प्राशि॑तं माहिꣳसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ ब्रवी॒न्न हि ब्रा᳚ह्म॒णस्यो॒दरं॒ किं च॒न हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठोऽप॒ वा ए॒तस्मा᳚त् प्रा॒णाः क्रा॑मन्ति॒ यः प्रा॑शि॒त्रं प्रा॒श्नात्य॒द्भि-र्मा᳚र्जयि॒त्वा प्रा॒णान्थ् सं मृ॑शते॒ऽमृतं॒ ॅवै प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ॥
पदपाठः (Word-by-word)
प्राशि॑त॒मिति॒ प्र-अ॒शि॒त॒म् । मा॒ । हिꣳ॒॒सि॒ष्य॒ति॒ । इति॑ । ब्रा॒ह्म॒णस्य॑ । उ॒दरे॑ण । इति॑ । अ॒ब्र॒वी॒त् । न । हि । ब्रा॒ह्म॒णस्य॑ । उ॒दर᳚म् । किम् । च॒न । हि॒नस्ति॑ । बृह॒स्पतेः᳚ । ब्रह्म॑णा । इति॑ । सः । हि । ब्रह्मि॑ष्ठः । अपेति॑ । वै । ए॒तस्मा᳚त् । प्रा॒णा इति॑ प्र - अ॒नाः । क्रा॒म॒न्ति॒ । यः । प्रा॒शि॒त्रमिति॑ प्र - अ॒शि॒त्रम् । प्रा॒श्नातीति॑ प्र - अ॒श्नाति॑ । अ॒द्भिरित्य॑त् - भिः । मा॒र्ज॒यि॒त्वा । प्रा॒णानिति॑ प्र-अ॒नान् । समिति॑ । मृ॒श॒ते॒ । अ॒मृत᳚म् । वै । प्रा॒णा इति॑ प्र - अ॒नाः । अ॒मृत᳚म् । आपः॑ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । य॒था॒स्था॒नमिति॑ यथा - स्था॒नम् । उपेति॑ । ह्व॒य॒ते॒ ॥