-च्छं॒ॅयोरा वृ॑णीमह॒ इत्या॑ह शं॒ॅयुमे॒व बा॑र्.हस्प॒त्यं भा॑ग॒धेये॑न॒ सम॑र्द्धयति गा॒तुं ॅय॒ज्ञाय॑ गा॒तुं ॅय॒ज्ञ्प॑तय॒ इत्या॑हा॒ ऽऽशिष॑मे॒वै तामा शा᳚स्ते॒ सोमं॑ ॅयजति॒ रेत॑ ए॒व तद्-द॑धाति॒ त्वष्टा॑रं ॅयजति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति दे॒वानां॒ पत्नी᳚र्यजति मिथुन॒त्वाया॒ग्निं गृ॒हप॑तिं ॅयजति॒ प्रति॑ष्ठित्यै जा॒मि वा ए॒तद्-य॒ज्ञ्स्य॑ क्रियते॒ - [ ]
पदपाठः (Word-by-word)
शं॒ॅयोरिति॑ शं - योः । एति॑ । वृ॒णी॒म॒हे॒ । इति॑ । आ॒ह॒ । शं॒ॅयुमिति॑ शं - युम् । ए॒व । ब॒र्.॒ह॒स्प॒त्यम् । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । समिति॑ । अ॒र्द्ध॒य॒ति॒ । गा॒तुम् । य॒ज्ञाय॑ । गा॒तुम् । य॒ज्ञ्प॑तय॒ इति॑ य॒ज्ञ्-प॒त॒ये॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । सोम᳚म् । य॒ज॒ति॒ । रेतः॑ । ए॒व । तत् । द॒धा॒ति॒ । त्वष्टा॑रम् । य॒ज॒ति॒ । रेतः॑ । ए॒व । हि॒तम् । त्वष्टा᳚ । रू॒पाणि॑ । वीति॑ । क॒रो॒ति॒ । दे॒वाना᳚म् । पत्नीः᳚ । य॒ज॒ति॒ । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ । अ॒ग्निम् । गृ॒हप॑ति॒मिति॑ गृ॒ह - प॒ति॒म् । य॒ज॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । जा॒मि । वै । ए॒तत् । य॒ज्ञ्स्य॑ । क्रि॒य॒ते॒ ।