प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.6.7.1 TS 2.6.7.1
मनुः॑ पृथि॒व्या य॒ज्ञिय॑मैच्छ॒थ् स घृ॒तं निषि॑क्तमविन्द॒थ् सो᳚ऽब्रवी॒त् को᳚ऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒रिति॒ ताव॑ब्रूतां मि॒त्रावरु॑णौ॒ गोरे॒वाऽऽवमी᳚श्व॒रौ कर्तोः᳚ स्व॒ इति॒ तौ ततो॒ गाꣳ समै॑रयताꣳ॒॒ सा यत्र॑ यत्र॒ न्यक्रा॑म॒त् ततो॑ घृ॒तम॑पीड्यत॒ तस्मा᳚द्-घृ॒तप॑द्युच्यते॒ तद॑स्यै॒ जन्मोप॑हूतꣳ रथन्त॒रꣳ स॒ह पृ॑थि॒व्येत्या॑हे॒ - [ ]
पदपाठः (Word-by-word)
मनुः॑ । पृ॒थि॒व्याः । य॒ज्ञिय᳚म् । ऐ॒च्छ॒त् । सः । घृ॒तम् । निषि॑क्त॒मिति॒ नि - सि॒क्त॒म् । अ॒वि॒न्द॒त् । सः । अ॒ब्र॒वी॒त् । कः । अ॒स्य । ई॒श्व॒रः । य॒ज्ञे । अपीति॑ । कर्तोः᳚ । इति॑ । तौ । अ॒ब्रू॒ता॒म् । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । गोः । ए॒व । आ॒वम् । ई॒श्व॒रौ । कर्तोः᳚ । स्वः॒ । इति॑ । तौ । ततः॑ । गाम् । समिति॑ । ऐ॒र॒य॒ता॒म् । सा । यत्र॑य॒त्रेति॒ यत्र॑ - य॒त्र॒ । न्यक्रा॑म॒दिति॑ नि - अक्रा॑मत् । ततः॑ । घृ॒तम् । अ॒पी॒ड्य॒त॒ । तस्मा᳚त् । घृ॒तप॒दीति॑ घृ॒त - प॒दी॒ । उ॒च्य॒ते॒ । तत् । अ॒स्यै॒ । जन्म॑ । उप॑हूत॒मित्युप॑ - हू॒त॒म् । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । स॒ह । पृ॒थि॒व्या । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे षष्ठप्रपाठके सप्तमोनुवाकः ) इडोपाह्वानविधितन्मन्त्रव्याख्यानयोः प्रस्तावः)

"उपांशुयाजः षष्ठेस्मिन्विष्टकृच्च समीरितः। आध्वर्यवं समाप्याथ हौत्रशेषो निरूप्यते।। तत्रास्मिन्सप्तमानुवाक इडोपाह्वानविधिस्तन्मन्त्रव्याख्यानं च प्रस्तूयते। मन्त्रास्तु मन्त्रकाण्ड एव समाम्नाताः उपहूत रथंन्तर सह पृथिव्या। उप मा रथन्तर सह पृथिव्या ह्वयताम्। उपहूतं वामदेव्य सहान्तरिक्षेण। उप मा वामदेव्य सहान्तरिक्षेण ह्वयताम्। उपहूतं बृहत्सह दिवा। उप मा बृहत्सह दिवा ह्वयताम्। उपहूताः सप्त होत्राः उप मा सप्त होत्रा ह्वयन्ताम्। उपहूता धेनुः सहर्षभा। उप मा धेनुः सहर्षभा ह्वयताम्। उपहूतो भक्षः सखा। उप मा भक्षः सखा ह्वयताम्। उपहूता ३ हो। इडोपहूता। उपहूतेडा। उपो अस्मा इडा ह्वयताम्। इडोपहूता। उपहूतेडा। मानवी घृतपदी मैत्रावरुणी। ब्रह्म देवकृतमुपहूतम्। दैव्या अध्वर्यव उपहूताः। उपहूता मनुष्याः। य इमं यज्ञमवान्। ये यज्ञपतिं वर्धान्। उपहूते द्यावापृथिवी। पूर्वजे ऋतावरी। देवी देवपुत्रे। उपहूतोयं यजमानः। उत्तरस्यां देवयाज्यायामुपहूतः। भूयसि हविष्करण उपहूतः। दिव्ये धामन्नुपहूतः। इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूतः। विश्वमस्य प्रियमुपहूतम्। विश्वस्य प्रियस्योपहूतस्योपहूतः (ब्रा. का. ३ प्र. ५ अ. ८) इति। एतद्विनियोग बौधायनो दर्शयति---उक्ता इडाया जपास्तानुपा शुक्त्वोच्चैरुपह्वयत उपहूतेडेति प्रतीचीमिडोपहूतेति पराचीम् इति। अस्यायमर्थं गोशरीररूपाया इडाया देव्या जपा वेदे स्पष्टं प्रोक्ता उपहूत रथंतरमित्येवगारभ्योपहूता ३ हो इत्येवमन्ताः तान्मन्त्रानुपांशु जपेत्। तत उर्ध्वमिडोपहूतेत्यादिकमुच्चैः पठेत्। उपहूतशब्दस्य प्रथमप्रयोगे ( )पीडा प्रतीचीनमुखा भवति। चरम प्रयोगे पराचीनमुखेत्युच्यत इति। तानेतान्मन्त्रव्याचिख्यासुरादाविडाजन्मप्रकारं दर्शयति मनुः पृथिव्या इति। पुरा कदाचिन्मनुः पृथिव्या उपरि यज्ञार्थं किं (अपिशब्दस्यार्थो न ज्ञायते।) द्रव्यमस्तीति सर्वत्रान्वेषणमकरोत्। अन्विष्य च तत्र गोः पादाङ्कितेषु भूप्रदेशेषु निषिक्तं घृतं वब्धवान्। लब्ध्वा च देवानामग्रे स एवमब्रवीत्—अस्या गोः पदेषु स्थितस्य घृतस्य स्वरूपं यथा लौकिकयोजनादिषूपयुक्तं तथा यज्ञेषुपयुक्तं कर्तुं कः समर्थ इति। तच्छ्रुत्वा तत्र स्थितौ मित्रावरुणौ मनुं प्रत्यब्रूताम्—किं गोः कार्यभूतेन घृतेन्, तत्कारणभूताय गोरेव यज्ञाङ्गभावं कर्तुमावां समर्थौ स्व इति। एवमुक्त्वा तौ तत ऊर्ध्वं तामिडारूपा गां भूमौ समैरयतां समानयताम्। सा च गौर्भूमौ यत्र यत्र नितरां पादं प्रक्षिप्तवती तत्र तत्र गोपदाङ्किते भूप्रदेशे घृतं निष्पीडितमासीत्। यस्मादस्याः पादेभ्यो घृतं निर्गतमासीत्तस्मादियं घृतपदीति प्रसिद्धाभूत्। एवमस्या इडाया यज्ञभूमौ जन्म संपन्नम्। अथ मन्त्रं व्याचष्टे उपहूतमिति।"

"रथंतरं साम, तत्पृथिव्या सह मयोपहूतं समीपे यथा तिष्ठति तथाह्वानं कृतमित्यर्थः। एतन्मन्त्रगतरथंतरशब्देन भूमिरुपलक्ष्यते। यथा षट्सु पृष्ठस्तोत्रेषुरथंतरं सामाद्यं तथा त्रिषु लोकेषु भूमिराद्या। मन्त्रगतेन पृथिवीशब्देन तत्कार्यमन्नाद्यमुपलक्ष्यते। तथा सत्यन्नाद्येन सह भूमिरुपहूतेत्येवं मन्त्रवाक्यस्यार्थः। एवमुत्तरेपि मन्त्रा अनूज्ञ व्याख्यायन्ते।। तत्र सामविशेषवाचिना वामदेव्यशब्देन तत्सामसाध्या पशव उपलक्ष्यन्ते। तदेवद्दर्शयति उपहूतमिति। इराशब्दवाच्य वृष्टिस्तत्संबन्धि बृहत्सामैरवृष्टेर्बृहत्सामसाध्यत्वादित्येतमर्थं दर्शयति-"

"उपहूतमिति। आश्वलायनेन ये होत्रका दर्शिता होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाग्नीध्रोच्छावाक इति, तदुपह्वानपरत्वं दर्शयति उपहूता इति । सहर्षमेति पदेन सूचितमर्थं दर्शयति उपहूतेति। भक्षः सखेत्यनेन स्वोपकारकसोमपानमुपलक्ष्यत इति दर्शयति उपहूत इति। होशब्दः प्रयुक्तः स्वरूपवावीत्येतद्दर्शयति उपहूता ३ इति। उपहूतशब्दे रङ्गप्लुतिर्दूरादाह्वानस्य घटनेनादरार्था। आत्मन उपह्वाने प्रयोजनं दर्शयति आत्मा हीति। यस्मादिहाहूतानां रथंतरपृथिव्यादीनां भक्षः सखत्यन्तानामुपवासयितृतम् आत्मा, तदधीनत्वादितरोपह्वानस्य, तस्मादात्मनोप्युपह्वानं कर्तव्यम्। इडोपहूतेत्यारभ्य मानवीन्येतस्मात्प्राचीनस्य वाक्यसमूहस्य तात्पर्यं दर्शयति इडामुपेति। इडाशब्देन गाशरीरधारिणी देवतोच्यते। तस्या उपह्वानमिडोपहूतेत्यादिवाक्येन कुर्यात्। इडायाः पशुरूपत्वात्तदुपह्वानेन पशुप्राप्तिर्भवति। आरोहावरोहरूपयोर्वाक्ययोर्द्विरावृत्तत्वाच्चतुर्वारमुपह्वानं संपद्यते। पशूनां चतुष्पदत्वादेतदुपपन्नम्। तयोरावृत्त्या मध्ये सेयमिडास्मानुपह्वयतामित्येतदिडादेवतायाः प्रार्थना स्वस्मिन्देवतानुग्रहार्थम्। मनुः पृथिव्या इत्यस्मिन्नुपाख्याने मानवीत्यादिशब्दार्थः प्रसिद्ध इत्येतद्दर्शयति मानवीत्याहेति। पुरा देवैर्निष्पादितमिडोपह्वानरूपं यत्परिवृत्तं (ढं) कर्मतस्योपह्वानं दर्शयति ब्रह्म देवेति। अश्विनौ हि देवानामध्वर्यू आस्तामित्यादिश्रुतिषु श्रुता ये दैव्या अध्वर्यवो ये च दृश्यमाना मानुषास्तेषामुपाह्वानं दर्शयतिदैव्या इति। पूर्वोक्ता दैव्या मानुषाश्च येध्वर्यवस्ते सर्वेपीमं यज्ञमवन्तु यज्ञपतिं च वर्धयन्त्वित्येवमाशीःपरतां दर्शयति य इममिति। उपहूत रथंतर सह पृथिव्येत्यत्र यथा पृथिवीशब्दोन्नलक्षको नात्र तथा द्यावापृथिवीशब्दर्थौ किंतु स्वार्थपरावित्येतद्दर्शयति उपहूते इति। ते च द्यावापृथिव्यौ देवतिर्यङ्मनुष्याद्युत्पत्तेः पूर्वमेवोत्पन्ने, ऋतशब्दावाच्यो यज्ञोनयोर्वर्तत इति ऋतावर्यौ, नैते केवलमृत्विगादिरूपे किंतु देव्यौ, देवाः पुत्रा ययोस्ते देवपुत्रे इत्येतां विशेषणार्थसिद्धिं दर्शयति पूर्वजे इति। यजमानः प्रस्तर इत्यादिवदत्र यजमानोशब्दो नार्थान्तरलक्षक इत्येतद्दर्शयति उपहूतोयमिति। येषां देवयज्यादीनामर्थे यजमानोपह्वानं तानेतान्विस्पष्टं दर्शयति उत्तरस्यामिति। सोमयागादिरूपाया उत्तरदेवयज्यायाः प्रजाहेतुत्वेन प्रजात्वम्। अस्यामेवेष्टौ बहुहविःसंपादकस्य पशुहेतुत्वेन पशुत्वम्। इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूत इत्यस्त स्पष्टार्थस्य मन्त्रवाक्यस्यविवक्षितं तात्पर्यं दर्शयति इदमसीति। इदं प्रवर्तमानं मदीयं हविर्देवा जुषन्तामिति ववतुं तस्मिन्दर्शपूर्णमासकर्माणि यजमान उपहृत इत्येतावदेव न भवति किंत्विदं निरूढपशुबन्धरूपं कर्म चिकीर्षुरसि सोमयागरूपमिदं कर्म चिकीर्षुरसीत्येवं सर्वकर्मविवक्षाद्योतनार्था वीप्सा। अन्यद्यजमानस्य यत्प्रियं तत्सर्वमूपहूतं, तस्य चोपहूतस्य सर्वस्य प्रियस्य स्वामी यजमान उपहूत इत्यनेनोपाह्वानस्य न्यूनतां विचार्य संपूर्णता संपद्यतइत्येतद्दर्शयति विश्वमस्येति। अपेक्षितस्यार्थस्य प्रच्छादनेनानुष्ठानवैयर्थ्यं छम्बट्कारस्तद्यथा न भवति तथैवैनं यजमानमुपहूतवान्भवति । अत्र मीमांसा। नवमाध्यायस्य प्रथमपादे चिन्तितम् “ऊह्यो यज्ञपतिर्नो वा वृद्ध्यर्थोत्साहतोग्रिमः।"

प्रत्यक्षोक्त्या कृत्स्नमन्त्र इडार्थो नोहनं ततः”।। दर्शपूर्णमासयोरिडोपाह्वानमन्त्रे वाक्यमेतदाम्नायते- “दैव्या अध्वर्यव उपहूताः। उपहूता मनुष्याः। य इमं यज्ञमवान्। ये यज्ञपतिं वर्धान्” इति। ये दैव्या अध्वर्यवो यज्ञमवन्ति ये च मनुध्या यज्ञपतिं वर्धयन्ति ते सर्वेप्यत्रोपहूता इत्यर्थः। अस्मिन्वाक्ये यज्ञपतेरभिवृद्धिकथनेनोत्साहजननेन समवेतोर्थः प्रतीयते। तत इडोपह्वानमन्त्रात्पृथक्कृत्याभिवृद्ध्यर्थे जपे यज्ञवाक्यमिदं लिङ्गेन विनियुज्यताम्। तथा सति सत्रे यज्ञपतीनां बहुत्वाब्दहुवचनान्ततया यज्ञपति शब्द ऊहनीय इति प्राप्ते ब्रूमः प्रत्यश्रुत्या कृत्सनो मन्त्र इडोपह्वाने विनियुक्तः। एकवाक्यत्वं च कृत्स्नमन्त्र उपलभ्यते। प्रकरणं चेदमिडायाः। अतः श्रुति वाक्यप्रकरणैर्विरोधान्न लिङ्गविनियोगः संभवति। तदभावे च यज्ञपतिवृद्धिप्रतिपादकमवान्तरवाक्यमिडाप्रतिपादकेन महावाक्येन सहैकवाक्यतापन्नमिडां प्रशंसति। प्रशंसा चैकवचनान्तेनापि यज्ञपतिशब्देन सिध्यतीति नास्ति सत्रे तदूहः।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके सप्तमोनुवाकः।। ७ ।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परं चत्वारोऽनुवाका इष्टिहौत्रब्राह्मणम् । मनुः पृथिव्या इत्यादी ॥ इडोपाह्वानविधिः । यज्ञार्हमन्विच्छत् । पृथिव्या निषिक्तं घृतं लब्धवान् उपलब्धवान् । वृष्टिरूपाया इडायाः कार्यं दृष्टवान् । उक्तं च 'वृष्टिर्वा इडा' इति । अथाब्रवीत् प्रजापतिः कोऽस्य घृतस्य यज्ञेऽपि साधनभावं कर्तुमीश्वरः स्यात् । 'ईश्वरे तोसुन्कसुनौ' । अथ मित्रावरुणावब्रूतां गोरेव यज्ञे साधनभावं कर्तुं आवामीश्वरौ स्वः न कार्यभूतस्य घृतस्येति । अत्रापीडायाः गोश्शरीरत्वादिडैव गौरुच्यते । यथोक्तं 'शरीरं वा अस्यैतदुपाह्वथाः' इति । अथैवमुक्तवन्तौ मित्रावरुणौ गां गोशरीरां वृष्ट्यात्मिकामिडां समैरयतां यज्ञसाधनत्वेनागमयताम् । सा च यत्रयत्र न्यक्रामत् निर्गत्यापतत् गोपक्षे निमित्तं क्रामति स्म । ततो घृतमपीड्यत उत्पद्यते । अस्मादुदकं तस्मादिडा घृतपद्युच्यते वृष्टिद्वारेण घृतहेतुत्वात् गोरूपेण वा घृतस्य हेतुत्वात् । तदस्या इडाया जन्म यदिहोपह्वयते । घृतं पादेषु यस्यास्सा घृतपदी । 'कुम्भपदीषु च' ति पादस्य लोपः , 'पादोन्यतरस्याम्' इति ङीप्, 'पादः पत्' इति पद्भावः । एवं मनुना प्रथममुपलब्धत्वात् इडा मानवी । पदात् घृतपीडनात् घृतपदी । मित्रावरुणाभ्यां समीरितत्वान्मैत्रावरुणी ॥
2 उपहूतं रथन्तरमित्यादिना इडोपाह्वानमन्त्रं व्याचष्टे - इयं वा इति ॥ रथन्तरं साम । दुःखतरणहेतुत्वादियं पृथिवी रथन्तरम् । अन्नाद्येनेति । पृथिवीशब्देन पृथिवीविकारोऽन्नमुच्यते । तस्मादन्नाद्येन पृथिवीमुपह्वयते । आत्मसमीपे करोति विधेयां करोति । 'निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् ॥
3 पशवो वा इति ॥ वननीयस्वभावत्वात् ॥
4 ऐरमिति ॥ इरा वृष्टिः तत्र भवं सारं ऐरं तेन वृष्टिर्लक्ष्यते । दिवो वृष्टिं प्रवर्तयति ॥
5 होतृकान् पुनर्यागेषु प्रवर्तयन्ति ॥
6 मिथुनमिति ॥ उपलक्षणत्वात्सर्वमिथुनानां प्रजनयितारमात्मानं करोति ।
7 सोमपीथमिति ॥ भक्ष्यत इति भक्षः सोमः सखा समानख्यानः तस्य पानं पुनःपुनः प्रवर्तयति ॥
8 आत्मानमिति ॥ हो इत्यात्मोच्यते हे आत्मन् उपहूतः त्वमत्रोपहूत इति भावः । मम आत्मेतिवत् भेद उपचर्यते । आह्वाने प्लुतः । 'अणोऽप्रगृह्यस्य' इत्यनुनासिकः । न त्वात्मनोभिरक्षिताऽग्न्यादिरुपहूयते । तत्र आत्मन आह्वानेन कोऽर्थ आत्मनस्तत्राह - आत्मा हीति । अन्नादिषु मध्ये आत्मा वासयितृतमः तस्मादात्माऽप्युपहूयते इति । यद्वा - तस्मादिति । उच्चैरुपहूत इति । 'दूराद्धूरे च' इति प्लुतस्यैवं व्याख्या । इडामुपह्वयत इति । वृष्टिरन्नं पशवो देवता वा इडा द्रव्याभिमानिनी तामुपाह्वयते । इडोपहूतेत्यस्यार्थोऽनेन व्याख्यातः । उपहूतेडेति च स एवार्थः । बहुकृत्वो वचनमादरार्थम् । यथोक्तं 'अभ्यासेन भूयांसमर्थमधिगच्छति' इति । तत्रातिप्रसङ्गनिवृत्त्यर्थं चतुरुपह्वयत इत्युक्तम् । चतुष्पदां लाभश्चतुष्ट्वेन इडोपहूतेत्यस्याभ्यासाच्च । इत्थं मानवीत्यादि । गतम् । घृतपदीत्यादि । गतम् ॥
9 ब्रह्म परिबृढं यज्ञाख्यं कर्म देवेन ब्रह्मणा ऋत्विग्भिर्वाकृतम् । देवमनुष्यानिति । देवमनुष्यांश्चाध्वरस्य नेतॄनुपह्वयते ॥
10 यज्ञाय चैवेत्यादि ॥ गतम् ॥
11 पूर्वजे इति ॥ सर्वविकारेभ्यः पूर्वमुत्पन्ने । ऋतावरी सत्यवत्यौ वा तत्साधनत्वेन । मत्वर्थीये मतुपि 'वनो र च' इति, 'वा छन्दसि'इति पूर्वसवर्णदीर्घत्वम् । देवनशीले देव्यौ देवाः पुत्राः ययोस्तौ तादृश्यौ ॥
12 प्रजा वा इत्यादि ॥ दर्शपूर्णमासाद्यविच्छेदः प्रजाहेतुः । इदमसीदमसीत्यादि । प्रजा वा पशवः स्वर्गो वा यद्यज्ञस्य प्रियं धाम तादात्म्येन यज्ञे यजमानः उपहूतो भवति । अछम्बट्कारमेवेति । बडिति सत्यनाम । तस्य छादनं छम्बट्काः किञ्चिदप्यपरिच्छाद्य सर्वमप्यस्य यजमानस्य प्रियमुपह्वयते ॥
इति द्वितीये षष्ठे सप्तमोऽनुवाकः ॥