पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे षष्ठप्रपाठके दशमोनुवाकः)। (सूक्तवाकमन्त्रव्याख्यापत्नीसंयाजानामभिधानम्)
"अनूयाजाः सूक्तवाकव्याख्या नवम ईरिता।। अथ दशमे शंयुवाकमन्त्रव्याख्या पत्नीसंयाजाश्च वक्ष्यन्ते। तत्र शंयुवाकमन्त्रान्व्याख्यातुं प्रस्तौति देवा वा इति। यस्मै देवाय यद्धविर्विहितं तस्य हविषः सांकर्यमन्तरेण तस्य तस्य देवस्य स्वगतं कुर्विति बृहस्पतिपुत्रं शंयुनामानं प्रति देवा अब्रुवन् तदासौ शंयुरप्येवं चिन्तितवान् एतत्काम एतेन यज्ञेन यजतेत्येतादृशेन ब्राह्मणेनानुक्तो यः कश्चिद्यजेत स्वेच्छयैव, यश्चान्यः श्रद्धारहितो यजते, तयोरुभयोर्यज्ञफलं ममास्त्विति वरः। तत आरभ्य तत्फलद्वयं शंयुमेत्र प्राप्नोति। पुनरपि शंयुरेवमुवाच तदेतदुभयं मम संपन्नं, मदीयायाः पुत्रपोत्रादिरूपायाः प्रजायाः किं दास्यतेति। ततो देवा अपगोरणादिकर्तुर्यातना त्वत्पुत्राधीना भवत्विति वरं दत्तवन्तः। अपगोरणं ताडनोद्योगः। तमुद्योगं ब्राह्मणविषये यः करोति तं पुरुष शतनिष्कदण्डेन यातयात्क्लेशयेत्। यो निहनत्ताडयेत्तं सहस्रनिष्कदण्डेन क्लेशयेत्। यस्तु ब्राह्मणशरीरे लोहितं ताडनेन ग्राहयति, लोहितं भूमौ पतित्वा यावतः परमाणून्व्याप्नोति तावतः संवत्सरानयं पितृलोकं न प्राप्नोति, किंतु यमयातनामनुभवति तत्सर्वं त्वत्प्रजाधीनमिति वरः। यस्मादुक्तरीत्या ब्राह्मणाधिक्षेपादौ प्रत्यवायोस्ति तस्मात्तन्न कुर्यांत्। करणे चैतावता पूर्वोक्तपापेन युक्तो भवति। यस्य शंयुवाकस्य व्याख्यानायायं प्रस्तावः कृतस्तस्य शंयुवाकमन्त्रस्य विनियोगं बौधायन आह “यदानुजानाति शंयोरनुब्रूहीति तच्छंयुवाकमन्वाह तच्छंयोरावृणीमह इत्येतदनुवाकस्य” इति। स चानुवाको मन्त्रकाण्डे समाम्नातः “तच्छंयोरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवी स्वस्तिरस्तु नः। स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम्। शं नो अस्तु द्विपदे। शं चतुष्पदे” (ब्रा. का. ३ प्र. ५ अ. ११) इति। तत्तादृशं प्रशस्तं फलं शंयोर्बार्हस्पत्यादिवृणीमहे प्रार्थयामहे। किं तत्फलमिति क्रमेणोच्यते—यज्ञाय गातुं यज्ञस्य देवान्प्रति गमनमावृणीमहे यज्ञपतये यजमानस्य गातुं देवान्प्रति गमनमावृणीमहे। नोस्माकं दैवी स्वस्तिर्देवनिमित्तं विघ्नोप शमनं मानुषेभ्यः स्वस्तिर्विघ्नोपशमनमस्तु। भेषजं सर्वपापानामौषधमिदं कर्मोर्ध्वं जिगातु अविघ्नेन समाप्तिं प्राप्नोतु। अस्मदीयाय द्विपदे मनुष्याय चतुष्पदे पशवे च शं सुखमस्तु। तस्यैतस्य मन्त्रस्य पाठं प्रशंसति तच्छंयोरिति। तत्रानेन मन्त्रपाठेनेनं यज्ञं तत्तद्देवानामसांकर्येण स्वगतं करोति। प्रकारन्तरेण पुनः प्रशंसति तच्छंयोरिति। मन्त्रवाक्यपाठ एवास्य दातव्यो भागस्तत्तुष्टिहेतुत्वात्। आशी परत्वं मन्त्रभागस्य दर्शयति गातुं यज्ञायेति। अथ चतुरः पत्नीसंयाजान्विधत्ते----सोमं यजतीति। एतेषां चतुर्णां पत्नीसंयाजानां प्रत्येकं याज्यानुवाक्ये विधत्ते जामि वा इति। प्रयाजानां पत्नीसंयाजानां च तावद्द्रव्यकृतं वैषम्यं नास्ति, मन्त्रकृतमपि यदि न स्यात्तदानीमालस्यं भवति, तत्परिहाराय प्रयाजेषु यजुर्भिरिष्टेषु पत्नीसंयाजा ऋग्भ्यां याज्यानुवाक्याभ्यां यष्टव्या। ते च याज्यानुवाक्ये क्रमेण मन्त्रकाण्डे समाम्नाते। तद्विनियोगं बौधायनो दर्शयति----“ अथ पत्नीसंयाजानामा प्यायस्व सं त इति सौम्यस्येह त्त्वष्टारमग्नियं तन्नस्तुरीपमिति त्वष्टुर्देवानां पत्नीरुत ग्ना वियन्तु देवपत्नीरिति देवपत्नीनामग्निर्होता गृहपतिः स राणा वयमु त्वा गृहपते जनानामिति गृहपतेः ” इति। तत्र सोमस्य त्वष्टुश्चान्यत्राम्नातानां मन्त्राणां प्रतीकान्याम्नायन्ते “आ प्यायस्व सं ते। इह त्वष्टारमप्रियं तन्नस्तुरीपम” (ब्रा. का. ३ प्र. ५ अ. १२) इति। आ प्यायस्व समेतु त इत्येषा सोमस्य पुरोनुवाक्या। सं ते पया सीति सोमस्य याज्या। एतदुभयं चतुर्थकाण्डस्य द्वितीयप्रपाठके व्याख्यास्यते। इह त्वष्टारमिति त्वष्टुः पुरोनुवाक्या। तन्नस्तुरीपमिति याज्या । एतच्चोभयं तृतीय काण्डस्य प्रथमप्रपाठके व्याख्यास्यते। देवपत्नीपुरोनुवाक्यां दर्शयति----"
“देवानां पत्नीरुशतीरवन्तु नः। प्रावन्तु नस्तुजये वाजसातये। या पार्थिवासो या अपारति व्रते। ता नो देवीः सुहवाः शर्म यच्छत”। (ब्रा. का. ३ प्र. ५ अ. १२) इति। इन्द्राण्यादयो देवपत्न्यो याः सन्ति ता उशतीरस्मद्धितं कामयमाना अस्मानवन्तु रक्षन्तु। परैरापादितमरिष्टं वारयन्त्वित्यर्थः । किंच तुजयेपत्याय वाजसातये द्रव्यलाभाय नोस्मान्प्रकर्षेण रक्षन्तु। न केवलं दिवि स्थिता इन्द्राण्या द्याः किंतु याः पार्थिवासः पृथिव्यां स्थिता देवपत्न्यो या अप्यन्या अपां व्रते वृष्ट्युदकस्थानत्वेनोपलक्षितेन्तरिक्षे वर्तन्ते ता देव्यः सर्वाः सुहवाः सुखेनाह्वातुं शक्या यूयं नोस्माकं शर्म सुखं प्रयच्छत। तत्रैव याज्यामाह “उत ग्ना वियन्तु देवपत्नीः। इन्द्राण्यग्नाय्यश्विनी राट् ।। आ रोदसी वरुणानी शृणोतु। वियन्तु देवीर्य ऋतुजेनीनाम्” (ब्रा. का. ३ प्र. ५ अ. १२) इति। अपि च ग्नाश्छन्दोदेवता गायत्र्यादयो देवपत्न्यो वियन्त्विदं हविरश्नन्तु। ग्नाशब्दस्य च्छन्दोवाचित्वं पञ्चमकाण्डे समाम्नातम्—‘ग्नास्त्वेत्याह छन्दा सि वै ग्नाः” इति इन्द्रस्य पत्नीन्द्राणी। अग्नेः पत्न्यग्नायी। अश्विनोः पत्न्यश्विनी। राज्ञः सोमस्य पत्नी राट्। रुद्रस्य पत्नी रोदसी। वरुणस्य पत्नी वरुणानी। एतासामेकैका विज्ञापनामस्मदीयामाशुणोतु। जनानामिन्द्राण्यादीनां य ऋतुः कालविशेषो भोजनायोचितस्तस्मिन्काले वियन्त्वश्नन्तु। सोमत्वष्ट्रोः पुरुषयोर्भुक्तवतोः सतोः पश्चाद्भुञ्जतामित्यर्थः।
"अग्नेर्गृहपतेः पुरोनुवाक्यामाह “अग्निहोता गृहपतिः स राजा। विश्वा वेद जनिमा जातवेदाः। देवानामुत यो मर्त्यानाम्। यजिष्टः स प्रयजतामृताधा” (ब्रा. का. ३प्र. ५अ. १२) इति। अयमग्निर्देवानामाह्वाता गृहाणां पालकः। स च राजा दीप्यमानस्तादृशो जातवेदा देवानां विश्वा जनिमा सर्वाणि जन्मानि वेद। अपि च, यो जातवेदामर्त्यानां जन्मानि वेद स जातवेदाः प्रयजतां प्रकर्षेण यागं कुर्वतां मध्ये यजिष्ठोतिशयेन यष्टृतमः। ऋतावा सत्ययाक्। तत्रैव याज्यामाह “वयमु त्वा गृहपते जनानाम्। अग्ने अकर्म समिधा बृइन्तम्। अस्थूरिणो गार्हपत्यानि सन्तु। तिग्मेन नस्तेजसा स शिशाधि” (ब्रा. का. ३म. ५अ. १२) इति। हे गृहपतेग्ने जनानां मध्ये वयमेव त्वां समिधा संदीपनेन बृहन्तमकर्म प्रौढं कृतवन्तः। तस्माद्गार्हपत्यानि गृहपतिनां संयुक्तानि कर्माणि नोस्माकमस्थूरि संन्त्वाश्लिष्टानि भवन्तु। तिग्मेन तीक्ष्णेन वैरिभिरप्रधृष्येण तेजसा त्वमस्मान्संशिशाधि तीक्ष्णी कुरु। निर्भयान्कुर्वित्यर्थः। मन्त्रकाण्डे पत्नीसंयाजयाज्यानुवाक्याभ्यामुपरिष्टादिडोपाह्वानमाज्यप्राशनं चाम्नातम्। तस्य विनियोगं बौधायनो दर्शयति—“अत्रोत्तरामिडामुपह्वयते यथासमाम्नातम्”। इति पाठस्तु “उपहूत रथंतर सह पृथिव्या। उप मा रथंतर सह पृथिव्या ह्वयताम्। उपहूतं वामदेव्य सहान्तरिक्षेण। उप मा वामदेव्य सहान्तरिक्षेण ह्वयताम्। उपहूतं बृहत्सह दिवा। उप मा बृहत्सह दिवा ह्वयताम्। उपहूताः सप्त होत्राः। उप मा सप्त होत्राः ह्वयन्ताम् । उपहूता धेनुः सहर्षभा। उप मा धेनिः सहर्षभा ह्वयताम्। उपहूतो भक्षः सखा। उप मा भक्षः सखा ह्वयताम्। उपहूता ३ हो। इडोपहूता। आहूतेडा। उपो अस्मा इडा ह्वयताम्। इडोपहूता। उपहूतेडा। मानवी घृतपदी मैत्रावरुणी। ब्रह्म देवकृतमुपहूतम्। दैव्या अध्यर्यव उपहूताः। उपहूता मनुष्याः। य इमं यज्ञमवान्। ये यज्ञपत्नीं वर्धान्। उपहूते द्यावापृथिवी। पूर्वजे ऋतावरी। देवी देवपुत्रे। उपहूतेयं यजमाना। इद्राणीवाविधवा। अदितिरिव सुपुत्रा। उत्तरस्यां देवयज्यायामुपहूता। भूयसि हविष्करण उपहूता। दिव्ये धामन्नुपहूता। इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूता विश्वमस्याः प्रियमुपहूतम्। विश्वरय प्रियस्योपहूतस्योपहूता” (ब्रा. का. ३प्र. ५अ. ३) इति। पूर्वाक्तमिडोपाह्वानं यजमानार्थम्। इदं तु पत्न्यर्थम्। अत एव तत्र तत्र स्त्रीलिङ्गप्रयोगः। ब्राह्मणे पत्नीसंयाजयाज्यानुवाक्ये विधायेडोपाह्वानमन्त्रस्य पूर्ववद्व्याख्येयत्वादसावत्रोपेक्षितः। अथ समिष्टयजुर्विधिमर्थवादेनोन्नयति पङ्क्तिप्रायण इति। पञ्चाक्षरा पङ्किरित्यन्यत्र श्रुतत्वादत्र पङ्क्तिशब्देन पञ्चसंख्या लक्ष्यते। सेयं पङ्क्तिः प्रायगे प्रारम्भे यस्य सोयं पङ्क्तिप्रायणो यागः। पङ्क्तिरुदयने समाप्तौ यस्य सोयं पङ्क्तुदयनः। अत्र दर्शपूर्णमासेष्टौ प्रारम्भे पञ्च प्रयाजा इज्यन्ते। समाप्तौ पत्नीसंयाजाश्चत्वारःसमिष्टयजुः पञ्चमम्। तथा सति पङ्क्तिमेव प्रारभन्ते पङ्क्तिमेव संपादयन्ति। तस्मात्समिष्टजुजुर्हुयादिति तात्पर्यार्थः। देवा गातुविद इत्ययं मन्त्र इष्टिसंपूर्तिकारित्वात्समिष्टयजुरित्युच्यते। स च मन्त्र आध्वर्यवकाण्डे समाम्नातो व्याख्यातश्च। "
अत्र मीमांसा। तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् “विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता।
फलवत्क्रतुसांनिध्यात्क्रत्व र्थः पूर्वमन्त्रवत्।। यातनापरिहारस्य निषेधफलतोचिता।
"निषेधोयं पुमर्थत्वात्प्रक्रियातोपकृष्यताम्।। दर्शपूर्णमासप्रकरणे श्रूयते यो ब्राह्मणायावगुरेत्तं शतेन यातयात्तस्माद्ब्राह्मणाय नावगुरेत” इति। तत्र यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रतावश्रुतत्वादिति चेन्मैवम्। वैषम्यात्। पूर्वत्र ह्यात्मप्राणापानधारणं मन्त्रोच्चारफलं न संभवति। तस्य प्रागेव ,सिद्धत्वात्। इह त्ववगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधाद्यातनापरिहारस्य निषेधफलत्वमुचितम्। तस्मान्निषेधस्य केवलपुरुषार्थतया प्रकरणादपकर्षो युक्तः। तत्रैव तृतीयपादे चिन्तितम् “संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत। दर्शादौ तत्पशौ युक्तं जाघन्याः समयावतः।।"
जाघनी नाम भागोसौ दर्शादौ समवैति हि।नोत्क्रष्टव्यं न संस्कार्यसाधनत्वात्तृतीयया”।।
दर्शपूर्णमासप्रकरणे श्रूयते ‘जाघन्या पत्नीः संयाजयन्ति’ इति। जाघनी पशोः पुच्छम्। पत्नीशब्दोत्राहुतीचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः। अत एव श्रूयते-‘पञ्च प्रयाजा इज्यन्ते चत्वारः पत्नीसंयाजाः’ इति। तत्र तृतीयोहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः। तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते। जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः। अतः प्रकरणदुत्कृष्य पशौ निवेश्यतामिति प्राप्ते ब्रूमः जाघनीशब्देन पशोर्भागोभिधीयते। स च दर्शपूर्णमासयोः पशुयागत्वा भावेपि क्रयादिना संपादयितु शक्यते। न चात्र पशौ विद्यमानाया जाघन्याः पत्नीसंयाजैः संस्कार्यत्वम्। तृतीयया साधनत्वावगमात्। तस्मान्न प्रकरणादुत्कर्षः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके दशमोनुवाकः ।। १० ।।