प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.6.3.4 TS 2.6.3.4
ऽवार्च्छ॑त्ये॒वमवा॑ ऽऽर॒मित्यु॒परि॑ष्टा-द॒भ्यज्या॒धस्ता॒-दुपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्‌ट्यै॒ सर्वा॑णि क॒पाला᳚न्य॒भि प्र॑थयति॒ ताव॑तः पुरो॒डाशा॑न॒मुष्मि॑न् ॅलो॒के॑ऽभि ज॑यति॒ यो विद॑ग्धः॒ स नै॑र्.ऋ॒तो योऽशृ॑तः॒ स रौ॒द्रो यः शृ॒तः स सदे॑व॒स्तस्मा॒दवि॑दहता शृत॒कृंत्यः॑ सदेव॒त्वाय॒ भस्म॑ना॒ऽभि वा॑सयति॒ तस्मा᳚न्माꣳ॒॒ सेनास्थि॑ छ॒न्नं ॅवे॒देना॒भि वा॑सयति॒ तस्मा॒त् - [ ]
पदपाठः (Word-by-word)
अ॒वार्च्छ॒तीत्य॑व - ऋच्छ॑ति । ए॒वम् । अवेति॑ । आ॒र॒म् । इति॑ । उ॒परि॑ष्टात् । अ॒भ्यज्येत्य॑भि - अज्य॑ । अ॒धस्ता᳚त् । उपेति॑ । अ॒न॒क्ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं-अ॒ष्ट्यै॒ । सर्वा॑णि । क॒पाला॑नि । अ॒भीति॑ । प्र॒थ॒य॒ति॒ । ताव॑तः । पु॒रो॒डाशान्॑ । अ॒मुष्मिन्न्॑ । लो॒के । अ॒भीति॑ । ज॒य॒ति॒ । यः । विद॑ग्ध॒ इति॒ वि - द॒ग्धः॒ । सः । नै॒र्॒.ऋ॒त इति॑ नैः-ऋ॒तः । यः । अशृ॑तः । सः । रौ॒द्रः । यः । शृ॒तः । सः । सदे॑व॒ इति॒ स - दे॒वः॒ । तस्मा᳚त् । अवि॑दह॒तेत्यवि॑ - द॒ह॒ता॒ । शृ॒त॒कृंत्य॒ इति॑ शृतं - कृत्यः॑ । स॒दे॒व॒त्वायेति॑ सदेव - त्वाय॑ । भस्म॑ना । अ॒भीति॑ । वा॒स॒य॒ति॒ । तस्मा᳚त् । माꣳ॒॒सेन॑ । अस्थि॑ । छ॒न्नम् । वे॒देन॑ । अ॒भीति॑ । वा॒स॒य॒ति॒ । तस्मा᳚त् ।
पदसंख्या: 50