादशे संवर्गेष्टिहौत्रमन्त्रा अभिधीयन्ते। ननु “सत्यं प्रपद्ये। इत्यादिक एको हौत्रकाण्डः। “उभा वामिन्द्राग्नी” इत्यादिरन्त्यानुवाकात्मकोपरः। तयोर्मध्ये “युक्ष्वा हि” इत्यनुवाको न समाम्नातः। तत्कथमस्य हौत्रत्वम् समाख्यतेति वदामः। यथा तयोः काण्डयोर्याज्ञिकानां समाख्यया हौत्रत्वं तथास्याप्यनुवाकस्येति द्रष्टव्यम्। अत एवापस्तम्ब आह—अग्नये संवर्गाय पुरोडाशमष्टाकपालम्” इत्युक्तं (क्त्वा) “युक्ष्या हि देवहूतमानिति पञ्चदश सामिधेनीरन्वाह नित्यया परिदधाति कुवित्सु नो गविष्टम इति याज्यानुवाक्ये यस्याजुषाद्विद्माहित इति संयाज्ये” इति। नित्यया आ जुहोतः दुवस्यतेत्यनयेत्यर्थः। तत्र प्रथमायाः सामिधेन्याः पाठस्तु युक्ष्येति। हेग्ने त्वं देवहूतमान्देवानामाह्यातृतमान्देवान्योजय। हिशब्दः प्रसिद्धवाची। प्रसिद्धेस्मिन्कर्मणीत्यर्थः। योजने दृष्टान्तः-रथीरश्वानिवेति। रथस्वामी यथाश्वान्योजयति तद्वत्। किंच त्वं पूर्व्यः पुरातनो होता होमोत्पादको भूत्वा निषदोस्मिन्यागस्थाने निषीद। अथ द्वितीया उत न इति। अपि च हे वेवाग्ने त्वं विदुष्टरोतिशयेनास्मदभिप्रायं विद्वान्देवान्प्रत्यच्छाभिमुख्येन गत्वा यजमानो हषिर्दास्यतीति वोचो ब्रूहि। विश्वा वार्या सर्वाणि वरणीयान्यस्मदभिप्रेतानि श्रत्कृधि श्रद्धेयानि विश्वसनीयानि यथा भवन्ति तथा करु। अथ तृतीया त्वं हेति। हे यविष्ठ्य युवतम हे सहसः सूनो बलस्य पुत्र मथनशक्त्योत्पन्नत्वाद्घलपुत्रत्वम्। हे आहुत देवानामाह्वातः, त्वं ह त्वमेव यद्यस्मादृतावासत्यवांस्तस्माद्यज्ञियो भुवो यज्ञसाधनो भव। अथ चतुर्थी अयमग्निरिति। अयमिध्यमानोग्निः सहस्रसंख्याकस्य शतसंख्याकस्य च वाजस्यान्नस्य पतिरत एव मूर्धा शिरोवदुन्नतः कविर्विद्वान्रणीयां धनानां दाता भवतु। अथ पञ्चमी तं नेमिमिति। हेङ्गिरोङ्गसौष्ठवयुक्ताग्ने समाना हूतिर्देवानामाहूवानं येषामृत्विजां ते सहूतयस्तैः सहूतिभिर्युक्तस्त्वं तं यज्ञमस्माकं नेदीयः समीपं प्रत्यानमस्वानीय वशं कुरु। तत्र दृष्टान्तः ऋभवो यथेति। यथा देवतक्षाणो रथ चक्रस्य नेमिमानीय स्ववशत्वेन परिभ्राम्यमणां कुर्वन्ति तद्वत्। अथ षष्ठी तस्मा इति। हे विरूप विविधरूपयुक्ताग्नेभिद्यवे सर्वतो द्योतमानाय वृष्णे काम्यानां वर्षयित्रे तस्मै यष्टव्याय देवाय नित्यया वैदिकमन्त्ररूपया वाचास्माभिः क्रियमाणां सुष्टुतिं शोभनां स्तुतिं नूनं चोदस्व सर्वथा प्रेरय तदग्रे कथयेत्यर्थः। अथ सप्तमी कमु ष्बिदिति। पाकोल्पः। चक्षो ज्ञानम्। अपाकं चक्षो यस्यासावपाकचक्षाः सर्वज्ञ इत्यर्थः। सर्वं जानतोस्याग्नेः सेनया परिचारकजनेन सह गोषु गवादिद्रव्यविषये कमु पणिं स्तरामहे स्वित्कं नाम व्यवहारमाच्छादयाम। एतदीयं परिचारकजनं वञ्चयित्वा न कोपि व्यवहारोस्माभिः कर्तुं शक्यते। तस्मात्सर्वमपि व्यवहारमस्यानुग्रहेणैव कुर्म इत्यर्थः। अथाष्टमी मा नो देवानामिति। देवानां संबन्धिनो विशो वाणिज्यकारिण्यः प्रजा नोस्मान्मा हासुर्नैव परित्यक्तवत्यः। का इव, प्रस्नातीः प्रस्नुता उसनाः क्षीरादिप्रदानेन वासहेतवोघ्निया इव। किमिव, कृशं नाल्पवयस्कं वत्समिव। यथा क्षीरपूर्णस्तनयुक्ता गावः शिशुं वत्सं न त्यजन्ति तद्वदित्यर्थः। अथ नवमी मा न इति। समस्यास्माभिः समानस्य दूढ्यो दुर्धियः परिद्वेषसः सर्वतो द्वेषं कुर्वतः शत्रोरंहतिरस्मासु कृतो द्रोहो नोस्माना समन्तान्मा वधीत्। कांकेव, नावमूर्मिर्न। यथा नद्यां गच्छन्ती नावमूर्मिर्न नाशयति तद्वद्वैरिकृतो द्रोहो स्मान्मा विनाशयतु। सर्वशब्दपर्यायो वायं समशब्दः सर्वस्य वैरिणो द्रोहो मा विनाशयत्। अथ दशमी नमस्त इति। हे देवाग्ने कृष्टयो मनुष्यास्ते तवौजसे बलाय नमो गृणन्ति नमस्कारवाचिनं शब्दं प्रयुञ्जते यजमानादयस्त्वदीयं बलं नमस्कुर्वन्तीत्यर्थः। अतस्त्वममित्रमस्माकमपकारिणमर्दय मारय, अमै रोगादिभिः। एवं दश सामिधेनीरुक्त्वा पुरोनुवाक्यामाह कुवित्सु न इति। हेग्ने त्वं नोस्माकं रयिं धनं कुविद्बाहुल्यं यथा भवति तथा सुष्ठु संवेविषः सम्यग्व्याप्तिमकरोः। किमर्थं गविष्टये गोभिः सहितेष्टिर्गविष्टिस्तदर्थमुरुकृत्प्रभूतकारी त्वं नोस्माकं कर्मफलमुरु कृधि प्रभूतं कुरु। अथ याज्या"

"मा न इति। नोस्मभ्यं त्वया दत्तेस्मिन्महाधने मा परावर्क्पराभवकारण वर्जनं विनाशनं मा कुरु। तत्र दृष्टान्तः—भारभृद्यथेति। लोके यथा भारयाही बलीवर्दादिर्द्रव्यादिकं न नाशयति तद्वत्। किंच, संवृज्य *संदृश्य देये धनराशौ पुनः पुनः समानीय रयिं (सं) जय प्रभूतं धनं सम्यक्प्रापय। तत्रैव विकल्पितां याज्यामाह अन्यमस्भदिति। हेग्न इयं दुच्छुना रोगरूपा दारिद्र्यरूपानेकरूपा वा पाडीस्मदन्यमस्मत्तो व्यतिरिक्तं वैरिणं संबध्नातु। किमर्थं भियै भीत्यर्थंम्। यथा पीडया वैरी भीतः पलायते तथा पीडां प्राप्नोतु। नोस्माकं शवो वर्ध बलं वर्धय। किंत (व) त्, अमवत्। यश्च(था) वैरिणामयो रोगो वर्धि (र्धे) तं तद्वत्। अथ स्विष्टकृत्पुरोनुवाक्या यस्याजुषन्निति। दुष्टोङ्गविकलो मखो यज्ञो दुर्मखः। न विद्यते दुर्मखो यस्य यजमानस्य सोयमदुर्मखः, सम्यगनुष्ठितयज्ञ इत्यर्थः। तस्य नमस्विनो भक्त्या नमस्कुर्वतो यस्य यजमानस्य शमीं सुखकरीमाहुतिमजुषदग्निरसेवत। अदुर्मखस्य सम्यगनुष्ठायिनो वा यस्य यजमानस्य शमीमजुषत्तंघेत्तघेवोभयं नमस्कुर्वन्तं सम्यगनुतिष्ठन्तं वायमग्निर्वृधा धनादिवर्धनेनावति रक्षति। तत्रैव विकल्पितां पुरोनुवाक्यामाह *संदृश्येत्यत्र संवृज्येति एकस्मिन्पुस्तके पाठ इति ख पुस्तके टिप्पण्याम्। परस्या इति। सम्यग्वनुते भजते यस्यां सा क्रिया संवत्, परस्या सवतोधि उत्कृष्टाया अस्या इष्टेरधिष्ठानमवरान्निकृष्टानप्यस्मानभ्यातराभिमुख्येनागत्य दुःखानि नाशय। येषु बन्धुष्वहमस्मि तान्बन्धूनप्यव रक्ष।"

"अथ स्विष्टकृतो याज्यामाह विद्मा हि त इति। हेग्ने यस्मात्पुरा वयं ते तवावसो रक्षणं विद्म ज्ञातवन्तः। कस्येव, पितृर्यथा। लोके पुरा यथा पितुः पालनं जानन्ति तद्वत्। अधतस्मात्कारणात्ते सुम्नमीमिहे त्वया संपादितं सुखं प्राप्नुमः।"

"अथात्र तिस्र ऋच उपहोमार्थाः। तत्रेयं प्रथमा य उग्र इति। हेग्ने यस्त्वमुग्र एव क्रूरो राजेव शर्यहा शर्याणां हिंसकानां हन्ता, तिग्मशृङ्गो न तीक्ष्णशृङ्गो मृग इव, वंसगो वंसानि वनानि गच्छतीति वंसगः, दावाग्निरूपो भूत्वा वनेषु तिष्ठती (सी) त्यर्थः। तादृशस्त्वं पुरो रुरो जिथ शत्रूणां पुराणि तर्जितवानसि। अथ द्वितीया सखाय इति। हे सखायः परस्परसख्ययुक्ता ऋत्विग्यजमाना वो युष्माकं सम्यञ्चिमिषं समीचीनमप्यभीष्टार्थं (र्थमाग्निः) संपादयन्तु(तु)। समित्युवसर्गस्यापेक्षितः शेषोध्याहृतः। यूयं चाग्नये स्तोमं स्तोत्रं संपादयन्तु (त)। कीदृशायाग्नये, क्षितीनां निवासहेतूनां मध्ये वर्षिष्ठाय वृद्धतमाय, ऊर्जो नप्त्रे बलस्य न पातयित्रे विनाशनमकुर्वते, सहस्वते स्वयमतिशयेन बलवते। अथ तृतीया सं समिदिति। हे वृषन्कामानां वर्षकाग्ने विश्वानी सर्वानी संसमित्संपाद्यैव युवसे यजमानेन मिश्रयसि। अर्य आ ईश्वरस्त्वमागत्येडस्पदे पृथिवीरूपाया वेद्याः स्थाने समिध्यसे सम्यग्ज्वाल्यसे तादृशो महानुभावो नोस्मभ्यं वसूनि धनानि संभर सम्यगाहृत्य प्रयच्छ। ‘यः प्रजाकामः स्यात्तस्मा एतं प्राजापत्यं गार्मुतं चप्रं निर्वपेत्’ ‘यः पशुकामः स्यात्तस्मा एत सोमापौष्ण गार्मुतं चरुं निर्वपेत्’ इत्यनमोर्याज्यानुवाक्याप्रतीकानि दर्शयति प्रजापत इति। ‘प्रजापते न त्वदेतान्यन्यः’ इति प्रजार्थस्य हविषः पुरोनुवाक्या। सा च ‘सोमस्य त्विषिरसि’ इत्यनुवाके व्याख्याता। ‘स वेद पुत्रः पितरम्’ इत्येषा याज्या। सा च ‘हिरण्यगर्भ आपो ह यत्’ इत्यस्मिन्ननुवाके व्याख्याता। पश्वर्थस्य हविषः सोमा पूषणा जनना’ इति पुरोनुवाक्या। ‘इमौ देवौ जायमानौ’ इति याज्या। एतदुभयम् ‘अग्नाविष्णू महि’ इत्यस्मिन्ननुवाके व्याख्यातम्। अत्र विनियोगसंग्रहः ‘संवर्गेष्टौ सामिधेन्यो दश तिस्रस्तु याज्यकाः।"

संयाज्यास्तिस्र उदिता उपहोमास्त्रयो मताः।। प्रजासवे द्वयं योज्यं गार्मुते प्रथमे भवेत्। सोमेमौ तद्द्वितीये स्तस्त्र (त्र त्र) योविंशतिरीरिताः।। इति। अत्र मीमांसा। तृतीयाध्यायस्य तृतीयपादे चिन्तितम् वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः। अनियत्या नियत्या वा नियतिर्नानिरूपणात्।। हौत्रकादिसमाख्यानं नियतर्गमकं स्वतः। निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम्।। याज्यापुरोनुवाक्यापाठादयो धर्मा ऋग्वेदे प्रोक्ताः। दोहननिर्वापादयो यजुर्वेदे। आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे। एतस्यैते धर्मा इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः कोपि धर्म इच्छया संगच्छत इति चेन्मैवम्। हौत्रमाध्वर्यवसौद्गात्रमिति समाख्यानेन नियतिर्बोध्यते। न च समाख्यानस्य बाधकं किंचित्पश्यामः। तस्मादबोधकत्वबाधितत्वयोश्चप्रामाण्यकारणयोरभावाच्छ्रुतिलिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके एकादशोनुवाकः ।। ११ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ संवर्गेष्टेः सप्तदशसामिधेन्योऽनभ्यस्ताः । युक्ष्वा हीत्याद्याः सर्वाः गायत्र्यः ॥ तत्र प्रथमा - हे अग्ने युक्ष्व योजय । छांन्दसो लुक् शपः, 'द्व्यचोतेस्तिङः' इति संहितायां दीर्घत्वम् । देवहूतमान् देवानामाह्वातृतमान् अश्वान् व्यापनान् ज्वालासमूहान् । उभयत्रापि 'दीर्घादटि समानपादे' इति रुत्वम् । रथीरिव यथा रथी रथवान् रथे अश्वान् युङ्क्ते । 'छन्दसीवनिपौ' इति मत्वर्थीय ईकारः । ततस्तथायुक्तजालस्त्वं पूर्व्यः पुराणो होता देवानां यष्टा निषदः निषीद । लेटि व्यत्ययेन शपो लुकि अडागमः ॥
2 अथ द्वितीया - उत न इति ॥ हे देव दीप्तिमन् अग्ने अस्माकं कर्मणि देवान् अच्छ वोचः आभिमुख्येन ब्रूहि भ्रातृव्यानभिभवितुम् । एते सम्यग्यजन्त इति । छान्दसो लिट्, 'निपातस्य च' इत्यच्छेत्यस्य संहितायां दीर्घत्वम् । विदुष्टरः विद्वत्तरः । अयस्मयादित्वेन भत्वात्सम्प्रसारणम् । किञ्च - विश्वानि वार्याणि वरणीयानि अभिप्रेतानि भ्रातृव्यमरणादीनि श्रत् कृधि सत्यानि कुरत । यथाभिमतसंपत्तिस्सत्यम् । करोतेर्लेटि निपातस्य छान्दसश्शपो लुक् 'श्रुशृणुपूकृवृभ्यः' इति धिभावः ॥
3 तृतीया - त्वं इति ॥ हे यविष्ठ्य युवतम । छान्दसः स्वार्थिको यत् । सहसो बलस्य सूनो मथनप्रभवत्वात् हे आहुत नित्यमाभिमुख्येनाहुत । 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य पदादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वं, परस्य त्वाष्टमिकमामन्त्रिताद्युदात्तत्वम् । यत् यस्मात् ऋतावा सत्यवान् यज्ञवान् वा । तस्मादस्माकमपि यज्ञियो यज्ञसम्पादनार्हो भुवः भव । त्वमेव तथाभवितुमर्हसीति । भवतेर्लेटि शपो लुकि अडागमे 'भूसुवोस्तिङि' इति गुणाभावः । 'हि च' इति निघाताभावः । ऋतशब्दान्मत्वर्थीयो वनिप्रत्ययः । यज्ञशब्दात् 'यज्ञर्त्विग्भाम्' इति घः ॥
4 चतुर्थी - अयमिति ॥ अयं खल्वग्निः पतिः स्वामी रयीणां सर्वधनानां तस्मादिहैव समिन्धयाम इति । अग्निरिदानीं विशेष्यते - सहस्रिणः शतिनश्च शतप्रमाणवतस्सहस्रप्रमाणवतश्च वाजस्य अन्नस्य पतिः स्वामी अत एव मूर्धा प्रधानभूतः कविः क्रान्तदर्शनः । तस्मादयं रयीणां दाताऽस्त्वितिभावः । रयीणामित्यत्र 'नामन्यतरस्याम्' इति विभक्त्युदात्तत्वम् ॥
5 पञ्चमी - तमिति ॥ हे अग्ने नेदीयः अन्तिकतमः सदा अस्माकं प्रत्यासन्नः अङ्गिरः अङ्गनादिगुणयुक्त तमिमं यज्ञमानमस्व अस्मान् प्रति प्रह्वीभूतं कुरु । अस्मदभिमतसम्पादनोन्मुखं कुरु । सहूतिभिस्समानाह्वानैस्सहायैः सह । यद्वा - नेदीयः अन्तिकतममानमस्व । यथा ऋभवो देवतक्षाणो नेमिं नीयमानं आवर्तयन्ति । तद्वद्यज्ञमानमयेति । अन्तर्भावितस्य व्यत्ययेनात्मनेपदम् । 'यथेति पदान्ते' इति यथेत्यस्य निघातः ॥
6 षष्ठी - तस्मा इति ॥ नूनमिति पादपूरणे । हे अग्ने विरूप नानारूप तस्मै यज्ञैराराधनीयाय अभिद्यवे अभिगतदीप्तये वृष्णे वर्षित्रे इन्द्राय इन्द्रार्थं वाचा नित्यया वैदिक्या ऋगादिरूपया सुष्टुतिं शोभनां स्तुतिं शोभनस्तुतिकं वा यज्ञं चोदस्व प्रेरय पुनःपुनः प्रवर्तय । यद्वा - आभीक्ष्ण्यं नित्यत्वं यथा नित्यप्रहसित इति पुनःपुनः प्रवर्तमानया वाचा सुष्टुतिं प्रवर्तयेति । यथा पुनःपुनः स्तुवीत यजमानः तथा धनादिना समृद्धं कुर्विति । सुष्टुतिशब्देन गतिसमासे 'मन्क्तिन्व्याख्यान' इत्यादिना उत्तरपदान्तोदात्तत्वम् । बहुव्रीहौ छान्दसं षत्वम् । कश्चिदाह – तस्मै यजमानाय हविषां वर्षित्रे पुनःपुनः यज्ञं प्रवर्तयेति ॥
7 सप्तमी - कमुष्विदिति ॥ कमिति प्रश्ने, उ इत्यवधारणे, स्विदिति वितर्के, अस्याग्नेरपाकचक्षसः अनल्पदर्शनस्य प्रवृद्धज्ञानस्य सेनया बलसंपत्त्या कमेव उ खलु पणिं सांव्यवहारिकं क्रयविक्रयादानभोमादिलक्षणं गोषु गवादिधनविषयेषु स्तरामहे छादयामः । न किञ्चिदपि सर्वमपि व्यवहारं कुर्मः एवम् । पण व्यवहारे, औणादिकः इप्रत्ययः, तृणातेर्विकरणव्यत्ययेन शप्, स्विदित्यस्य छान्दस षत्वम् ॥
8 अष्टमी - मा न इति ॥ देवानां हविर्व्यवहारिणां यजमानानां सम्बन्धिन्यो विशः प्रजा ऋत्विजो वा नः अस्मान् मा हासुः मा त्याक्षुः प्रस्नातीः प्रस्नात्यः प्रस्नुताः उस्राः गाः इव अहन्तव्याः अघ्नियाः । यद्वा - अघ्निया इति गवां नाम । उस्राः क्षीरादिदानेन जगतां वासयित्र्यः किमिव कृशं न वत्समिव प्रस्नुतस्तन्याः हि गावो वत्सकं विशेषेण न जहति । एवं मां मा हासुरिति । उभयोपमार्थीयाऽपि वाक्यार्थोपमा भवतीत्युपमैतत् ॥
9 नवमी - मा न इति ॥ समस्य सर्वस्यापि दूढ्यः द्रढीयः । पृषोदरादिः । परिद्वेषसः सर्वतो द्वेषणशीलस्य भ्रातृव्यस्य अंहतिः अभिभवः अस्मान् मा वधीत् माऽस्मानवधिषुः । नावं दुर्बला ऊर्मिरिव । कश्चिदाह – समस्य समानस्य दूढ्यः मत्सरिणः । समानमन्यत् ॥
10 दशमी- नमस्त इति ॥ हे अग्ने नमस्ते तद खल्वोजसे बलाय कृष्टयो मनुष्या गृणन्ति शब्दयन्ति । तवैव बलं स्तुवन्ति यजमानादयः । अतः त्वममित्रमस्माकमपकारिणं शत्रुं अमैः अमनैः रोगादिभिः अर्दय मारय । अमेरित्रप्रत्ययः । अन्यत्र पचाद्यचि वृषादिः द्रष्टव्यः ॥
11 एकादशी - कुवित्स्विति ॥ अग्ने नः अस्माकं रयिं धनं सुसंवेषिषः । सुष्ठु समन्तात्प्रापय । कुवित्, इति निपातो भूयिष्ठमित्यस्यार्थे वर्तते । विष व्याप्तौ लेटि 'सिब्बहुळं लेटि' इति 'लेटोडाटौ' इत्यडागमः । गविष्टये गावश्च इष्टयश्च गविष्टः तदर्थं तत्साधनानि कर्माणि मे स्युरिति । लिङ्गव्यत्ययश्छान्दसः, नुमभावश्छान्दस्तः । उत्तमबहुलधनं प्रापयेति । इदानीं तत्प्राप्तिं बहुतरं कुर्वित्याशास्ते - उरुकृत् उरुणो बहुनो धनस्य कर्तुः न हि त्वमल्पं कर्तुं जानासि । पादादित्वात्क्षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । नः अस्माकं धनं उरु कृधि बहुतरं कुरु । सामर्थ्यातिशयो गम्यते । 'नश्च धातुस्थोरुषुभ्यः' इति नसो णत्वम्, 'कः करत्करति' इति सत्वम् । करोतेर्लेट्, पूर्ववच्छपो लुक् धिभावश्च ॥
12 द्वादशी - मा न इति ॥ उत्तमं महत्तमं धनं देहीति तत्र महाधने त्वयाऽस्मिन् दीयमाने इत्थं कर्तव्यम् । भारभृदिति । मा परावर्क् मा परानैषीः । यथा महान्तं भारं वोढुं समर्थो भारं न इति न किञ्चित् परावर्जयति महान्तमपि भारमानयति । एवं त्वयाऽपि कर्तव्यम् । व्रजेर्लेटि 'मन्त्रे घस' इति च्लेर्लुक् ॥ किञ्च - संवर्गं संवृज्य देये धनराशौ पुनःपुनः समानीय महान्तं धनराशिं सञ्जय सम्यक् जित्वा आनय । वर्जेराभीक्ष्ण्ये णमुल् । छान्दसो वा घमुञ् ॥
13 त्रयोदशी - अन्यमिति ॥ हे अग्ने अस्मत् अस्मत्तः अन्यं शत्रुं इयं दुच्छुना दौर्गत्यं दुर्भिक्षं नरकादिरूपा वा पीडा सिषक्तु सेवतां । सचेर्लेटि 'बहुलं छन्दसि' इति शपः श्लुः, इत्वं चाभ्यासस्य । भियै भयार्थं यथाऽसौ भीतः पलायेत नः अस्माकं तु शवः बलं वर्धय । अमवत् आमसाधनं भ्रातृव्यक्षयो यैस्तद्वत् बलं वर्धय । 'अणावकर्मकात्' इति परस्मैपदम्, 'छन्दस्युभयथा' इति शप आर्धधातुकत्वाण्णलोपः, 'द्व्यचोतस्तिङः' इति संहितायां दीर्घत्वम् ॥
14 चतुर्दशी - यस्येति ॥ यस्य नमस्विनः अन्नवतः पुरोडाशादिहविस्संपादिनो यजमानस्य शमीं कर्म अजुषत् सेवते । प्रीतो भजते, कीदृशस्य अदुर्मखस्य अविगुणयज्ञस्य तमेवाग्निः वृधा वर्धनेनापि तर्पयति । प्रवृद्धं वा रक्षति । धेदिति पादपूरणे । केचिदाहुः - नमस्विनो नमस्कारशीलस्य वा अविगुणयज्ञस्य वा कर्मेति विकल्पार्थो वाशब्द इति । घेति पादपूरणे इदित्यवधारणे ॥
15 पञ्चदशी - परस्या इति ॥ संवतः सङ्गतेरधि उपरि परमे संश्लेषे तिष्ठन् । 'उपसर्गाच्छन्दसि' इति वतिः । अवरानपकृष्टानप्यस्मान् अभ्यातर आभिमुख्येन, मर्यादयां च तर तारय दुःखात् । वनोतेः संपदादित्वात्क्विप् । परस्मात्संवननीयात् लोकादुपरिवर्तमानः त्वं अवरानस्मान् अभ्यातर अभिमुख्येनागच्छ । तथा कृत्वा यत्राहमस्मि कुले ग्रामे जनपदे वा काले वा तान् तत्स्थानपि सर्वानव रक्ष तर्पय वा । रुत्वानुनासिकावुक्तौ ॥
16 षोडशी - विद्मेति ॥ हे अग्ने तस्मात्ते तव पुरा पूर्वमेव वयं जानीमः कथमिव अवसः अभिगन्तव्यः पितरमिव त्वा वयं जानीमः अवगतो रक्षकः त्वमस्माकं पितुरेवं ते वयं जानीमः । पुत्रद्वेषितव्यावृत्त्यर्थमिदम् । अध अत एव कारणात् ते त्वामेव सुम्नं सुखमीमहे याचामहे । 'द्व्यचोतस्तिङः' इति 'निपातस्य च' इति उभयत्रापि दीर्घत्वम् ॥
17 सप्तदशी - य इति ॥ हे अग्ने यस्त्वमुग्रः उद्गूर्णबलतया उग्र इव भवति । शर्यहा । छान्दसः कर्तरि कृत्यः 'तत्र साधुः' इति यत् । शर्याणां हिंसकानां हन्ता शर्यहा । तिग्मशृङ्गः न तीक्ष्णशृङ्गः तीक्ष्णज्वालः तिग्मश्ङ्ग इव । वंसगः वननीयानि वनानि गच्छति वनसङ्गः । वननोयेषु वनेषु सक्त इति वा वनसङ्गः । पृषोदरादित्वादिष्टस्वरूपलाभः । एवं मृगवत्सौम्यस्वभावः उग्रस्वभावश्च त्वं पुरः असुराणां पुरीः मेघान्वा रुरोजिथ अधक्षीः । छान्दसो हः । भ्रातृव्याणां हन्ता वृष्टेरुत्पादनेन वा सर्वाभिमतकारी ॥
18 अथास्यामेवेष्ट्यां पुरोनुवाक्या - सखाय इत्यनुष्टुप् ॥ हे सखाय समानख्यानाः ऋत्विग्यजमानाः वः युष्मदर्थं युष्माकं श्रेयोर्थं अस्मासु अग्नये वर्षिष्ठाय प्रवृद्धतमाय क्षितीनां निवासहेतूनां मध्ये ऊर्जो नप्त्रे चतुर्थाय यथान्नादाहुतिः आहुतेरादित्यः आदित्यादग्निरिति । सहस्वते अतिशयेन बलवते ईदृशायास्मै स्मम्यञ्चं समीचीनं अतिगुणं स्तोमं स्तोत्रमिषमन्नं पुरोडाशादिकं हविश्च समारभध्वं कुरुत । एतत्क्रियाया अश्रुतत्वात् साका त्वादुपसर्गसामर्थ्यादुत्तस्मिंश्च मन्त्रे विशेषस्य श्रुतत्वात् । तत्रायं विवेकः अग्नये इषं स्तोमं च संहराम इत्यत्रोच्यते । सोग्निरस्मभ्यं विश्वानि वसूनि समाहरत्विति उत्तरत्र वक्ष्यत इति । प्रियस्थिरादिना वृद्धशब्दस्य वर्षादेशः ॥
19 अथात्रैव याज्या - संसमिदित्यनुष्टुप् ॥ 'प्रसमुपोदः' इति द्विर्वचनम् । हे वृषन् कामानां वर्षितः अग्ने विश्वानि वशूनि धनानि भक्तैः संयुवसे संमिश्रयसि भक्तेभ्यो दातुं राशीकरोषि । व्यत्ययेन शः, आत्मनेपदं च । यस्मादर्थः ईश्वरस्त्वम् । आकारो मर्यादायाम् । मयार्दाऽसङ्करणेन यथाधिकारं धनानां प्रापयिता त्वमिति । किञ्च – इडस्पदे पृथिव्याः पदे स्थाने वेद्यास्समिध्यसे सम्यक् ज्वाल्यसे । सः महानुभावस्त्वं अस्मभ्यं वसूनि समाभर समाहरेति । 'हृग्रहोर्भश्छन्दसि' । इडन्नं तद्वती पृथिवी । मत्वर्थीयो लुप्यते, अयस्मयादित्वेन पदत्वाज्जश्त्वं, 'सावेकाचः' इति विभक्तेरुदात्तत्वम्, 'षष्ठ्याः पतिपुत्र' इत्यादिना सत्वम् ॥
20 'यः प्रजाकामस्स्यात्तस्मा एतं प्राजापत्यं गार्मुतं चरुं निर्वपेत्' इत्यस्याः पुरोऽनुवाक्या - प्रजापते न त्वदिति त्रिष्टुप् ॥

व्याख्यातेयं 'सोमस्य त्विषिरसि' इत्यत्र इह त्वस्याः प्रतीकं गृह्यते । हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥

21 तत्रैव याज्या - स वेद पुत्र इति जगती ॥ इयमपि 'हिरण्यगर्भः' इत्यत्र व्याख्याता । प्रतीकग्रहणमिदमस्याः । स एव प्रजापतिः पुत्रो भूत्वा पितरं मातरं च वेद पुत्रभावेन वर्तते । स एव सूनुः सोता यजमानश्च भवति । स एव पुनर्मघः पुनःपुनः क्रियमाणो यागश्च भवति । स एव द्यां स्वर्गं च और्णोत् स्वतेजसाऽऽच्छादयति स एव विश्वानि भूतजातानि अभवत् आभवत् व्याप्नोति स एवेति ॥
21 'यः पशुकामस्स्यात्तस्मा एतं सोमापौष्णं गार्मुतं चरुं निर्वपेत्' इत्यस्य पुरोनुवाक्या - सोमापूषणा जनाना रयीणामिति त्रिष्टुप् ॥ इयं च व्याख्याता 'अग्नाविष्णू महि' इत्यत्र प्रतीकग्रहणमस्या अप्यत्र । सोमापूषणौ रयीणां धनानां जनना जनयितारौ द्यावापृथिव्योश्च जनयितारौ । विश्वस्य भूतजातस्य जातमात्रावेव गोपौ एवं महानुभावाविमौ देवाः कृतवन्तः अमृतत्वस्य नाभिं नहनभूतौ देवाः कृतवन्तः ॥
23 अथ तत्रैव याज्या - इमौ देवौ जायमानौ इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । प्रतीकमेव गृह्यते । इमौ देवौ सोमापूषणौ जायमानावेव जुषन्त सर्वे देवाः इमौ देवौ तमांसि अजुष्टानि अप्रियाणि गूहतां जातमात्रावेव छादितवन्तौ । आभ्यां पक्वमुदकं संवत्सरव्रतं आमासु उस्रियासु रश्मिषु इन्द्रो वृष्ट्यर्थं जनत् जनयति पक्वं करोति ॥
इति द्वितीये षष्ठे एकादशोऽनुवाकः ॥
पञ्चशत् 2 #
TS 2.6.11.2 TS 2.6.11.2
-म॑ङ्गिरः ॥ तस्मै॑ नू॒ नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व सुष्टु॒तिं ॥ कमु॑ ष्विदस्य॒ सेन॑या॒ऽग्नेरपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे ॥मा नो॑ दे॒वानां॒ ॅविशः॑ प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्नि॑याः ॥मा नः॑ समस्य दू॒ढ्यः॑ परि॑द्वेषसो अꣳ ह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥ नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ । अमै॑ - [ ]
पदपाठः (Word-by-word)
अ॒ङ्गि॒रः॒ ॥ तस्मै᳚ । नू॒नम् । अ॒भिद्य॑व॒ इत्य॒भि - द्य॒वे॒ । वा॒चा । वि॒रू॒पेति॑ वि - रू॒प॒ । नित्य॑या ॥ वृष्णे᳚ । चो॒द॒स्व॒ । सु॒ष्टु॒तिमिति॑ सु - स्तु॒तिम् ॥ कम् । उ॒ । स्वि॒त् । अ॒स्य॒ । सेन॑या । अ॒ग्नेः । अपा॑कचक्षस॒ इत्यपा॑क-च॒क्ष॒सः॒ ॥ प॒णिम् । गोषु॑ । स्त॒रा॒म॒हे॒ ॥ मा । नः॒ । दे॒वाना᳚म् । विशः॑ । प्र॒स्ना॒तीरिति॑ प्र - स्ना॒तीः । इ॒व॒ । उ॒स्राः ॥ कृ॒शम् । न । हा॒सुः॒ । अघ्नि॑याः ॥ मा । नः॒ । स॒म॒स्य॒ । दू॒ढ्यः॑ । परि॑द्वेषस॒ इति॒ परि॑ - द्वे॒ष॒सः॒ । अꣳ॒॒ह॒तिः ॥ ऊ॒र्मिः । न । नाव᳚म् । एति॑ । व॒धी॒त् ॥ नमः॑ । ते॒ । अ॒ग्ने॒ । ओज॑से । गृ॒णन्ति॑ । दे॒व॒ । कृ॒ष्टयः॑ ॥ अमैः᳚ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.6.11.3 TS 2.6.11.3
-र॒मित्र॑मर्दय ॥ कु॒विथ्‌सुनो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒ॅवेषि॑षो र॒यिं । उरु॑कृदु॒रु ण॑स्कृधि ॥ मा नो॑ अ॒स्मिन् म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒ॅवर्गꣳ॒॒ सꣳ र॒यिं ज॑य ॥अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना᳚ । वर्द्धा॑ नो॒ अम॑व॒च्छवः॑ ॥ यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्यवा । तं घेद॒ग्निर्वृ॒धाऽव॑ति ॥ पर॑स्या॒ अधि॑ - [ ]
पदपाठः (Word-by-word)
अ॒मित्र᳚म् । अ॒र्द॒य॒ ॥ कु॒वित् । स्विति॑ । नः॒ । गवि॑ष्टय॒ इति॒ गो-इ॒ष्ट॒ये॒ । अग्ने᳚ । सं॒ॅवेषि॑ष॒ इति॑ सं - वेषि॑षः । र॒यिम् ॥ उरु॑कृ॒दित्युरु॑-कृ॒त् । उ॒रु । नः॒ ॥ कृ॒धि॒ । मा । नः॒ । अ॒स्मिन्न् । म॒हा॒ध॒न इति॑ महा-ध॒ने । परेति॑ । व॒र्क् । भा॒र॒भृदिति॑ भार - भृत् । य॒था॒ ॥ सं॒ॅवर्ग॒मिति॑ सं - वर्ग᳚म् । समिति॑ । र॒यिम् । ज॒य॒ ॥ अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने᳚ । सिष॑क्तु । दु॒च्छुना᳚ ॥ वर्द्ध॑ । नः॒ । अम॑व॒दित्यम॑-व॒त् । शवः॑ ॥ यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी᳚म् । अदु॑र्मख॒स्येत्यदुः॑-म॒ख॒स्य॒ । वा॒ ॥ तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥ पर॑स्याः । अधीति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.6.11.4 TS 2.6.11.4
सं॒ॅवतोऽव॑राꣳ अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ताꣳ अ॑व ॥ वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ ते सु॒म्नमी॑महे ॥ य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वꣳस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥ सखा॑यः॒ सं ॅवः॑ सं॒यञ्च॒मिषꣳ॒॒ स्तोमं॑ चा॒ग्नये᳚ । वर्.षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥ सꣳ स॒मिद्यु॑वसे वृष॒न्न ( ) -ग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ।प्रजा॑पते॒ स वे॑द॒सोमा॑ पूषणे॒मौ दे॒वौ॥
पदपाठः (Word-by-word)
सं॒ॅवत॒ इति॑ सं-वतः॑ । अव॑रान् । अ॒भि । एति॑ । त॒र॒ ॥ यत्र॑ । अ॒हम् । अस्मि॑ । तान् । अ॒व॒ ॥ वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने᳚ । पि॒तुः । यथा᳚ । अव॑सः ॥ अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥ यः । उ॒ग्रः । इ॒व॒ । श॒र्य॒हेति॑ शर्य - हा । ति॒ग्मशृ॑ङ्ग॒ इति॑ ति॒ग्म - शृ॒ङ्गः॒ । न । वꣳस॑गः ॥ अग्ने᳚ । पुरः॑ । रु॒रोजि॑थ ॥ सखा॑यः । समिति॑ । वः॒ । स॒म्यञ्च᳚म् । इष᳚म् । स्तोम᳚म् । च॒ । अ॒ग्नये᳚ ॥ वर्.षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे᳚ । सह॑स्वते ॥ सꣳस॒मिति॒ सं-स॒म् । इत् । यु॒व॒से॒ । वृ॒ष॒न्न् ( ) । अग्ने᳚ । विश्वा॑नि । अ॒र्यः । आ ॥ इ॒डः । प॒दे । समिति॑ । इ॒द्ध्य॒से॒ । सः । नः॒ । वसू॑नि । एति॑ । भ॒र॒ ॥ प्रजा॑पत॒ इति॒ प्रजा᳚ - प॒ते॒ । सः । वे॒द॒ । सोमा॑पूष॒णेति॒ सोमा᳚ - पू॒ष॒णा॒ । इ॒मौ । दे॒वौ ॥
पदसंख्या: 69