प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.11.1 TS 3.2.11.1
प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः । यस्य॒ त्वꣳ स॒ख्यमावि॑थ ॥ प्र होत्रे॑ पू॒र्व्यं ॅवचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योतीꣳ॑षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ॥ अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन्न् ॥ सं ॅवा॒म् कर्म॑णा॒ समि॒षा - [ ]
पदपाठः (Word-by-word)
प्रेति॑ । सः । अ॒ग्ने॒ । तव॑ । ऊ॒तिभि॒रित्यू॒ति - भिः॒ । सु॒वीरा॑भि॒रिति॑ सु - वीरा॑भिः । त॒र॒ति॒ । वाज॑कर्मभि॒रिति॒ वाज॑कर्म - भिः॒ ॥ यस्य॑ । त्वम् । स॒ख्यम् । आवि॑थ ॥ प्रेति॑ । होत्रे᳚ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये᳚ । भ॒र॒त॒ । बृ॒हत् ॥ वि॒पामिति॑ वि - पाम् । ज्योतीꣳ॑षि । बिभ्र॑ते । न । वे॒धसे᳚ ॥ अग्ने᳚ । त्री । ते॒ । वाजि॑ना । त्री । स॒धस्थेति॑ स॒ध - स्था॒ । ति॒स्रः । ते॒ । जि॒ह्वाः । ऋ॒त॒जा॒तेत्यृ॑त - जा॒त॒ । पू॒र्वीः ॥ ति॒स्रः । उ॒ । ते॒ । त॒नुवः॑ । दे॒ववा॑ता॒ इति॑ दे॒व - वा॒ताः॒ । ताभिः॑ । नः॒ । पा॒हि॒ । गिरः॑ । अप्र॑युच्छ॒न्नित्यप्र॑ - यु॒च्छ॒न्न् ॥ समिति॑ । वा॒म् । कर्म॑णा । समिति॑ । इ॒षा ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः) ।

प्रतिनिर्ग्राह्यमन्त्रास्तु दशमे परिकीर्तिताः ।

अथैकादशे त्रैधातवीयेष्टिविषया मन्त्रा उच्यन्ते ।

कल्पः — “प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधान्तग्ने त्रीते वाजिना त्री षधस्थेति त्रिवत्या परिदधाति सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये उत्तरे संयाज्ये” इति । धाय्ययोः प्रथमामाह —

प्र सो अग्न इति । हेऽग्ने यस्य यजमानस्य त्वं सख्यमाविथ सखिवत्स्नेहं पालितवानसि स यजमानस्तवोतिभिः पालनैः प्रकर्षेण तरति संसारक्लेशमतिवर्तते । कीदृशीभिरूतिभिः । सुवीराभिः । शोभनपुत्राद्यापत्यहेतुभिः । वाजकर्मभिः, अन्न निमित्तानि कर्माण्युद्योगा यासामूतीनां ता वाजकर्माणस्ताभिः । द्वितीयां धाय्यामहा —

प्र होत्र इति । हे ऋत्विजो यूयमग्नये वचः स्तुतिरूपं वाक्यं प्रकर्षेण भरत पोषयत । कीदृशं वचः । पूर्वैर्ऋषिभिः पठितं ब्रहत्प्रौढं विपां विशेषेणास्माकं पालकम् । कीदृशायग्नये । होत्रे होमनिष्पादकाय । वेधसेऽस्मद्धितस्य विधात्रे । अग्नेर्दृष्टान्तः- ज्योतिषि विभ्रते नेति । यथा रश्मिरूपाणि ज्योतिषि धारयित्रे सूर्याय स्तुतिं कुर्वन्ति तद्वदित्यर्थः । अथ परिधानीयामाह —

अग्ने त्री त इति । हेऽग्ने ते तव त्री वाजिना त्रयः पुरोडाशा भवन्तीति तस्यामिष्टौ विहितत्वात्त्रीण्यन्नानि यद्वा सोमौषधिसांनाप्यरूपाणि त्रीणि । तथा त्री शधस्था सहस्थानानि त्रीणि परस्परयुक्तानि लोकत्रयरूपण्याहवनीयगार्हपत्यदक्षिणाग्निरूपाणि वा । हे ऋतजात *ऋताज्ज्ञानात्मनः समुत्पन्न ते तव पूर्वीः पूर्वसिद्धा जिह्वास्रिस्र सात्त्विकराजसतामसरूपा इष्टप्राप्त्यनिष्टपरिहाराभिचारहेतव उ अपि च देववाता देवैर्वाताः प्राप्तास्ते तव तनुवस्तिस्रस्ताभिस्तनूभिरग्नि विद्युदादित्यरूपाभिर्नोऽस्मान्पाहि । किं कुर्वन् । गिरो अप्रयुच्छन्नस्मदीयाः स्तुतिरप्रमादयन्नस्माभिः कृतं प्रमादं परिहरन्नित्यर्थः । अथ पुरोनुवाक्या--

सं वां कर्मणेति । हे इन्द्राविष्णू वा युवामनेन कर्षणा संहिनोमि सम्यक्प्रीणयामि । इषा हविर्लक्षणेनान्नेन च संहिनोमि । किंनिमित्तमिति तदुच्यते अस्यापसः पारेऽनुष्ठीयमानस्य कर्मणः पारनिमित्तमविघ्नेन परिसमाप्त्यर्थम् । किंच, अस्मदीयमिमं यज्ञं जुषेथामस्मभ्यं च द्रविणं संपादयतः । किं कुर्वन्तौ । अरिष्टैर्नः । पथिमिः पारयन्ता विनाशरहितैरनुष्ठानमार्गैरस्मान्कर्मणः पारं प्रापयन्तौ । अथ याज्यामाह —

उभा जिग्यथुरिति । हे विष्णो, इंद्रश्च त्वं चोभो जियथर्जयं प्राप्तवान्तौ न पराजयेथे कदाऽपि पराजयं न प्राप्नुथः । एनोरनयोरुभयोर्मध्ये कतरश्चना न्यतरोऽपि न पराजिग्ये पराजयं न प्राप्तवान् । यद्यदा युवामुभावपस्पृधेयां स्पर्धां कुर्यातां त्वं तत्तदा सहस्रं दक्षिणारूपेण दातव्यं गोसहस्रं त्रिधा विभज्यैरयेथां नीतवन्तौ । अयं च विभागः सप्तमकाण्डे स्पष्टमाम्नातः ।

अथ स्विष्टकृतः पुरोनुवाक्यरूपां संयाज्यामाह —

त्रीण्यायूऽषीति । हे जातवेदस्तावाऽऽयूंषि आयुर्वृद्धिकारणानि हर्वींषि सोमसांनाय्यपुरोडाशरूपेण त्रीणि । हेऽग्ने ते तवोषस उषःकालसदृश्य आजा नीराविर्भावरूपा ज्वालास्तिस्र आहवनीयादिषु त्रिषु स्थानेषु त्रिविधास्ताभिर्ज्वालाभिर्देवानामवो रक्षकं हविर्विद्वान्यक्षि यज । अथानन्तरं यजमानाय शं भव सुखप्रदो भव । मोर्भव दुःखवियोजको भव । अथ स्विष्टकृतो याज्यारूपां संयाज्यामाह —

ऋतासत्यात्परमात्मन इति ख. पुस्तकस्थपाठन्तरम् । अग्निस्रीणीति । कविर्विद्वानयमाग्निर्विदथेषु यज्ञेषु त्रीणि हवींष्याक्षेति सर्वतः प्राप्नोति । “त्रयः पुरोडाशा भवन्ति” इत्युक्तत्वाद्धविषां त्रित्वम् । कीदृशानि त्रीणि हवींषि । त्रिधातूनि ‘उत्तरउत्तरो ज्यायान्भवति” इत्युक्तत्वात्रिप्रकारांणि । सोऽग्निरिहास्मिन्कर्मण्येकादशभिर्देवैरुपेतांस्त्रीन्गणांस्तर्पयत्विति शेषः । मे देवा दिव्येकादश स्थ” इत्यनुवाके गणत्रयं विस्पष्टमाम्नातम् ।

अथ तत्रैव विकल्पितरूपां संयाज्यामाह —

यक्षच्चेति । अग्निर्देवानां दूत आसीदित्युक्तत्वाद्दूतरूपोऽयमग्निर्यक्षञ्च देवान्यक्षतु च । ब्राह्मणजात्यभिमानित्वाद्विप्ररूपोऽयमग्निनोऽस्मान्पिप्रयञ्च प्रीणयतु च । ब्राह्मणजात्यभिमानित्वाद्विप्ररूपोऽयमग्निर्नोऽस्मान्पिप्रयच्च प्रीणयतु च । कीदृशोऽग्निः । परिष्कृतो दूतत्वचिन्हैरलंकृतः । अन्यशब्दः शत्रुवाची । कप्रत्ययः कुत्सितार्थे । समशब्दः सर्वशब्दपर्यायः । अन्यके समेऽस्मत्तोऽन्ये कुत्सिताः सर्वेऽपि नभन्तां नश्यन्तु ।

अथ प्रधानहविषो विकल्पितां पुरोनुवाक्यामाह —

इन्द्राविष्णू इति । हे इन्द्राविष्णू शम्बरनामकस्यासुरस्य संबन्धिन्यः पुरो नगरीः श्नथिष्टं युवा नाशितवन्तौ । कियतीर्नेगरीः । नव नवतिं च ।एकोनशतसंख्याका इत्यर्थः । कीदृशीः । दृहिता दृढाः । किंच, असुरस्य संबन्धिनो वर्चिनो दीप्तिमतः शतं सहस्रं च वीरान्प्रधानभूतानमात्यादीन्प्रति पक्षराहित्यं यथा भवति तथा साकं हथः ।

अथ तत्रैव विकल्पितां याज्यामाह —

उत मातेति । उत मातेन्द्रस्य देवस्य माता महिपं महान्तमिन्द्रमन्ववेनदनुक्रमेण ज्ञापितवतीत्यर्थः । कथं ज्ञापितवतीति तदुच्यते-हे पुत्रेन्द्र त्वयि शत्रून्हत्वा तूष्णीं स्थिते सति सर्वेऽप्यमी देवास्त्वां जहति परित्यजन्तीति । अथ मातृबोधानादूर्ध्वमिन्द्रो वृत्रं हनिष्यन्वधोद्युक्तो विष्णुं प्रत्येतदब्रवीत्-हे सखे विष्णो वितर विक्रमस्व विशिष्टतरं पराक्रमं कुरु शीघ्रं वृत्रं जहीति । तथाविधौ हे इन्द्राविष्णू अस्मादभीष्टं संपादयतामिति तात्पर्यार्थः ।

अत्र विनियोगसंग्रहः —

प्र सो त्रैधातवीयेष्टौ द्वे धाम्ये अग्न इत्यसौ ।

तत्रैव परिधानीया ह्यनुवाक्या समित्यसौ ॥

उभेति याज्या त्रीणीति संयाज्यास्तिस्र ईरिताः ।

इन्द्रानुवाक्योत याज्या दश मन्त्रा इहोदिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयप्रपाठके एकादशोऽनुवाकः ॥११ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्वतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयः प्रपाठकः ॥२ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अस्ति त्रैधातवीयेष्टिः । 'सर्वाणि छन्दांस्येतस्यामिष्ट्यामनूच्यानीत्याहुः' इति । तस्यां धाय्ये द्वे - प्र सो अग्ने इति प्रथमा ककुबुष्णिक्; द्वितीयस्य पादस्य द्वादशाक्षरत्वात् ॥ हे अग्ने तवोतिभिः रक्षाभिः । 'ऊतियूति' इति क्तिन उदात्तत्वं निपात्यते । सुवीराभिः शोभनपुत्राद्यपत्यहेतुभिः । 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । वाजकर्मभिः वाजस्यान्नस्य साधनानि कर्माणि भवन्ति यासु सतीषु तादृशीभिः त्वत्कर्तृकाभिरूतिभिः प्रतरति प्रकर्षेण तरति सामर्थ्याद्दुःखं संसारदुःखं वा स पुरुषः । कः? यस्य सख्यं समानख्यानतां समानभोजनतां तेन यष्टव्यतां त्वं आविथ आरक्षितवानसि गतवानित्यर्थः । 'थलि च सेटीडन्तो वा' इत्याद्युदात्तत्वम् ॥
2 अथ द्वितीया - प्र होत्र इति परोष्णिक्; तृतीयस्य द्वादशाक्षरत्वात् ॥ होत्रे दैव्यायाग्नये पूर्व्यं 'पूर्वैः कृतमिनयौ च' इति यत् । यादृशं पूर्वैः कृतं तादृशं बृहत् महत् वचस्तुतिलक्षणं प्रभरत प्रकर्षेण कुरुत । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । अग्निर्विशेष्यते - विपां विविधं रक्षितुं शीलवतां आदित्यचन्द्रग्रहादीनां ज्योतींषि बिभ्रते न बिभ्रत इव महातेजसे वेधसे विधात्रे विश्वस्य । बिभ्रतेश्शतरि 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम्, विपूर्वात्पातेः 'अन्येषामपि दृश्यते' इति विचि कृदुत्तरपदप्रकृतिस्वरत्वे आतो लोपे च कृते उदात्तनिवृतिस्वरेणाम उदात्तत्वम् । विदधेरसुनि नब्विषयत्वाभावादुदात्तत्वाभावः ॥
3 अथ तस्या एव परिधानीया - अग्ने त्रीति त्रिष्टुप् ॥ 'त्रिवत्या परि दधाति' इति च ब्राह्मणम् । हे अग्ने ते तव त्री त्रीणि वाजिना अन्नानि, अस्यामेवेष्टौ 'त्रयः पुरोडाशा भवन्ति' इत्युक्तत्वात् । यद्वा - सोमौषधिसान्नाय्यात्मना त्रित्वम् । 'शेश्छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । त्री त्रीणि सधस्था सधस्थानि पृथिव्यन्तरिक्षद्युलोकाः । 'सधमादस्थयोः' इति सधादेशः, सांहितिकं षत्वं छान्दसं, सुषामादित्वाद्वा । तिस्रस्ते तव जिह्वाः त्रिष्वपि स्थानेषु और्ववैद्युतादित्यात्मिकाः । हे ऋतजात यज्ञार्थं जात पूर्वीः चिरन्तन्यः चौरादिर्द्रष्टव्यः, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । तिस्र इति तिस्र एव तव तनुवः शरीराणि अग्निविद्युदादित्यात्मिकाः तिस्रस्तनवः अन्तस्स्थितस्य देवतात्मनः देववाताः देवैस्सर्वैरपि गताः अनुप्रविष्टाः सर्वदेवतामय इत्यर्थः । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । संभक्ता वा देवैः । परमप्यनुनासिकलोपं बाधित्वा 'अनुनासिकस्य क्विझलोः' इति दीर्घत्वं व्यत्ययेन प्रवर्तते, ततोनुनासिकलोपः । ताभिरनन्ताभिः नोस्माकं गिरः स्तुतिलक्षणाः पाहि रक्ष फलवतीः कुरु अप्रयुच्छन् अप्रमादयन् अविच्छेदेन अस्मान् यज्ञेषु प्रवर्तयन् । यद्वा - ताभिरस्मान्पाहि गिरो वा अस्मदीया अप्रयुच्छन्निति । युच्छ प्रमादे । यद्वा - ताभिस्सर्वैः वाजिनादिभिः । नपुंसकस्य शेषे प्राप्ते व्यत्ययेन स्त्रियाश्शेषः ॥
4 अथ तस्यामेव पुरोनुवाक्या - सं वामिति त्रिष्टुप् ॥ हे इन्द्राविष्णू कर्मणा शारीरेण प्रणिपातादिना मानसेन भक्त्यादिना वाचिकेन स्तुतिलक्षणेन वां युवां संहिनोमि संगच्छामि । हि गतौ, यद्वा - संप्रीणयामि । हिवि प्रीणने, व्यत्ययेन प्रत्ययः, अकारश्चान्तादेशः । इषा अन्नेन हविर्लक्षणेन संहिनोमीत्येव । किमर्थम् । अस्यापसः कर्मणः पारे पारनिमित्तं, पारस्समाप्तिः, अविघ्नसमाप्त्यर्थम् । 'षष्ठ्याः पतिपुत्र' इत्यादिना सत्वम् । युवामपि यज्ञमिमं जुषेथां सेवेथाम् । सेवित्वा च द्रविणं धनमस्माकं धत्तम् । अरिष्टैः अनुपहिंसितैः पथिभिर्मार्गैः नः अस्मान् पारयन्ता पारयन्तौ कर्मणः पारं प्रापयन्तौ । 'सुपां सुलुक्' इत्याकारः, पार तीर कर्मसमाप्तौ ॥
5 तत्रैव याज्या - उभेति त्रिष्टुप् ॥ हे विष्णो त्वं चेन्द्रश्च युवामुभा उभौ जिग्यथुः सर्वदा जयथ । छान्दसो लिट्, 'सन्लिटोर्जेः' इति कुवम् । न कदाचिदपि पराजयेथे अन्येन न जीयेथे । 'विपराभ्यां जेः' इत्यात्मनेपदम् । तथाहीत्याह - एनोरिति । एनयोरिन्द्राविष्ण्वोः । एनादेशे कृते व्यत्ययेन 'ओसि च' इत्येत्वाभावे अतो गुणे पररूपत्वम् । एनयोर्मध्ये कतरश्चन अन्यतरोपि न पराजिग्ये न पराजयते पराजयं न प्राप्तवान् । पूर्ववदात्मनेपदम् कुत्वं च । कदेत्याह - यत् यदा अपस्पृधेथां तदा उभा जिग्यथुः । 'अपस्पृधेथामानृचुः' इति लिङि द्विर्वचनं संप्रसारणं च निपात्यते । यद्वा - यत् यदा अपस्पृधेथां तत् तदा सहस्रं दक्षिणाः त्रेधा व्यैरयेथां त्रेधा सहस्रं व्यभजेथाम् । 'त्रेधा विभक्तं वै त्रिरात्रे सहस्रम्' इति । यद्वा - यदर्थं युवां स्पर्धेथे तत्सहस्रं बहुमतं हविः त्रेधा विभजेथाम् 'त्रयः पुरोडाशा भवन्ति' इति ॥
6 तस्यामेव याज्यास्तिस्रो विकल्प्यन्ते । तत्र प्रथमा त्रिष्टुप् । उत्तरे गायत्र्यौ । हे जातवेदः जातधन जातानां वा वेदितः तव त्रीण्यायूंषि अन्नानि त्रिषु स्थानेषु द्युवियदवनिषु आहुतितोयकाष्ठानि । किंच - हे अग्ने तव तिस्र आजानी आजानयः प्रादुर्भावाः सूर्यविद्युदग्निरूपेण । आङ्पूर्वाज्जनेरिङ् 'अजादिभ्यः' इति निप्रत्ययो वा । आत्वं छान्दसं, पूर्वसवर्णदीर्घत्वम् । किंच - उषसश्च तव तिस्र इत्येव त्रिप्रकारा इत्यर्थः । ताभिरनन्ताभिः उषोभिः सर्वैरनुक्रान्तैः आयुरादिभिः । पूर्ववद्व्यत्ययेन स्त्रियाश्शेषः । देवानां अवः तृप्तिं अन्नं वा हविर्लक्ष्णं यक्षि यज संगमय । यजेर्लेटि शपो लुक् । कर्मणर्स्संप्रदानत्वाद्देवानामिति चतुर्थ्यर्थे षष्ठी । विद्वान् तत्प्रकारज्ञः । अथ अनन्तरं च भव यजमानाय शं शमयिता रोगाणामागतानां योः यावयिता पृथक्कर्ता च भयानाम् । शाम्यतेः यौतेश्च विच् । 'निपातस्य च' इत्यथशब्दस्य दीर्घत्वम् ॥
7 अथ द्वितीया - अग्निस्त्रीणीति ॥ त्रीणि तानि द्युवियदवनिरूपाणि । कीदृशानि? त्रिधातूनि देवानां हविर्धारणपरंपरया सर्वस्य लोकस्य त्रिधात्वात्मकानि । आक्षेति आगच्छति आवसति वा अग्निः । 'त्रयः पुरोडाशा भवन्ति त्रय इमे लोका एषां लोकानामाप्त्या उत्तरौत्तरो ज्यायान्भवत्येवमिव हीमे लोका यवमयो मध्ये' इति त्रि प्रकारत्वं तेषाम् । त्रिचक्रादित्वादुत्तरपदाद्युदात्तत्वम्, क्षि निवासगत्योः, शपो लुक् । विदथा विदथेषु यज्ञेषु । विदेरथच्प्रत्ययः, 'सुपां सुलुक्' इत्याकारः । स त्रीनप्येकादशान् गणान् इह पृथिवीस्थाने एव तत्तत्स्थानस्थितानाक्षेति च । 'ये देवा दिव्येकादश स्थ' इत्युक्तत्वात् 'त्रिंशत्रयश्च गणिनः' इति । उभयत्रापि 'दीर्घादटि समानपादे' इति रुत्वम्, अनुनासिकश्च । एकादशपूरणा एकादशाः । कविः क्रान्तदर्शनः नोस्माकं अभिप्रेतं साधयत्विति ॥
8 अथ तृतीया - यक्षदिति ॥ यक्षत् यजतु देवान् । यजेर्लेटि 'सिब्बहुलं लेटि' इति सिप् । पिप्रयच्च तर्पयतु च नः अस्मान्, सम्यम्यागनिर्वृत्त्या देवांश्च । प्रीञ् तर्पणे, लेटि शपश्श्लुः, 'लेटोडाटौ' इत्यडागमः, समानवाक्ये निघातविधानेन पदात्परत्वाभावान्निघाताभावः । विप्रः मेधावी अग्निः दूतः देवानां परिष्कृतः अङ्गीकृतः समवेतो वा । 'संपर्युपेभ्यः' इति, 'समवाये च' इति सुट्, गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अन्यके अरयः । कुत्सायां कः । समे सर्वेऽप्यस्मदीयाः नभन्तां नश्यन्तु । नभ हिंसायां, व्यत्ययेन शबात्मनेपदत्वम् । 'समसिमेत्यनुच्चानि ' ॥
9 पुनरपि हविषः पुरोनुवाक्या, याज्या च विकल्पार्थे - इन्द्राविष्णू इति त्रिष्टुभौ ॥ तत्र पुरोनुवाक्या - हे इन्द्राविष्णू युवां शम्बरस्य असुरस्य नव नवतिं च पुरः नगरीः दृंहिताः दृढाः श्नथिष्टं नाशितवन्तौ । श्नथ हिंसायां, लुङि 'बहुलं छन्दसि' इत्यडभावः । किञ्च - तासु वर्चिनः दीप्तिशीलान् शतं सहस्रं च असुरस्य शम्बरस्य वीरान् प्रधानभूतान् साकं एकेन प्रहारेण हथः नाशितवन्तौ युवाम्, अप्रति अप्रतिपक्षौ यथा भवति तथा । 'नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । एवं महाप्रभावौ युवां अस्मदभिप्रेतं साधयतमिति ॥
10 अथ याज्या - उतेति ॥ उत अपि च माता देवमाता महिषं महनीयं महान्तं वा पुत्रं अन्ववेनत् अनुक्रमेण उद्दीपितवती ज्ञापितवतीत्यर्थः । माता विज्ञापितवती स्वयं च ज्ञातवानित्यर्थः । वेनतिः कान्तिकर्मा । अथ माता पुत्रमब्रवीत् - हे पुत्र अमी देवाः त्वां जहति त्यजन्ति त्वया तूष्णीमास्यते इति । अथानन्तरं विदितार्थाभिमुखो भूत्वा पुत्रं हनिष्यन् इन्द्रो विष्णुमब्रवीत् । एवं विदितार्थं वा विष्णुं इन्द्रोब्रवीत् । किमब्रवीत्? हे सखे विष्णो वितरं विक्रान्ततरं विक्रमस्व जहि शिघ्रं शत्रुमिति । 'अमु च छन्दसि' इत्यमुप्रत्ययः । तौ वाऽस्मदभिमतं साधयतमिति । एवं शत्रुमारणख्यापनप्रधानमिदं युगळं अभिचरतोभिचर्यमाणस्य वा युक्तमिति लक्ष्यते यथा - 'त्रैधातवीयेन यजेताभिचरन्' इत्यादि ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीयकाण्डे द्वितीयप्रश्ने एकादशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

……………………………………………………………………………………………………………

प्रश्नः-3