-त्युत्त॑रं ब॒र्॒.हिषः॑ प्रस्त॒रꣳ सा॑दयति प्र॒जा वै ब॒र्॒.हि र्यज॑मानः प्रस्त॒रोयज॑मान-मे॒वाय॑जमाना॒-दुत्त॑रं करोति॒ तस्मा॒द्-यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो॒ऽन्तर्द॑धाति॒ व्यावृ॑त्त्या अ॒नक्ति॑ ह॒विष्कृ॑तमे॒वैनꣳ॑ सुव॒र्गं ॅलो॒कं ग॑मयतित्रे॒धाऽन॑क्ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ ॅलो॒केभ्यो॑ऽनक्ति॒ न प्रति॑ शृणाति॒यत् प्र॑तिशृणी॒यादनू᳚र्द्ध्वं भावुकं॒ ॅयज॑मानस्य स्यादु॒परी॑व॒ प्र ह॑र - [ ]
पदपाठः (Word-by-word)
उत्त॑र॒मित्युत् - त॒र॒म् । ब॒र॒.हिषः॑ । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । सा॒द॒य॒ति॒ । प्र॒जा इति॑ प्र - जाः । वै । ब॒र्॒.हिः । यज॑मानः । प्र॒स्त॒र इति॑ प्र - स्त॒रः । यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत् - त॒र॒म् । क॒रो॒ति॒ । तस्मा᳚त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत् - त॒रः॒ । अ॒न्तः । द॒धा॒ति॒ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै । अ॒नक्ति॑ । ह॒विष्कृ॑त॒मिति॑ ह॒विः - कृ॒त॒म् । ए॒व । ए॒न॒म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ । त्रे॒धा । अ॒न॒क्ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒भ्यः । ए॒व । ए॒न॒म् । लो॒केभ्यः॑ । अ॒न॒क्ति॒ । न । प्रतीति॑ । शृ॒णा॒ति॒ । यत् । प्र॒ति॒शृ॒णी॒यादिति॑ प्रति - शृ॒णी॒यात् । अनू᳚र्द्ध्वं भावुक॒मित्यनू᳚र्द्ध्वं-भा॒वु॒क॒म् । यज॑मानस्य । स्या॒त् । उ॒परि॑ । इ॒व॒ । प्रेति॑ । ह॒र॒ति॒ ।