यदाज्ये॑न प्रया॒जा इ॒ज्यन्त॒ आज्ये॑न पत्नीसंॅया॒जा ऋच॑म॒नूच्य॑ पत्नीसंॅया॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ प॒ङ्क्ति प्रा॑यणो॒ वै य॒ज्ञ्ः प॒ङ्क्त्यु॑दयनः॒ पञ्च॑ प्रया॒जा इ॑ज्यन्ते च॒त्वारः॑ पत्नीसंॅया॒जाः स॑मिष्टय॒जुः प॑ञ्च॒मं प॒ङ्क्तिमे॒वानु॑ प्र॒यन्ति॑ प॒ङ्क्तिमनूद्य॑न्ति ॥
पदपाठः (Word-by-word)
यत् । आज्ये॑न । प्र॒या॒जा इति॑ प्र - या॒जाः । इ॒ज्यन्ते᳚ । आज्ये॑न । प॒त्नी॒सं॒ॅया॒जा इति॑ पत्नी - सं॒ॅया॒जाः । ऋच᳚म् । अ॒नूच्येत्य॑नु - उच्य॑ । प॒त्नी॒सं॒ॅया॒जाना॒मिति॑ पत्नी - सं॒ॅया॒जाना᳚म् । ऋ॒चा । य॒ज॒ति॒ । अजा॑मित्वा॒येत्यजा॑मि - त्वा॒य॒ । अथो॒ इति॑ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । प॒ङ्क्तिप्रा॑यण॒ इति॑ प॒ङ्क्ति - प्रा॒य॒णः॒ । वै । य॒ज्ञ्ः । प॒ङ्क्त्यु॑दयन॒ इति॑ प॒ङ्क्ति - उ॒द॒य॒नः॒ । पञ्च॑ । प्र॒या॒जा इति॑ प्र - या॒जाः । इ॒ज्य॒न्ते॒ । च॒त्वारः॑ । प॒त्नी॒सं॒ॅया॒जा इति॑ पत्नी - सं॒ॅया॒जाः । स॒मि॒ष्ट॒य॒जुरिति॑ समिष्ट - य॒जुः । प॒ञ्च॒मम् । प॒ङ्क्तिम् । ए॒व । अन्विति॑ । प्र॒यन्तीति॑ प्र - यन्ति॑ । प॒ङ्क्तिम् । अनु॑ । उदिति॑ । य॒न्ति॒ ॥