प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.6.5.4 TS 2.6.5.4
-त्यु॒परी॑व॒ हि सु॑व॒र्गो लो॒को निय॑च्छति॒ वृष्टि॑मे॒वास्मै॒ निय॑च्छति॒ नात्य॑ग्रं॒ प्र ह॑रे॒द्यदत्य॑ग्रं प्र॒हरे॑द-त्यासा॒रिण्य॑द्ध्व॒र्यो-र्नाशु॑का स्या॒न्न पु॒रस्ता॒त् प्रत्य॑स्ये॒द्यत् पु॒रस्ता᳚त् प्र॒त्यस्ये᳚थ् सुव॒र्गाल्लो॒काद्-यज॑मानं॒ प्रति॑ नुदे॒त् प्राञ्चं॒ प्रह॑रति॒ यज॑मानमे॒व सु॑व॒र्गं ॅलो॒कं ग॑मयति॒ न विष्व॑ञ्चं॒ ॅवि यु॑या॒द्-यद्-विष्व॑ञ्चं ॅवियु॒याथ् - [ ]
पदपाठः (Word-by-word)
उ॒परि॑ । इ॒व॒ । हि । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । नीति॑ । य॒च्छ॒ति॒ । वृष्टि᳚म् । ए॒व । अ॒स्मै॒ । नीति॑ । य॒च्छ॒ति॒ । न । अत्य॑ग्र॒मित्यति॑ - अ॒ग्र॒म् । प्रेति॑ । ह॒रे॒त् । यत् । अत्य॑ग्र॒मित्यति॑ - अ॒ग्र॒म् । प्र॒हरे॒दिति॑ प्र - हरे᳚त् । अ॒त्या॒सा॒रिणीत्य॑ति-आ॒सा॒रिणी᳚ । अ॒द्ध्व॒र्योः । नाशु॑का । स्या॒त् । न । पु॒रस्ता᳚त् । प्रतीति॑ । अ॒स्ये॒त् । यत् । पु॒रस्ता᳚त् । प्र॒त्यस्ये॒दिति॑ प्रति - अस्ये᳚त् । सु॒व॒र्गादिति॑ सुवः - गात् । लो॒कात् । यज॑मानम् । प्रतीति॑ । नु॒दे॒त् । प्राञ्च᳚म् । प्रेति॑ । ह॒र॒ति॒ । यज॑मानम् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ । न । विष्व॑ञ्चम् । वीति॑ । यु॒या॒त् । यत् । विष्व॑ञ्चम् । वि॒यु॒यादिति॑ वि-यु॒यात् ।
पदसंख्या: 50