प्र॒जया॑ प॒शुभि॑ र्मिथु॒नै र्जा॑यते दे॒वानां॒ ॅवा अनि॑ष्टा दे॒वता॒ आस॒न्नथासु॑रा य॒ज्ञ्म॑जिघाꣳ स॒न् ते दे॒वा गा॑य॒त्रीं ॅव्यौ॑ह॒न् पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि॒ ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द्वर्म॒ यज॑मानाय॒ यत् प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व तद्य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒ तस्मा॒द्-वरू॑थं पु॒रस्ता॒द्-वर्.षी॑यः प॒श्चाद्ध्रसी॑यो दे॒वा वै पु॒रा रक्षो᳚भ्य॒ - [ ]
पदपाठः (Word-by-word)
प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । दे॒वाना᳚म् । वै । अनि॑ष्टाः । दे॒वताः᳚ । आसन्न्॑ । अथ॑ । असु॑राः । य॒ज्ञ्म् । अ॒जि॒घाꣳ॒॒स॒न्न् । ते । दे॒वाः । गा॒य॒त्रीम् । वीति॑ । औ॒ह॒न्न् । पञ्च॑ । अ॒क्षरा॑णि । प्रा॒चीना॑नि । त्रीणि॑ । प्र॒ती॒चीना॑नि । ततः॑ । वर्म॑ । य॒ज्ञाय॑ । अभ॑वत् । वर्म॑ । यज॑मानाय । यत् । प्र॒या॒जा॒नू॒या॒जा इति॑ प्रयाज - अ॒नू॒या॒जाः । इ॒ज्यन्ते᳚ । वर्म॑ । ए॒व । तत् । य॒ज्ञाय॑ । क्रि॒य॒ते॒ । वर्म॑ । यज॑मानाय । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । तस्मा᳚त् । वरू॑थम् । पु॒रस्ता᳚त् । वर्.षी॑यः । प॒श्चात् । ह्रसी॑यः । दे॒वाः । वै । पु॒रा । रक्षो᳚भ्य॒ इति॒ रक्षः॑-भ्यः॒ ।