पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त् तस्मा᳚त् पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि तं दे॒वा अ॑ब्रुव॒न् वि वा अ॒यमा᳚र्द्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒ तद्-बृह॒स्पत॑ये॒ पर्य॑हर॒न्थ् सो॑ऽबिभे॒द्-बृह॒स्पति॑रि॒त्थं ॅवाव स्य आर्ति॒माऽरि॑ष्य॒तीति॒ स ए॒तं मन्त्र॑मपश्य॒थ् सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चक्षुः॒ - [ ]
पदपाठः (Word-by-word)
पू॒षा । प्राश्येति॑ प्र - अश्य॑ । द॒तः । अ॒रु॒ण॒त् । तस्मा᳚त् । पू॒षा । प्र॒पि॒ष्टभा॑ग॒ इति॑ प्रपि॒ष्ट - भा॒गः॒ । अ॒द॒न्तकः॑ । हि । तम् । दे॒वाः । अ॒ब्रु॒व॒न्न् । वीति॑ । वै । अ॒यम् । आ॒र्द्धि॒ । अ॒प्रा॒शि॒त्रि॒य इत्य॑प्र - अ॒शि॒त्रि॒यः । वै । अ॒यम् । अ॒भू॒त् । इति॑ । तत् । बृह॒स्पत॑ये । परीति॑ । अ॒ह॒र॒न्न् । सः । अ॒बि॒भे॒त् । बृह॒स्पतिः॑ । इ॒त्थम् । वाव । स्यः । आर्ति᳚म् । एति॑ । अ॒रि॒ष्य॒ति॒ । इति॑ । सः । ए॒तम् । मन्त्र᳚म् । अ॒प॒श्य॒त् । सूर्य॑स्य । त्वा॒ । चक्षु॑षा । प्रतीति॑ । प॒श्या॒मि॒ । इति॑ । अ॒ब्र॒वी॒त् । न । हि । सूर्य॑स्य । चक्षुः॑ ।