-ऽऽहेत्या॑ह॒ प्रसू᳚त्यै॒ बृह॒स्पति॑ र्ब्र॒ह्मेत्या॑ह॒ स हि ब्रह्मि॑ष्ठः॒ स य॒ज्ञ्ं पा॑हि॒ स य॒ज्ञ्प॑तिं पाहि॒ स मां पा॒हीत्या॑ह य॒ज्ञाय॒ यज॑मानाया॒ऽऽत्मने॒ तेभ्य॑ ए॒वाऽऽशिष॒मा शा॒स्तेऽना᳚र्त्या आ॒श्राव्या॑ऽऽह दे॒वान्. य॒जेति॑ ब्रह्मवा॒दिनो॑ वदन्ती॒ष्टा दे॒वता॒ अथ॑ कत॒म ए॒ते दे॒वा इति॒ छन्दाꣳ॒॒सीति॑ ब्रूयाद्-गाय॒त्रीं त्रि॒ष्टुभं॒ - [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । इति॑ । आ॒ह॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । बृह॒स्पतिः॑ । ब्र॒ह्मा । इति॑ । आ॒ह॒ । सः । हि । ब्रह्मि॑ष्ठः । सः । य॒ज्ञ्म् । पा॒हि॒ । सः । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । पा॒हि॒ । सः । माम् । पा॒हि॒ । इति॑ । आ॒ह॒ । य॒ज्ञाय॑ । यज॑मानाय । आ॒त्मने᳚ । तेभ्यः॑ । ए॒व । आ॒शिष॒मित्या᳚ - शिष᳚म् । एति॑ । शा॒स्ते॒ । अना᳚र्त्यै । आ॒श्राव्येत्या᳚ - श्राव्य॑ । आ॒ह॒ । दे॒वान् । य॒ज॒ । इति॑ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । इ॒ष्टाः । दे॒वताः᳚ । अथ॑ । क॒त॒मे । ए॒ते । दे॒वाः । इति॑ । छन्दाꣳ॑सि । इति॑ । ब्रू॒या॒त् । गा॒य॒त्रीम् । त्रि॒ष्टुभ᳚म् ।