-यं ॅवै र॑थन्त॒रमि॒मामे॒व स॒हान्नाद्-ये॒नोप॑ ह्वयत॒ उप॑हूतं ॅवामदे॒व्यꣳ स॒हान्तरि॑क्षे॒णेत्या॑ह प॒शवो॒ वै वा॑मदे॒व्यं प॒शूने॒व स॒हान्तरि॑क्षे॒णोप॑ ह्वयत॒ उप॑हूतं बृ॒हथ् स॒ह दि॒वेत्या॑है॒रं ॅवै बृ॒हदिरा॑मे॒व स॒ह दि॒वोप॑ ह्वयत॒ उप॑हूताः स॒प्त होत्रा॒ इत्या॑ह॒ होत्रा॑ ए॒वोप॑ ह्वयत॒ उप॑हूता धे॒नुः- [ ]
पदपाठः (Word-by-word)
इ॒यम् । वै । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । इ॒माम् । ए॒व । स॒ह । अ॒न्नाद्ये॒नेत्य॑न्न - अद्ये॑न । उपेति॑ । ह्व॒य॒ते॒ । उप॑हूत॒मित्युप॑ - हू॒त॒म् । वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् । स॒ह । अ॒न्तरि॑क्षेण । इति॑ । आ॒ह॒ । प॒शवः॑ । वै । वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् । प॒शून् । ए॒व । स॒ह । अ॒न्तरि॑क्षेण । उपेति॑ । ह्व॒य॒ते॒ । उप॑हूत॒मित्युप॑-हू॒त॒म् । बृ॒हत् । स॒ह । दि॒वा । इति॑ । आ॒ह॒ । ऐ॒रम् । वै । बृ॒हत् । इरा᳚म् । ए॒व । स॒ह । दि॒वा । उपेति॑ । ह्व॒य॒ते॒ । उप॑हूता॒ इत्युप॑ - हू॒ताः॒ । स॒प्त । होत्राः᳚ । इति॑ । आ॒ह॒ । होत्राः᳚ । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । उप॑हू॒तेत्युप॑-हू॒ता॒ । धे॒नुः ।