नान्तरे॑ति॒ तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते व॒यम॒ग्नेर्मानु॑षा॒ इत्या॑हा॒ग्निर्दे॒वेभ्यो॑ वनु॒ते व॒यं म॑नु॒ष्ये᳚भ्य॒ इति॒ वावैतदा॑हे॒ह गति॑र्वा॒मस्ये॒दं च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह॒ याश्चै॒व दे॒वता॒ यज॑ति॒ याश्च॒ न ताभ्य॑ ए॒वोभयी᳚भ्यो॒ नम॑स्करोत्या॒त्मनोऽना᳚र्त्यै ॥
पदपाठः (Word-by-word)
न । अ॒न्तः । ए॒ति॒ । तत् । अ॒ग्निः । दे॒वः । दे॒वेभ्यः॑ । वन॑ते । व॒यम् । अ॒ग्नेः । मानु॑षाः । इति॑ । आ॒ह॒ । अ॒ग्निः । दे॒वेभ्यः॑ । व॒नु॒ते । व॒यम् । म॒नु॒ष्ये᳚भ्यः । इति॑ । वाव । ए॒तत् । आ॒ह॒ । इ॒ह । गतिः॑ । वा॒मस्य॑ । इ॒दम् । च॒ । नमः॑ । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ । याः । च॒ । ए॒व । दे॒वताः᳚ । यज॑ति । याः । च॒ । न । ताभ्यः॑ । ए॒व । उ॒भयी᳚भ्यः । नमः॑ । क॒रो॒ति॒ । आ॒त्मनः॑ । अना᳚र्त्यै ॥