प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.6.4.3 TS 2.6.4.3
यज्ञ्मु॒खेन॒ संमि॑ता॒मा प्र॑ति॒ष्ठायै॑ खनति॒ यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति दक्षिण॒तो वर्.षी॑यसीं करोति देव॒यज॑नस्यै॒व रू॒पम॑कः॒ पुरी॑षवतीं करोति प्र॒जावै प॒शवः॒ पुरी॑षं प्र॒जयै॒वैनं॑ प॒शुभिः॒ पुरी॑षवन्तं करो॒त्युत्त॑रं परिग्रा॒हं परि॑ गृह्णात्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्या॒ऽऽत्मन॒ उत्त॑रं परिग्रा॒हं परि॑गृह्णाति क्रू॒रमि॑व॒ वा - [ ]
पदपाठः (Word-by-word)
य॒ज्ञ्॒मु॒खेनेति॑ यज्ञ् - मु॒खेन॑ । संमि॑ता॒मिति॒ सं - मि॒ता॒म् । एति॑ । प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ । ख॒न॒ति॒ । यज॑मानम् । ए॒व । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒म॒य॒ति॒ । द॒क्षि॒ण॒तः । वर्.षी॑यसीम् । क॒रो॒ति॒ । दे॒व॒यज॑न॒स्येति॑ देव - यज॑नस्य । ए॒व । रू॒पम् । अ॒कः॒ । पुरी॑षवती॒मिति॒ पुरी॑ष - व॒ती॒म् । क॒रो॒ति॒ । प्र॒जेति॑ प्र - जा । वै । प॒शवः॑ । पुरी॑षम् । प्र॒जयेति॑ प्र - जया᳚ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । पुरी॑षवन्त॒मिति॒ पुरी॑ष - व॒न्त॒म् । क॒रो॒ति॒ । उत्त॑र॒मित्युत् - त॒र॒म् । प॒रि॒ग्रा॒हमिति॑ परि-ग्रा॒हम् । परीति॑ । गृ॒ह्णा॒ति॒ । ए॒ताव॑ती । वै । पृ॒थि॒वी । याव॑ती । वेदिः॑ । तस्याः᳚ । ए॒ताव॑तः । ए॒व । भ्रातृ॑व्यम् । नि॒र्भज्येति॑ निः - भज्य॑ । आ॒त्मने᳚ । उत्त॑र॒मित्युत् - त॒र॒म् । प॒रि॒ग्रा॒हमिति॑ परि-ग्रा॒हम् । परीति॑ । गृ॒ह्णा॒ति॒ । क्रू॒रम् । इ॒व॒ । वै ।
पदसंख्या: 50