प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.6.1.7 TS 2.6.1.7
कुरुते॒ तस्मा॑दाहु॒र्यश्चै॒वं ॅवेद॒ यश्च॒ न क॒था पु॒त्रस्य॒ केव॑लं क॒था साधा॑रणं पि॒तुरित्यस्क॑न्नमे॒व तद्यत् प्र॑या॒जेष्वि॒ष्टेषु॒ स्कन्द॑ति गाय॒त्र्ये॑व तेन॒ गर्भं॑ धत्ते॒ सा प्र॒जां प॒शून्. यज॑मानाय॒ प्रज॑नयति ॥
पदपाठः (Word-by-word)
कु॒रु॒ते॒ । तस्मा᳚त् । आ॒हुः॒ । यः । च॒ । ए॒वम् । वेद॑ । यः । च॒ । न । क॒था । पु॒त्रस्य॑ । केव॑लम् । क॒था । साधा॑रणम् । पि॒तुः । इति॑ । अस्क॑न्नम् । ए॒व । तत् । यत् । प्र॒या॒जेष्विति॑ प्र - या॒जेषु॑ । इ॒ष्टेषु॑ । स्कन्द॑ति । गा॒य॒त्री । ए॒व । तेन॑ । गर्भ᳚म् । ध॒त्ते॒ । सा । प्र॒जामिति॑ प्र - जाम् । प॒शून् । यज॑मानाय । प्रेति॑ । ज॒न॒य॒ति॒ ॥
पदसंख्या: 35