प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.6.7.4 TS 2.6.7.4
-मग्रे ऽप॑श्यद्-घृ॒तप॒दीत्या॑ह॒ य दे॒वास्यै॑ प॒दाद्-घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह मैत्रावरु॒णीत्या॑ह मि॒त्रावरु॑णौ॒ ह्ये॑नाꣳ स॒मैर॑यतां॒ ब्रह्म॑ दे॒वकृ॑त॒-मुप॑हूत॒मित्या॑ह॒ ब्रह्मै॒वोप॑ ह्वयते॒ दैव्या॑ अद्ध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह देवमनु॒ष्याने॒वोप॑ ह्वयते॒ य इ॒मं ॅय॒ज्ञ्मवा॒न्॒ ये य॒ज्ञ्प॑तिं॒ ॅवर्द्धा॒नित्या॑ह - [ ]
पदपाठः (Word-by-word)
अग्रे᳚ । अप॑श्यत् । घृ॒तप॒दीति॑ घृ॒त-प॒दी॒ । इति॑ । आ॒ह॒ । यत् । ए॒व । अ॒स्यै॒ । प॒दात् । घृ॒तम् । अपी᳚ड्यत । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । मै॒त्रा॒व॒रु॒णीति॑ मैत्रा - व॒रु॒णी । इति॑ । आ॒ह॒ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । हि । ए॒ना॒म् । स॒मैर॑यता॒मिति॑ सं - ऐर॑यताम् । ब्रह्म॑ । दे॒वकृ॑त॒मिति॑ दे॒व - कृ॒त॒म् । उप॑हूत॒मित्युप॑ - हू॒त॒म् । इति॑ । आ॒ह॒ । ब्रह्म॑ । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । दैव्याः᳚ । अ॒द्ध्व॒र्यवः॑ । उप॑हूता॒ इत्युप॑ - हू॒ताः॒ । उप॑हूता॒ इत्युप॑ - हू॒ताः॒ । म॒नु॒ष्याः᳚ । इति॑ । आ॒ह॒ । दे॒व॒म॒नु॒ष्यानिति॑ देव-म॒नु॒ष्यान् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । ये । इ॒मम् । य॒ज्ञ्म् । अवान्॑ । ये । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । वर्द्धान्॑ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50