छि॑न्दन्ति॒ यन्म॑द्ध्य॒तः प्रा॒श्नन्त्य॒द्भि-र्मा᳚र्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञ्ꣳ सं त॑न्वन्ति दे॒वा वै य॒ज्ञाद्-रु॒द्रम॒न्तरा॑य॒न्थ्स य॒ज्ञ्म॑विद्ध्य॒त् तं दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑तां न इ॒दमिति॒ ते᳚ऽब्रुव॒न्थ् स्वि॑ष्टं॒ ॅवै न॑ इ॒दं भ॑विष्यति॒ यदि॒मꣳ रा॑धयि॒ष्याम॒ इति॒ तथ् स्वि॑ष्ट॒कृतः॑ स्विष्टकृ॒त्त्वं तस्या ऽऽवि॑द्धं॒ नि - [ ]
पदपाठः (Word-by-word)
छि॒न्द॒न्ति॒ । यत् । म॒द्ध्य॒तः । प्रा॒श्नन्तीति॑ प्र - अ॒श्नन्ति॑ । अ॒द्भिरित्य॑त् - भिः । मा॒र्ज॒य॒न्ते॒ । आपः॑ । वै । सर्वाः᳚ । दे॒वताः᳚ । दे॒वता॑भिः । ए॒व । य॒ज्ञ्म् । समिति॑ । त॒न्व॒न्ति॒ । दे॒वाः । वै । य॒ज्ञात् । रु॒द्रम् । अ॒न्तः । आ॒य॒न्न् । सः । य॒ज्ञ्म् । अ॒वि॒द्ध्य॒त् । तम् । दे॒वाः । अ॒भि । समिति॑ । अ॒ग॒च्छ॒न्त॒ । कल्प॑ताम् । नः॒ । इ॒दम् । इति॑ । ते । अ॒ब्रु॒व॒न्न् । स्वि॑ष्ट॒मिति॒ सु - इ॒ष्ट॒म् । वै । नः॒ । इ॒दम् । भ॒वि॒ष्य॒ति॒ । यत् । इ॒मम् । रा॒ध॒यि॒ष्यामः॑ । इति॑ । तत् । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । स्वि॒ष्ट॒कृ॒त्त्वमिति॑ स्विष्टकृत् - त्वम् । तस्य॑ । आवि॑द्ध॒मित्या - वि॒द्ध॒म् । निरिति॑ ।