पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः) ।
प्रतिनिर्ग्राह्यमन्त्रास्तु दशमे परिकीर्तिताः ।
अथैकादशे त्रैधातवीयेष्टिविषया मन्त्रा उच्यन्ते ।
कल्पः — “प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधान्तग्ने त्रीते वाजिना त्री षधस्थेति त्रिवत्या परिदधाति सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये उत्तरे संयाज्ये” इति । धाय्ययोः प्रथमामाह —
प्र सो अग्न इति । हेऽग्ने यस्य यजमानस्य त्वं सख्यमाविथ सखिवत्स्नेहं पालितवानसि स यजमानस्तवोतिभिः पालनैः प्रकर्षेण तरति संसारक्लेशमतिवर्तते । कीदृशीभिरूतिभिः । सुवीराभिः । शोभनपुत्राद्यापत्यहेतुभिः । वाजकर्मभिः, अन्न निमित्तानि कर्माण्युद्योगा यासामूतीनां ता वाजकर्माणस्ताभिः । द्वितीयां धाय्यामहा —
प्र होत्र इति । हे ऋत्विजो यूयमग्नये वचः स्तुतिरूपं वाक्यं प्रकर्षेण भरत पोषयत । कीदृशं वचः । पूर्वैर्ऋषिभिः पठितं ब्रहत्प्रौढं विपां विशेषेणास्माकं पालकम् । कीदृशायग्नये । होत्रे होमनिष्पादकाय । वेधसेऽस्मद्धितस्य विधात्रे । अग्नेर्दृष्टान्तः- ज्योतिषि विभ्रते नेति । यथा रश्मिरूपाणि ज्योतिषि धारयित्रे सूर्याय स्तुतिं कुर्वन्ति तद्वदित्यर्थः । अथ परिधानीयामाह —
अग्ने त्री त इति । हेऽग्ने ते तव त्री वाजिना त्रयः पुरोडाशा भवन्तीति तस्यामिष्टौ विहितत्वात्त्रीण्यन्नानि यद्वा सोमौषधिसांनाप्यरूपाणि त्रीणि । तथा त्री शधस्था सहस्थानानि त्रीणि परस्परयुक्तानि लोकत्रयरूपण्याहवनीयगार्हपत्यदक्षिणाग्निरूपाणि वा । हे ऋतजात *ऋताज्ज्ञानात्मनः समुत्पन्न ते तव पूर्वीः पूर्वसिद्धा जिह्वास्रिस्र सात्त्विकराजसतामसरूपा इष्टप्राप्त्यनिष्टपरिहाराभिचारहेतव उ अपि च देववाता देवैर्वाताः प्राप्तास्ते तव तनुवस्तिस्रस्ताभिस्तनूभिरग्नि विद्युदादित्यरूपाभिर्नोऽस्मान्पाहि । किं कुर्वन् । गिरो अप्रयुच्छन्नस्मदीयाः स्तुतिरप्रमादयन्नस्माभिः कृतं प्रमादं परिहरन्नित्यर्थः । अथ पुरोनुवाक्या--
सं वां कर्मणेति । हे इन्द्राविष्णू वा युवामनेन कर्षणा संहिनोमि सम्यक्प्रीणयामि । इषा हविर्लक्षणेनान्नेन च संहिनोमि । किंनिमित्तमिति तदुच्यते अस्यापसः पारेऽनुष्ठीयमानस्य कर्मणः पारनिमित्तमविघ्नेन परिसमाप्त्यर्थम् । किंच, अस्मदीयमिमं यज्ञं जुषेथामस्मभ्यं च द्रविणं संपादयतः । किं कुर्वन्तौ । अरिष्टैर्नः । पथिमिः पारयन्ता विनाशरहितैरनुष्ठानमार्गैरस्मान्कर्मणः पारं प्रापयन्तौ । अथ याज्यामाह —
उभा जिग्यथुरिति । हे विष्णो, इंद्रश्च त्वं चोभो जियथर्जयं प्राप्तवान्तौ न पराजयेथे कदाऽपि पराजयं न प्राप्नुथः । एनोरनयोरुभयोर्मध्ये कतरश्चना न्यतरोऽपि न पराजिग्ये पराजयं न प्राप्तवान् । यद्यदा युवामुभावपस्पृधेयां स्पर्धां कुर्यातां त्वं तत्तदा सहस्रं दक्षिणारूपेण दातव्यं गोसहस्रं त्रिधा विभज्यैरयेथां नीतवन्तौ । अयं च विभागः सप्तमकाण्डे स्पष्टमाम्नातः ।
त्रीण्यायूऽषीति । हे जातवेदस्तावाऽऽयूंषि आयुर्वृद्धिकारणानि हर्वींषि सोमसांनाय्यपुरोडाशरूपेण त्रीणि । हेऽग्ने ते तवोषस उषःकालसदृश्य आजा नीराविर्भावरूपा ज्वालास्तिस्र आहवनीयादिषु त्रिषु स्थानेषु त्रिविधास्ताभिर्ज्वालाभिर्देवानामवो रक्षकं हविर्विद्वान्यक्षि यज । अथानन्तरं यजमानाय शं भव सुखप्रदो भव । मोर्भव दुःखवियोजको भव । अथ स्विष्टकृतो याज्यारूपां संयाज्यामाह —
ऋतासत्यात्परमात्मन इति ख. पुस्तकस्थपाठन्तरम् । अग्निस्रीणीति । कविर्विद्वानयमाग्निर्विदथेषु यज्ञेषु त्रीणि हवींष्याक्षेति सर्वतः प्राप्नोति । “त्रयः पुरोडाशा भवन्ति” इत्युक्तत्वाद्धविषां त्रित्वम् । कीदृशानि त्रीणि हवींषि । त्रिधातूनि ‘उत्तरउत्तरो ज्यायान्भवति” इत्युक्तत्वात्रिप्रकारांणि । सोऽग्निरिहास्मिन्कर्मण्येकादशभिर्देवैरुपेतांस्त्रीन्गणांस्तर्पयत्विति शेषः । मे देवा दिव्येकादश स्थ” इत्यनुवाके गणत्रयं विस्पष्टमाम्नातम् ।
यक्षच्चेति । अग्निर्देवानां दूत आसीदित्युक्तत्वाद्दूतरूपोऽयमग्निर्यक्षञ्च देवान्यक्षतु च । ब्राह्मणजात्यभिमानित्वाद्विप्ररूपोऽयमग्निनोऽस्मान्पिप्रयञ्च प्रीणयतु च । ब्राह्मणजात्यभिमानित्वाद्विप्ररूपोऽयमग्निर्नोऽस्मान्पिप्रयच्च प्रीणयतु च । कीदृशोऽग्निः । परिष्कृतो दूतत्वचिन्हैरलंकृतः । अन्यशब्दः शत्रुवाची । कप्रत्ययः कुत्सितार्थे । समशब्दः सर्वशब्दपर्यायः । अन्यके समेऽस्मत्तोऽन्ये कुत्सिताः सर्वेऽपि नभन्तां नश्यन्तु ।
इन्द्राविष्णू इति । हे इन्द्राविष्णू शम्बरनामकस्यासुरस्य संबन्धिन्यः पुरो नगरीः श्नथिष्टं युवा नाशितवन्तौ । कियतीर्नेगरीः । नव नवतिं च ।एकोनशतसंख्याका इत्यर्थः । कीदृशीः । दृहिता दृढाः । किंच, असुरस्य संबन्धिनो वर्चिनो दीप्तिमतः शतं सहस्रं च वीरान्प्रधानभूतानमात्यादीन्प्रति पक्षराहित्यं यथा भवति तथा साकं हथः ।
उत मातेति । उत मातेन्द्रस्य देवस्य माता महिपं महान्तमिन्द्रमन्ववेनदनुक्रमेण ज्ञापितवतीत्यर्थः । कथं ज्ञापितवतीति तदुच्यते-हे पुत्रेन्द्र त्वयि शत्रून्हत्वा तूष्णीं स्थिते सति सर्वेऽप्यमी देवास्त्वां जहति परित्यजन्तीति । अथ मातृबोधानादूर्ध्वमिन्द्रो वृत्रं हनिष्यन्वधोद्युक्तो विष्णुं प्रत्येतदब्रवीत्-हे सखे विष्णो वितर विक्रमस्व विशिष्टतरं पराक्रमं कुरु शीघ्रं वृत्रं जहीति । तथाविधौ हे इन्द्राविष्णू अस्मादभीष्टं संपादयतामिति तात्पर्यार्थः ।
अत्र विनियोगसंग्रहः —
प्र सो त्रैधातवीयेष्टौ द्वे धाम्ये अग्न इत्यसौ ।
तत्रैव परिधानीया ह्यनुवाक्या समित्यसौ ॥
उभेति याज्या त्रीणीति संयाज्यास्तिस्र ईरिताः ।
इन्द्रानुवाक्योत याज्या दश मन्त्रा इहोदिताः ॥
द्वितीयप्रपाठके एकादशोऽनुवाकः ॥११ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्वतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयः प्रपाठकः ॥२ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
समाप्तश्च प्रपाठकः ॥
……………………………………………………………………………………………………………
प्रश्नः-3