दे॒वता॒स्ता अ॑रीरधा॒मेति॒ वावैतदा॑ह॒ यन्न नि॑र्दि॒शेत् प्रति॑वेशं ॅय॒ज्ञ्स्या॒ ऽऽशीर्ग॑च्छे॒दा शा᳚स्ते॒ऽयं ॅयज॑मानो॒ऽसावित्या॑ह नि॒र्दिश्यै॒वैनꣳ॑ सुव॒र्गं ॅलो॒कं ग॑मय॒त्यायु॒रा शा᳚स्ते सुप्रजा॒स्त्वमा शा᳚स्त॒ इत्या॑हा॒ ऽशिष॑मे॒वै तामा शा᳚स्ते सजातवन॒स्यामा शा᳚स्त॒ इत्या॑ह प्रा॒णा वै स॑जा॒ताः प्रा॒णाने॒व - [ ]
पदपाठः (Word-by-word)
दे॒वताः᳚ । ताः । अ॒री॒र॒धा॒म॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ । यत् । न । नि॒र्दि॒शेदिति॑ निः - दि॒शेत् । प्रति॑वेश॒मिति॒ प्रति॑ - वे॒श॒म् । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छे॒त् । एति॑ । शा॒स्ते॒ । अ॒यम् । यज॑मानः । अ॒सौ । इति॑ । आ॒ह॒ । नि॒र्दिश्येति॑ निः - दिश्य॑ । ए॒व । ए॒न॒म् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ । आयुः॑ । एति॑ । शा॒स्ते॒ । सु॒प्र॒जा॒स्त्वमिति॑ सुप्रजाः - त्वम् । एति॑ । शा॒स्ते॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚-शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । स॒जा॒त॒व॒न॒स्यामिति॑ सजात - व॒न॒स्याम् । एति॑ । शा॒स्ते॒ । इति॑ । आ॒ह॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । स॒जा॒ता इति॑ स - जा॒ताः । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व ।