-दु॑ द्यावापृथिवी भ॒द्र-म॑भू॒दित्ये॒तदु॑-मे॒वाऽऽसु॒रं ॅय॒ज्ञ्स्या॒ऽऽशिषं॑ गमयेदि॒दं द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व ब्रू॑या॒द्-यज॑मानमे॒व य॒ज्ञ्स्या॒ऽऽशिषं॑ गमय॒त्यार्द्ध्म॑ सूक्तवा॒कमु॒त न॑मोवा॒कमि-त्या॑हे॒दम॑रा॒थ्-स्मेति॒ वावैतदा॒होप॑श्रितो दि॒वः पृ॑थि॒व्योरित्या॑ह॒ द्यावा॑पृथि॒व्योर्.हि य॒ज्ञ् उप॑श्रित॒ ओम॑न्वती ते॒ऽस्मिन्. य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी - [ ]
पदपाठः (Word-by-word)
उ॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ । भ॒द्रम् । अ॒भू॒त् । इति॑ । ए॒तदु᳚म् । ए॒व । आ॒सु॒रम् । य॒ज्ञ्स्य॑ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ग॒म॒ये॒त् । इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ । भ॒द्रम् । अ॒भू॒त् । इति॑ । ए॒व । ब्रू॒या॒त् । यज॑मानम् । ए॒व । य॒ज्ञ्स्य॑ । आ॒शिष॒मित्या᳚- शिष᳚म् । ग॒म॒य॒ति॒ । आर्द्ध्म॑ । सू॒क्त॒वा॒कमिति॑ सूक्त - वा॒कम् । उ॒त । न॒मो॒वा॒कमिति॑ नमः-वा॒कम् । इति॑ । आ॒ह॒ । इ॒दम् । अ॒रा॒थ्स्म॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ । उप॑श्रित॒ इत्युप॑ - श्रि॒तः॒ । दि॒वः । पृ॒थि॒व्योः । इति॑ । आ॒ह॒ । द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । हि । य॒ज्ञ्ः । उप॑श्रित॒ इत्युप॑ - श्रि॒तः॒ । ओम॑न्वती॒ इत्योमन्न्॑ - व॒ती॒ । ते॒ । अ॒स्मिन्न् । य॒ज्ञे । य॒ज॒मा॒न॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।