केशैः॒ शिरः॑ छ॒न्नं प्रच्यु॑तं॒ ॅवा ए॒तद॒स्माल् लो॒कादग॑तं देवलो॒कं ॅयच्छृ॒तꣳ ह॒विरन॑भिघारित-मभि॒घार्योद्-वा॑सयति देव॒त्रैवैन॑द्-गमयति॒ यद्येकं॑ क॒पालं॒ नश्ये॒देको॒ मासः॑ संॅवथ्स॒रस्यान॑वेतः॒ स्यादथ॒ यज॑मानः॒ प्रमी॑येत॒ यद् द्वे नश्ये॑तां॒ द्वौ मासौ॑ संॅवथ्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒ यज॑मानः॒ प्रमी॑येत स॒ङ्ख्यायोद्-वा॑सयति॒ यज॑मानस्य - [ ]
पदपाठः (Word-by-word)
केशैः᳚ । शिरः॑ । छ॒न्नम् । प्रच्यु॑त॒मिति॒ प्र - च्यु॒त॒म् । वै । ए॒तत् । अ॒स्मात् । लो॒कात् । अग॑तम् । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । यत् । शृ॒तम् । ह॒विः । अन॑भिघारित॒मित्यन॑भि - घा॒रि॒त॒म् । अ॒भि॒घार्येत्य॑भि - घार्य॑ । उदिति॑ । वा॒स॒य॒ति॒ । दे॒व॒त्रेति॑ देव - त्रा । ए॒व । ए॒न॒त् । ग॒म॒य॒ति॒ । यदि॑ । एक᳚म् । क॒पाल᳚म् । नश्ये᳚त् । एकः॑ । मासः॑ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । अन॑वेत॒ इत्यन॑व - इ॒तः॒ । स्यात् । अथ॑ । यज॑मानः । प्रेति॑ । मी॒ये॒त॒ । यत् । द्वे इति॑ । नश्ये॑ताम् । द्वौ । मासौ᳚ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । अन॑वेता॒वित्यन॑व - इ॒तौ॒ । स्याता᳚म् । अथ॑ । यज॑मानः । प्रेति॑ । मी॒ये॒त॒ । स॒ख्यांयेति॑ सं - ख्याय॑ । उदिति॑ । वा॒स॒य॒ति॒ । यज॑मानस्य ।