स॒हर्.ष॒भेत्या॑ह मिथु॒नमे॒वोप॑ ह्वयत॒ उप॑हूतो भ॒क्षः सखेत्या॑ह सोमपी॒थमे॒वोप॑ ह्वयत॒ उप॑हू॒ताॅ(4) हो इत्या॑हा॒ऽऽत्मान॑मे॒वोप॑ ह्वयत आ॒त्मा ह्युप॑हूतानां॒ ॅवसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒ चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह॒ मनु॒र्ह्ये॑ता- [ ]
पदपाठः (Word-by-word)
स॒हर्.ष॒भेति॑ स॒ह-ऋ॒ष॒भा॒ । इति॑ । आ॒ह॒ । मि॒थु॒नम् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । उप॑हूत॒ इत्युप॑ - हू॒तः॒ । भ॒क्षः । सखा᳚ । इति॑ । आ॒ह॒ । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । उप॑हू॒ताॅ(4)इत्युप॑ - हू॒ता(3)ॅ । हो इति॑ । इति॑ । आ॒ह॒ । आ॒त्मान᳚म् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । आ॒त्मा । हि । उप॑हूताना॒मित्युप॑ - हू॒ता॒ना॒म् । वसि॑ष्ठः । इडा᳚म् । उपेति॑ । ह्व॒य॒ते॒ । प॒शवः॑ । वै । इडा᳚ । प॒शून् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । च॒तुः । उपेति॑ । ह्व॒य॒ते॒ । चतु॑ष्पाद॒ इति॒ चतुः॑-पा॒दः॒ । हि । प॒शवः॑ । मा॒न॒वी । इति॑ । आ॒ह॒ । मनुः॑ । हि । ए॒ताम् ।