प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.6.4.1 TS 2.6.4.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚ र्बा॒हुभ्या॒मित्या॑हा॒-श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॑ श॒तभृ॑ष्टिरसि वानस्प॒त्यो द्वि॑ष॒तो व॒ध इत्या॑ह॒ वज्र॑मे॒व तथ् सꣳश्य॑ति॒ भ्रातृ॑व्याय प्रहरि॒ष्यन्थ् स्त॑म्ब य॒जुर्. ह॑रत्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं॒ निर्भ॑जति॒ - [ ]
पदपाठः (Word-by-word)
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । इति॑ । स्फ्यम् । एति॑ । द॒त्ते॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ᳚ । हि । दे॒वाना᳚म् । अ॒द्ध्व॒र्यू इति॑ । आस्ता᳚म् । पू॒ष्णः । हस्ता᳚भ्याम् । इति॑ । आ॒ह॒ । यत्यै᳚ । श॒तभृ॑ष्टि॒रिति॑ श॒त - भृ॒ष्टिः॒ । अ॒सि॒ । वा॒न॒स्प॒त्यः । द्वि॒ष॒तः । व॒धः । इति॑ । आ॒ह॒ । वज्र᳚म् । ए॒व । तत् । समिति॑ । श्य॒ति॒ । भ्रातृ॑व्याय । प्र॒ह॒रि॒ष्यन्निति॑ प्र - ह॒रि॒ष्यन्न् । स्त॒बं॒य॒जुरिति॑ स्तंब - य॒जुः । ह॒र॒ति॒ । ए॒ताव॑ती । वै । पृ॒थि॒वी । याव॑ती । वेदिः॑ । तस्याः᳚ । ए॒ताव॑तः । ए॒व । भ्रातृ॑व्यम् । निरिति॑ । भ॒ज॒ति॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे षष्ठप्रपाठके चतुर्थोनुवाकः)। (वेदिविधिः) तृतीय प्रोक्त आग्नेयः पुरोडाशो दिनद्वये। अथ चतुर्थेनुवाके वेदिर्विधातव्या। तयाश्च वेदेः साधनभूतस्य स्फ्यस्य मन्त्रेणादानं विधत्ते देवस्य त्वेति। *आध्वर्यवशेषेण पठितम् (ब्रा. का. ३ प्र. ३ अ. १) इति। यदुक्तं सूत्रकारेण---- शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुरस्तात्प्रयञ्चमुत्करे स्फ्यमुदस्यति द्वेष्पं मनसा ध्यायन् इति। तत्रोक्तमेतं मन्त्रमुत्पाद्य तात्पर्यं दर्शयति शतभृष्टिरसीति। हे स्फ्य त्वं शतभृष्टिरसि शतसंख्याका भृष्टिः शत्रूणां संतापरूपं भर्जनं यस्य स शतभृष्टिः। वनस्पतोर्विकरो वानस्पत्यः। द्विषतो द्वेषं कुर्वतो वैरिणौ वधो वधहेतुरसि। अनेन मन्त्रेण भ्रातृव्यर्थं वज्रं प्रहर्तुमिच्छन्तम्यक्तीक्ष्णी करोति। यद्यपि स्फ्यस्यानेन मन्त्रणोत्करे प्रक्षेपो वेदिनिर्माणादूर्ध्वभावी तथाप्यादानप्रसङ्गेन बुद्धिस्थत्वादिदानीमेवोक्तम्। वेदिस्थानात्सतृणस्य पांसोर्मन्त्रेणान्यत्र हरणं विधत्ते स्तम्बयजुरिति। यजुषा मन्त्रेण हरणीयः पांसुसहितः स्तम्बः स्तम्बयजुस्तस्य हरणं कुर्यात्। पृथिवि देवयजनीति त्रिभिराध्वर्यवोक्तैर्वेदिस्थाने स्थापितं दर्भं छित्वा पांसुसहितमुत्करे निनयेत्। तत्प्रकारः सर्वोपि पौरोडाशिककाण्ड एव स्पष्टमभिहितः वेदिर्यावती विद्यव एतावत्येवोपयुक्ता पृथिवी तस्या पृथिव्या एतावतः प्रदेशादनेन स्तम्बयजुर्हरणेन भ्रातृव्यं निःसारितवानेव भवति। यस्मादत्र भ्रातृव्यो भागार्थीति कृत्वा निःसार्यते तस्माल्लोकेभागं भागाभिलाषरहितं (तम) विरोधित्वान्निः(न्न निः) सारयन्ति। उक्तस्य स्तम्बयजुर्हरणस्यावृत्तिं विधत्ते त्रिर्हरतीति। चतुर्थे पर्याये त्वमन्त्रकं हरणं विधत्ते (* एतद्वाक्यस्थाने---आध्वर्यवशेषे पठितो मन्त्रः इति वाक्यं युक्तं भवेत्।) तृष्णीं चतुर्थमिति। त्रिरावृत्त्यैव लोकत्रयान्निःसारितत्वाच्चतुर्थेन हरणेन लोकत्रयबहिर्भूतात्सर्वस्मादपि देशान्नि सारितो भवति। वेदिस्थाने स्थितस्योपरितनमृद्भागस्यापसारणं विधत्ते उद्धन्तीति। उपरिभागस्योच्छिष्टादिस्पर्शसंभवान्मेधानर्हत्वम्। पिहितमुद्धननमनूद्य प्रशंसति उद्धन्ति तस्मादिति। तस्मादुद्धननादन्नोत्पन्नास्तृणादयः पराकृता विनाशिता भवन्ति। तत्रत्यानामोषधीनां यानि मूलानि पुनः प्ररोहाय भूमौ स्थितानि तेषां छेदनं विधत्ते मूलं छिनत्तीति। पुनःप्ररूढानामन्तस्तृणानां दर्भास्तरणहविःसादनविरोधित्वाद्भ्रातृव्यत्वम् चु (चि) बुकमारभ्य यजमानस्य यन्मुखपरिमाणं तद्धस्तेन प्रदर्शयित्वा (र्श्य) तत्परिमितं स्त्रननं विधत्ते पितृदेवत्येति। प्रादेशपरिमाणमतिक्रम्य खनने पैतृकी वेदिः स्यात्। यज्ञस्य यज्ञानुष्ठातुर्यजमानस्य मुखे, यज्ञमुखम्। तच्च प्रजापतिस्वरूपं यागद्वारा प्रजापालकत्वात्। तेन मुखेन संमिता कृतवान्भवति। पक्षान्तरं विधत्ते आ प्रतिष्ठाया इति। अनायासेनापनेतुं शक्याः पांसवोप्रतिष्ठाः यात्वधस्ताद्दृढा भूमिः सा प्रतिष्ठा तत्पर्यन्तं खननेन यजमानः प्रतिष्ठां प्रापितो भवति। दक्षिणभावस्यौन्नत्यं विधत्ते दक्षिणत इति। दक्षिणभावस्य निम्नत्वे पितृयजनस्य रूपं स्यात्। मार्दवकारिपांसुयुक्तत्वं विधत्ते पुरीषवतीमिति। यस्यां भूमौ प्रजापशुसंचारबाहुल्यं तस्यां पांसुबाहुल्यात्प्रजादीनां पुरीषत्वम्। यजमानोपि प्रजादिभिः पुरीषवान्भवति।"

"वेदिनिर्माणात्पूर्वं वसवस्त्वेत्यादिभिर्मन्त्रेर्वेदिसीमनिर्देशः पूर्वपरिग्रहः। निर्माणादूर्ध्वभृतमसीत्यादीभिर्मन्त्रैस्तन्निर्देश उत्तरपरिग्रहस्तमिमं विधत्ते उत्तरं परिग्राहमिति। पूर्वपरिग्रहेणैव वेदिमर्यादायां सिद्धायामपि पुनरुत्तरपरिग्रह आत्मने स्वकीयत्वाय भवति। मन्त्रकाण्डोक्तेन मन्त्रेण समीकरणं विधत्ते क्रूरमिवेति। खननेन निम्नोन्नतभावापादनं क्रूरं, समीकरणेन तच्छान्तिर्भवति। हे वेदे धा असि धारयित्र्यसि। तदेतद्विशेष्यते-स्वधेति। तव स्व, रूपं बर्हिरादिकं धारयतीत्यर्थः। यदुक्तं सूत्रकारेण “प्रोक्षणीरभिपूर्योदञ्च स्फ्यमपोद्य दक्षिणेन स्फ्यमस स्पृष्टा उपनिनीय स्फ्यस्य वर्त्मन्सादयति” इति तदेतद्विधत्ते प्रोक्षणीरिति। अर्घ्यविधिप्रस्तावे ‘तानि ह वा एतानि रक्षा सि गायत्रियाभिमन्त्रितेनाम्भसा शाम्यन्ति’ इति श्रुतत्वादेषां रक्षोघ्नत्वम्। स्फ्यरेखाया अविच्छिन्नत्वात्तत्र सादनं यज्ञस्याविच्छेदाय भवति। सादनकाले द्वेषस्य पाप्मनोद्भिर्विनाशध्यानं विधत्ते यं द्विप्यात्तमिति योजयतीत्यर्थः।। "

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके चतुर्थानुवाकः ।। ४।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवस्य त्वेत्यादि ॥ वेदिविधिः । प्रसूतिः सवितुरनुज्ञा । अपिच यतत्वाय प्रयत्यै वा ॥
2 शतभृष्टिरसीति ॥ स्फ्याभिमन्त्रणम् । शतपरिपाको वनस्पतिविकारो द्विषतां वधहेरुरिति वचनेन वज्रमेव ब्रातृव्याय प्रहर्तुं सम्यक् निशितं करोति ॥
3 स्तम्बयजुरिति मन्त्रेण तृणपुरीषहरणस्येयं संज्ञा । एतावतीत्यादि । वेदिव्यतिरिक्तपृथिव्यभावप्रतिपादनेन सर्वस्याः पृथिव्या वेदित्वं वेदिस्तुत्यर्थम् । दृष्टं च 'सा वा इयं सर्वैव वेदिः' इति । तस्यास्तादृश्या वेदेरेतावतः सर्वपृथिवीप्रमाणादवकाशात् भ्रातृव्यं भागवन्तं शत्रुं निर्भजति निभागं कृत्वा विप्रवासयति । तस्मात् अद्यत्वेऽपि अभागं एकार्थाभिलाषरहितं नाभागं निर्भजन्ति निर्वासयन्ति विषयस्य नियन्तारः ॥
4 त्रिर्हरति इत्यादि ॥ गतम् । अपरिमिताल्लोकत्रयाभ्यधिकादपि ॥
5 उद्धन्तीत्यादि ॥ मेधं नार्हतीत्यमेध्यम् । 'दण्डादिभ्यो यः' 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । पराभवन्ति पुनःपुनर्विनश्यन्ति स्थानस्योद्धननादल्पेनैव कालेन च्यवन्ते । मूलमित्यादि । अतिखाता प्रतिष्ठामतीत्य खाता । इयती प्रादेशमात्री । 'यज्ञमुखं वै प्रजापृतिः' इति प्राजापत्येन प्रादेशेन परिच्छिन्ना भवति । आप्रतिष्ठाया इति । 'चतुरङ्गुले ह्योषधयः प्रति तिष्ठन्ति' इति यावच्चतुरङ्गुलं खनति ॥
6 वर्षीयसीमिति ॥ प्रवृद्धतराम् । प्रियस्थिरादिना वर्षादेशः । एवं देवयजनस्य रूपं अकः करोति । छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् । पुरीषवतीमिति । पूरिका मृत् पुरीषं प्रजासाधनत्वात्ताच्छब्द्यम् ॥
7 उत्तरमित्यादि ॥ वेद्या उत्तरं परिग्राहं करोतीत्यर्थः । 'परौ यज्ञे' इति घञ् । एतावतीत्यादि । गतम् । क्रूरमिति । हिंसारूपत्वात् ॥
8 योयुप्यते समीकरोति । युप विमोहने । शान्त्या इति समीकरणानाख्यानं तुल्यत्वापादनात् । धा असीत्यादिस्तुतेश्च ॥
9 प्रोक्षणीरासादयतीति ॥ गतम् । अर्पयति । 'अर्तिर्ही' इत्यादिना पुक् ॥
इति द्वितीये षष्ठे चतुर्थोऽनुवाकः ॥