प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.6.5.1 TS 2.6.5.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिर्.-ह॒वीꣳषि॒ प्रौक्षीः॒ केना॒प इति॒ ब्रह्म॒णेति॑ ब्रूयाद॒द्भि-र्ह्ये॑व ह॒वीꣳषि॑ प्रो॒क्षति॒ ब्रह्म॑णा॒ऽप इ॒द्ध्माब॒र्॒.हिः प्रोक्ष॑ति॒ मेद्ध्य॑मे॒वैन॑त् करोति॒ वेदिं॒ प्रोक्ष॑त्यृ॒क्षा वा ॒षाऽलो॒मका॑ऽमे॒द्ध्या यद्-वेदि॒र्मेद्ध्या॑-मे॒वैनां᳚ करोति दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र॒.हिरा॒साद्य॒ प्रो - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । अ॒द्भिरित्य॑त् - भिः । ह॒वीꣳषि॑ । प्रेति॑ । औ॒क्षीः॒ । केन॑ । अ॒पः । इति॑ । ब्रह्म॑णा । इति॑ । ब्रू॒या॒त् । अ॒द्भिरित्य॑त् - भिः । हि । ए॒व । ह॒वीꣳषि॑ । प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ । ब्रह्म॑णा । अ॒पः । इ॒द्ध्माब॒र्॒.हिरिती॒द्ध्मा - ब॒र्॒.हिः । प्रेति॑ । उ॒क्ष॒ति॒ । मेद्ध्य᳚म् । ए॒व । ए॒न॒त् । क॒रो॒ति॒ । वेदि᳚म् । प्रेति॑ । उ॒क्ष॒ति॒ । ऋ॒क्षा । वै । ए॒षा । अ॒लो॒मका᳚ । अ॒मे॒द्ध्या । यत् । वेदिः॑ । मेद्ध्या᳚म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ । दि॒वे । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । इति॑ । ब॒र्॒.हिः । आ॒साद्येत्या᳚ - साद्य॑ । प्रेति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे षष्ठप्रपाठके पञ्चमोनुवाकः)। (वेद्यां बर्हिर्विषयप्रयोगाभिधानम्) चतुर्थे वेदिनिर्माणमशेषेण प्रपत्र्चितम्। अथ पञ्चमे तस्यां वेद्यां बर्हिर्विषयप्रयोगोभिधीयते। तत्र बर्हिषः प्रोक्षणं विधातुं प्रोस्तौति ब्रह्मवादिन इति। हेध्वर्यो शुद्ध्यर्थं हवींषि त्वमद्भिः प्रौक्षीः प्रोक्षितवानसि। केनान्येन शुद्धेन द्रव्येणेमा अपः प्रोक्षितवानसीति, ब्रह्मवादिभिः पृष्टेध्वर्युर्ब्रह्मणा मन्त्रेणेत्युत्तरभागं ब्रूयात्। यस्मादेतदुभयं प्रौक्षणं तथैव वर्तते। अत एव मन्त्रव्याख्याने श्रूयते----‘प्रोक्षिताः स्थेत्याह। तेनापः प्रोक्षिताः’ इति। तेन मन्त्रोच्चारणेनेत्यर्थः। इदानीं विधत्ते इध्मावर्हिरिति। एनदिध्माः (ध्मं) बर्हिश्चेत्युभयम्। इध्माबर्हिःप्रोक्षणवद्वेदेरद्भिः प्रोक्षणं विधत्ते वेदिं प्रोक्षतीति। लोमरहितत्वादृक्षा पुरुषा सती यागयोग्या न भवति। तस्माद्योग्यत्वाय प्रोक्षणम्। तदुक्तं सूत्रकारेण ‘अन्तर्वदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम्’ इति, तदेतद्विधत्ते दिवे त्वेति। दिवे त्वेत्यादिमन्त्रास्तत्काण्ड एव व्याख्याताः।यदुक्तं सूत्रकारेण ‘प्रोक्षणीशेषं स्वधा पितृभ्य इति दणिणायै श्रोणेरोत्तरस्याः सततं निनयेत्, इति तदेतद्विधत्तेक्रूरमिवेति। प्रस्तरस्य धारणं विधत्ते पुरस्तादिति। वेदिपूर्वभागे ब्रह्मा यजमानो वा प्रस्तरं धारयेत्। तच्च सूत्रेभिहितं ‘ब्रह्मा प्रस्तरं धारयति यजमानो वा’ इति। धारणाय मुखसमान मौन्नत्यं हस्तेनाभिनीय विधत्ते इयन्तमिति। वेदिखननवद्व्याख्येयम्। वेद्यां स्तरणं विधत्ते बर्हिस्तृणातीति। स्तरणे नीरन्ध्रत्वं विधत्ते अनतिदृश्नमिति। अतिशयेन भूमेर्दर्शनमतिदृश्नं तद्यथा न भवति तथा स्तृणीयात्। तेन यजमानं प्रजया पशुभिश्च सर्वतो वेष्टितत्वादि (द) तिस्पष्टं द्रष्टुमयोग्यं करोति। स्तीर्णस्य बर्हिष उपरि प्रस्तरसादनं विधत्ते उत्तर बर्हिष इति। स्मरणार्थस्य बर्हिषोधः स्थितत्वात्प्रजात्वम्। प्रस्तरस्यप्रधानभूतत्वाद्यजमानत्वम्। अधस्तादास्तीर्णस्य बर्हिष उपरिष्टात्साद्यमानरस्यप्रस्तरस्य (च) मध्ये तिर्थक्तया द्वाभ्यां व्यवधानं विधत्ते अन्तरिति। तदेतदन्तर्धानं मन्त्रकाण्डोक्तेन विशो यन्त्रे स्थ इति मन्त्रेण क्रियते। प्रस्तरस्यासादनप्रसङ्गेनबुद्धिस्थान्प्रहरणकालीनान्विशेषान्विधित्सुरादौ प्रस्तरस्य घृतेनाञ्जनं विधत्ते-"

"अनक्तीति। प्रस्तरस्य दर्भमुष्टेरनदनीयद्रव्यत्वेन स्वरूपतो हविष्ट्वाभावेप्यञ्जनेन हविष्ट्वं कृतं भवतीति तादृशमेनं प्रस्तरं स्वर्गप्राप्तियोग्यं करोति । यदुक्तं सूत्रकारेण-‘स्त्रुक्षु प्रस्तरमनत्यक्त रिहाणा इति जुह्वामग्रं प्रजायोनिमित्युपभृति मध्यमाप्यायन्तामाप ओषधय इति ध्रुवायां मूलमेवं त्रिः’ इति। तदेतद्विधत्ते त्रेधानक्तीति। प्रस्तरस्य प्रहरणे हेयोपादेयौ प्रकारौ विधत्ते न प्रतीति। अङ्गारेषु क्षुण्णेषु प्रतिक्षेपः प्रतिशरणं तन्न कुर्यात्। यदिकुर्याद्यजमानस्यानूर्ध्वं भावुकं स्यात् स्वर्गप्राप्तिसाधनं न भवेदित्यर्थः। तस्माद्धस्तमुन्नतं कृत्वा प्रस्तरमग्नेरुपर्येव प्रहरेस्त्वर्गलोकस्योपर्येव वर्तमानत्वात्तत्प्राप्तिसाधनं भवति। प्रस्तरयुक्तस्य हस्तस्याधोमुखत्वं विधत्ते न यच्छतीति। हस्तो न्यग्भूतो यथा भवति तथा कुर्यात्। तेन यजमानार्थ वृष्टिमेव न्यग्भूतां करोति। प्रस्तराग्रस्याहवनीयातिक्रमं निषेधति नात्यग्रमिति। अतिक्रान्तमग्रं यस्य तदत्यग्रम्। तद्यथा भवति तथा न प्रहरेत्। किंतु प्रस्तराग्रमाहवनीयस्योत्तरत एव नयेत्। अत्यग्रप्रहरणे हि वृष्टिरत्यासारिणी भवति तस्याध्वर्योर्विनाशनशीला स्यात्। अत्याधिक्येन वर्षणमति सारिणीत्वं, तेन सस्यानि फलितुमयोग्यानि भवन्ति, सोयमध्वर्योर्नाशः। अथवा व्याधिविशेषेणाध्वर्युर्नश्येत्। पूर्वस्यां दिशि प्रस्तरस्य मूलं पश्चिमायामग्रमित्येवंविधं प्रहरणं निषेधति। "

"न पुरस्तादिति। पश्चिमाग्रत्वं निषिध्य प्रागग्रत्वं विधत्ते प्राञ्चं प्र हरतीति। प्रस्तरगतानां दर्भाग्राणां सर्वतो विश्लेषणं निषेमति न विष्वञ्चमिति। विष्वञ्चं नानादिग्गतं तथा भवति तथा न वियुयान्नविश्लेषयेत् तद्विश्लेषणे यजमानस्य स्त्र्यपत्यमेव जायेत। स्त्रीव्यञ्जनस्य विश्लिष्टरूपत्वात्। दर्भाग्राणां समूहरूपेणैकीभावं विधत्ते ऊर्ध्वमुद्यौतीति। ऊर्ध्वं दण्डाकारेणैकाग्रं यथा भवति तथोद्यौत उत्कर्षेण मिश्रयेत्। पुसां व्यञ्जनमूर्ध्वाकारं भवति, ततोस्य पुमानेव जायते। सोयमाग्नीध्रस्य व्यापारः। तथा च सूत्रकार आह—‘त्रिरञ्जलिनाग्नीध्रो विष्वञ्चं प्रस्तरमूर्ध्वमुद्यौति”।तस्मिन्नेकीकरणे साधनान्तरं निमिध्य हस्तं विधत्ते यत्स्फ्येनेति। योयुपनं विश्लिष्टभूतस्यैकीकरणम्। अथवा प्रस्तरस्य सम्यग्दाहायोत्क्षेपणं, तद्यदि स्फ्येनोपवेषेण वा क्रियेत सेयं यजमानस्य हिंसा। हस्तेनैव योयुपनं रक्षायै भवति। प्रस्तरप्रहरणस्याधारत्वेनाहवनीयं विधत्ते ब्रह्मवादिन इति। यज्ञस्य संबन्धि किमङ्कं यजमानस्थानीयमिति ब्रह्मवादिभिः पृष्टे बुद्धिमान्प्रस्तर इति ब्रूयादुत्तरम्। स्रुक्षु प्रस्तरस्याञ्जनं कृत्वा तत्रैकं तृणं पृथक्कृत्य प्रज्ञातं स्थापयेत्। तस्ये दानीमग्नौ प्रहरणं विधत्ते वि वा एतदिति। प्रस्तरमूलमुत्क्षिपन्तीति यदेतेन यजमानो विलिशते विशेषेणाल्पी भवति रोगेण कृशो भवतीत्यर्थः। प्रज्ञातत्वेन स्थापितस्य बर्हिषोनुप्रहरणे तस्याल्पीभावस्य शान्तिर्भवति। तदेतद्वर्हिष्प्रहरणं सूत्रकारेण स्पष्टीकृतम्--- ‘आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय’ इति। ‘अथैन माहाग्नीध्रोनुप्रहरेति यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति’ इति च ।। मन्त्रकाण्डे पठितेन मन्त्रेण भूमिस्पर्शनं विधत्त "

"अनारम्भण इति। एतर्हि प्रस्तरप्रहरणादूर्ध्वं प्रस्तररूपस्य यजमानस्य स्वर्गेवस्थितत्वादध्वर्युरनारम्भण इव निरालम्बन इव भवति। स च वेपनो भवितोरीश्वरः पालनस्वामिराहित्यभयेन सर्वदा कम्पनशीलो भवितुं समर्थो भवति। निरन्तरं भवति कम्पमान इत्यर्थः। ध्रुवासीति भमिस्पर्शनेन लब्धप्रतिष्ठो न कम्पते। यदुक्तं सूत्रकारेण----अथैनमाहाग्निध्रः संवदस्वेत्यगानग्नीदित्यध्वर्युरगन्नित्याग्नीध्रः इति। अनयोः प्रश्नोत्तरमन्त्रयोरुत्तरमन्त्रस्य शाखान्तरपाठनिराकरणपूर्वकं मन्त्रद्वयोच्चारणं विधत्ते अगा३नग्नीदिति। हेग्नीद्धे आग्नीध्र किं यजमानः स्वर्गं गतवान्। प्रश्न द्योतनायेयं प्लुतिः । अगन्नग्निरित्येष शाखान्तरगतो मन्त्रपाठस्तस्मिन्पाठे वह्निः स्वर्गगत इत्यर्थो भवति, तत्त्वयुक्तम्। आहवनीयोत्र स्वर्गत्वेन विवक्षितः। तस्मिन्स्वर्गरूपेग्नौ तमग्निमेव प्रापितवान्भवति यजमानं स्वर्गाल्लोकान्निःसारितवान्भवति। तस्मादग्निरित्येतत्पदं मन्त्रे परित्यज्यागन्नित्येतावदेव ब्रूयात्। तेन यजमानः स्वर्गं लोक गतवानित्यर्थो लभ्यते।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके पञ्चमोनुवाकः।। ५ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ब्रह्मवादिन इत्यादि ॥ अध्वर्युः पर्यनुयुज्यते । ब्रह्मणेति । 'प्रोक्षितास्स्थ' इति मन्त्रेण । कीदृशमिदं ब्रह्मणा अपां प्रोक्षणं; अप्रोक्षणमेवेदमुक्तं भवति; मन्त्रोच्चारणमात्रमेव क्रियते इत्यत आह - अद्भिर्ह्येवेत्यादि । यस्मात् अद्भिः हविषां प्रोक्षणद्वारेण मेध्यत्वं क्रियत इति ब्रह्मणाऽपि तदपामिति । तस्मात् ब्रह्मणेत्युत्तरं ब्रूयादिति ॥
2 इध्माबर्हिरित्यादि ॥ छान्दसं पूर्वोत्तरयोर्युगपत् प्रकृतिस्वरत्वम् । ऋक्षा वा एषेति । ऋक्षा तृणादिरहिता स्थाली एषा वेदिः मूलादिच्छेदनेन ऋक्षा अलोमका उप्तलोमा अमेध्या तस्मात् प्रोक्षणेन मेध्यामेवैनां करोति । वावकाश[क्षिपकादि]त्वादित्वाभावः ॥
3 दिवे त्वेत्यग्रादारभ्य प्रोक्षणम् ॥
4 क्रूरमिवेत्यादि ॥ गतम् ॥
5 अनतिदृश्नमिति ॥ अनतिविरळम् ॥
6 उत्तरं बर्हिष इत्यादि ॥ गतम् ॥
7 अनक्ति - प्रहरणकाले स्रुक्षु ॥
8 न प्रति शृणातीति - नाकृष्य पुनः प्रक्षिपति । अनूर्ध्वभावुकमनूर्ध्वलोके प्रभवम् । छान्दस उकञ् ।
9 उपरीत्यादि ॥ गतम् । नियच्छति न्यञ्चं पातयति । अत्यग्रमिति । अग्रात्ययेन न प्रहरेत् । अत्यासारिणीति । अत्यासारशीला अध्वर्योर्नाशहेतुः वृष्टिस्स्यात् । न पुरस्तादिति । पुरस्तात् प्रतीचीनं न प्रक्षिपेत् । 'पराङिव हि सुवर्गः' इति पुरस्तात् प्रत्यसनेन यजमानः स्वर्गात्प्रतिनिवर्तितो भवति । प्राञ्चमित्यादि । गतम् । न विष्वञ्चमिति । विषूचीनाग्रं न विश्लेषयेत् । स्त्र्यस्येति । विषूचीनत्वात् स्त्रीव्यञ्जनस्य । ऊर्ध्वमेवेति । पुंव्यञ्जनस्योर्ध्वत्वात् ॥
10 यदिति ॥ योयुप्येत विह्वलीक्रियेत । स्तुतिः छादनं स्फ्याद्युपादानेन हस्तादितिरोधानात् हिंसया स्तृतिः वज्रस्थानीयस्फ्यादिस्पर्शनात् । ह्रस्वान्तधात्वन्तरमिदम् । हस्तेनेत्यादि । गतम् । गोपीथाय रक्षणाय भवति ॥
11 ब्रह्मवादिन इत्यादि ॥ यज्ञसम्बन्धि किमङ्गं यजमानः यजमानस्थानीयामिति ब्रह्मवादिनः पृच्छन्ति । तत्र प्रस्तरो यजमान इत्युत्तरं ब्रूयात् । तस्य यजमानस्य स्वर्गो लोकः सर्वाभिमतसिद्धिः । क्वेति पुनः पृच्छन्ति ब्रह्मवादिनः । तत्राप्याहवनीय इति प्रब्रूयात् । यदित्यादि । गतम् ॥
12 वि वा एतदिति ॥ प्रस्तरस्य यजमानत्वात् तस्य विश्लथनेन यजमानो लिशते विबाध्यते । लिश अल्पीभावे, तौदादिकः । तत्र बर्हिरनुप्रहरणेन स्वस्य परिहृतत्वात् तच्छान्तिः सुखं यजमानस्य ॥
13 अनारम्भण इवेत्यादि ॥ अध्वरस्य नेतृत्वाच्चलितत्वादप्रतिष्ठितत्वं वेपनत्वम् ॥
14 अगानग्नीदिति ॥ हे अग्नीत् किमगान् अगमत् प्रस्तरमिति पृच्छत्यध्वर्युराग्नीध्रम् । गमेर्लुङि 'मन्त्रे घस' इति च्लेर्लुक् । 'मोनो धातोः' । प्रश्ने उदात्तप्लुतः । तस्यासिद्धत्वादट उदात्तत्वेन समावेशः । अग्नीदित्यामन्त्रितानुदात्तत्वम् । अथाग्नीध्रो यदि प्रतिब्रूयात् अगन्नग्निः प्रस्तरजन्मा । यद्वा - अग्निः प्रस्तरं परिगतवानिति । तदा प्रस्तराग्निमग्नौ प्रवेशयेत् । ततश्च यजमानः स्वर्गाल्लोकान्निर्भजेत्तस्मादगन्नित्येव ब्रूयात् विनैवाग्निशब्दम् । यजमानं स्वर्गं गमयति ॥
इति द्वितीये षष्ठे पञ्चमोनुवाकः ॥