प्रयाज॒त्वं ॅयस्यै॒वं ॅवि॒दुषः॑ प्रया॒जा इ॒ज्यन्ते॒ प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान्नुदते ऽभि॒क्रामं॑ जुहोत्य॒भिजि॑त्यै॒ यो वै प्र॑या॒जानां᳚ मिथु॒नं ॅवेद॒ प्र प्र॒जया॑ प॒शुभि॑ र्मिथु॒नै र्जा॑यते स॒मिधो॑ ब॒ह्वीरि॑व यजति॒ तनू॒नपा॑त॒मेक॑मिव मिथु॒नं तदि॒डो ब॒ह्वीरि॑व यजति ब॒र्॒.हिरेक॑मिव मिथु॒नं तदे॒तद्वै प्र॑या॒जानां᳚ मिथु॒नं ॅय ए॒वं ॅवेद॒ प्र - [ ]
पदपाठः (Word-by-word)
प्र॒या॒ज॒त्वमिति॑ प्रयाज - त्वम् । यस्य॑ । ए॒वम् । वि॒दुषः॑ । प्र॒या॒जा इति॑ प्र-या॒जाः । इ॒ज्यन्ते᳚ । प्रेति॑ । ए॒भ्यः । लो॒केभ्यः॑ । भ्रातृ॑व्यान् । नु॒द॒ते॒ । अ॒भि॒क्राम॒मित्य॑भि - क्राम᳚म् । जु॒हो॒ति॒ । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । यः । वै । प्र॒या॒जाना॒मिति॑ प्र - या॒जाना᳚म् । मि॒थु॒नम् । वेद॑ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । स॒मिध॒ इति॑ सं - इधः॑ । ब॒ह्वीः । इ॒व॒ । य॒ज॒ति॒ । तनू॒नपा॑त॒मिति॒ तनू᳚ - नपा॑तम् । एक᳚म् । इ॒व॒ । मि॒थु॒नम् । तत् । इ॒डः । ब॒ह्वीः । इ॒व॒ । य॒ज॒ति॒ । ब॒र्॒.हिः । एक᳚म् । इ॒व॒ । मि॒थु॒नम् । तत् । ए॒तत् । वै । प्र॒या॒जाना॒मिति॑ प्र - या॒जाना᳚म् । मि॒थु॒नम् । यः । ए॒वम् । वेद॑ । प्रेति॑ ।