जग॑ती॒मित्यथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दाꣳ॒॒सीति॒ ताने॒व तद्-य॑जति दे॒वानां॒ ॅवा इ॒ष्टा दे॒वता॒ आस॒न्नथा॒ग्निर्नोद॑ज्वल॒त् तं दे॒वा आहु॑तीभि-रनूया॒जेष्वन्व॑-विन्द॒न्॒. यद॑नूया॒जान्. यज॑त्य॒ग्निमे॒व तथ् समि॑न्ध ए॒तदु॒र्वै नामा॑ऽऽ*सु॒र आ॑सी॒थ् स ए॒तर्.हि॑ य॒ज्ञ्स्या॒ ऽऽशिष॑मवृङ्क्त॒ यद् ब्रू॒यादे॒त - [ ]
पदपाठः (Word-by-word)
जग॑तीम् । इति॑ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । ब्रा॒ह्म॒णाः । वै । छन्दाꣳ॑सि । इति॑ । तान् । ए॒व । तत् । य॒ज॒ति॒ । दे॒वाना᳚म् । वै । इ॒ष्टाः । दे॒वताः᳚ । आसन्न्॑ । अथ॑ । अ॒ग्निः । न । उदिति॑ । अ॒ज्व॒ल॒त् । तम् । दे॒वाः । आहु॑तीभि॒रित्याहु॑ति - भिः॒ । अ॒नू॒या॒जेष्वित्य॑नु - या॒जेषु॑ । अन्विति॑ । अ॒वि॒न्द॒न्न् । यत् । अ॒नू॒या॒जानित्य॑नु-या॒जान् । यज॑ति । अ॒ग्निम् । ए॒व । तत् । समिति॑ । इ॒न्धे॒ । ए॒तदुः॑ । वै । नाम॑ । आ॒सु॒रः । आ॒सी॒त् । सः । ए॒तर्.हि॑ । य॒ज्ञ्स्य॑ । आ॒शिष॒मित्या᳚ - शिष᳚म् । अ॒वृ॒ङ्क्त॒ । यत् । ब्रू॒यात् । ए॒तत् ।