-र॑कृन्त॒न॒. यवे॑न॒ सम्मि॑तं॒ तस्मा᳚द्-यवमा॒त्रमव॑ द्ये॒द्-यज्ज्यायो॑ऽव॒द्-येद्-रो॒पये॒त् तद्-य॒ज्ञ्स्य॒ यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑दुभयतः सꣳश्वा॒यि कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्विः संप॑द्यते द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै॒ यत् ति॑र॒श्चीन॑-मति॒-हरे॒दन॑भि-विद्धं ॅय॒ज्ञ्स्या॒भि वि॑द्ध्ये॒दग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति॒ तत् पू॒ष्णे पर्य॑हर॒न् तत् - [ ]
पदपाठः (Word-by-word)
अ॒कृ॒न्त॒न्न् । यवे॑न । संमि॑त॒मिति॒ सं - मि॒त॒म् । तस्मा᳚त् । य॒व॒मा॒त्रमिति॑ यव - मा॒त्रम् । अवेति॑ । द्ये॒त् । यत् । ज्यायः॑ । अ॒व॒द्येदित्य॑व - द्येत् । रो॒पये᳚त् । तत् । य॒ज्ञ्स्य॑ । यत् । उपेति॑ । च॒ । स्तृ॒णी॒यात् । अ॒भीति॑ । च॒ । घा॒रये᳚त् । उ॒भ॒य॒तः॒, सꣳ॒॒श्वा॒यीत्यु॑भयतः - सꣳ॒॒श्वा॒यि । कु॒र्या॒त् । अ॒व॒दायेत्य॑व - दाय॑ । अ॒भीति॑ । घा॒र॒य॒ति॒ । द्विः । समिति॑ । प॒द्य॒ते॒ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । यत् । ति॒र॒श्चीन᳚म् । अ॒ति॒हरे॒दित्य॑ति - हरे᳚त् । अन॑भिविद्ध॒मित्यन॑भि - वि॒द्ध॒म् । य॒ज्ञ्स्य॑ । अ॒भीति॑ । वि॒द्ध्ये॒त् । अग्रे॑ण । परीति॑ । ह॒र॒ति॒ । ती॒र्त्थेन॑ । ए॒व । परीति॑ । ह॒र॒ति॒ । तत् । पू॒ष्णे । परीति॑ । अ॒ह॒र॒न्न् । तत् ।