य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒ ऽऽशिष॒मा शा᳚स्त॒ उप॑हूते॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते पूर्व॒जे ऋ॒ताव॑री॒ इत्या॑ह पूर्व॒जे ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒ उप॑हूतो॒ऽयं ॅयज॑मान॒ इत्या॑ह॒ यज॑मानमे॒वोप॑ ह्वयत॒ उत्त॑रस्यां देवय॒ज्याया॒मुप॑हूतो॒ भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो दि॒व्ये धाम॒न्नुप॑हूत॒ - [ ]
पदपाठः (Word-by-word)
य॒ज्ञाय॑ । च॒ । ए॒व । यज॑मानाय । च॒ । आ॒शिष॒मित्या᳚-शिष᳚म् । एति॑ । शा॒स्ते॒ । उप॑हूते॒ इत्युप॑ - हू॒ते॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । इति॑ । आ॒ह॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । पू॒र्व॒जे इति॑ पूर्व - जे । ऋ॒ताव॑री॒ इत्यृ॒त - व॒री॒ । इति॑ । आ॒ह॒ । पू॒र्व॒जे इति॑ पूर्व - जे । हि । ए॒ते इति॑ । ऋ॒ताव॑री॒ इत्यृ॒त - व॒री॒ । दे॒वी इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒व - पु॒त्रे॒ । इति॑ । आ॒ह॒ । दे॒वी इति॑ । हि । ए॒ते इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒व - पु॒त्रे॒ । उप॑हूत॒ इत्युप॑-हू॒तः॒ । अ॒यम् । यज॑मानः । इति॑ । आ॒ह॒ । यज॑मानम् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । उत्त॑रस्या॒मित्युत् - त॒र॒स्या॒म् । दे॒व॒य॒ज्याया॒मिति॑ देव - य॒ज्याया᳚म् । उप॑हूत॒ इत्युप॑ - हू॒तः॒ । भूय॑सि । ह॒वि॒ष्कर॑ण॒ इति॑ हविः - कर॑णे । उप॑हूत॒ इत्युप॑ - हू॒तः॒ । दि॒व्ये । धामन्न्॑ । उप॑हूत॒ इत्युप॑ - हू॒तः॒ ।