प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.4.1 TS 3.2.4.1
स्फ्यः स्व॒स्तिर्वि॑घ॒नः स्व॒स्तिः पर्.शु॒र्वेदिः॑ पर॒शुर्नः॑ स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ्॒कृतः॑ स्थ॒ ते मा॒स्मिन् य॒ज्ञ् उप॑ ह्वयद्ध्व॒मुप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येता॒मुपा᳚ऽऽ*स्ता॒वः क॒लशः॒ सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑ य॒ज्ञ् उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्तां॒ नमो॒ऽग्नये॑ मख॒घ्नेम॒खस्य॑ मा॒ यशो᳚ऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै म॒खो - [ ]
पदपाठः (Word-by-word)
स्फ्यः । स्व॒स्तिः । वि॒घ॒न इति॑ वि - घ॒नः । स्व॒स्तिः । पर्.शुः॑ । वेदिः॑ । प॒र॒शुः । नः॒ । स्व॒स्तिः ॥ य॒ज्ञियाः᳚ । य॒ज्ञ्॒कृत॒ इति॑ यज्ञ्-कृतः॑ । स्थ॒ । ते । मा॒ । अ॒स्मिन्न् । य॒ज्ञे । उपेति॑ । ह्व॒य॒द्ध्व॒म् । उपेति॑ । मा॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚-पृ॒थि॒वी । ह्व॒ये॒ता॒म् । उपेति॑ । आ॒स्ता॒व इत्या᳚ - स्ता॒वः । क॒लशः॑ । सोमः॑ । अ॒ग्निः । उपेति॑ । दे॒वाः । उपेति॑ । य॒ज्ञ्ः । उपेति॑ । मा॒ । होत्राः᳚ । उ॒प॒ह॒व इत्यु॑प-ह॒वे । ह्व॒य॒न्ता॒म् । नमः॑ । अ॒ग्नये᳚ । म॒ख॒घ्न इति॑ मख-घ्ने । म॒खस्य॑ । मा॒ । यशः॑ । अ॒र्या॒त् । इति॑ । आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । उपेति॑ । ति॒ष्ठ॒ते॒ । य॒ज्ञ्ः । वै । म॒खः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)
अथ तृतीयाष्टके तृतीयप्रपाठके चतुर्थोऽनुवाकः ।

कल्पः “स्फ्यः स्वस्तिरित्यत्करे वेदिकरणानि परास्योपतिष्ठते” इति ।

पाठस्तु —

स्फ्यः स्वस्तिरिति । स्फ्यः खननहेतुः । विघनो भूमिघट्ट्नहेतुः । पशुं स्तृणादिच्छेदनहेतुः । परशुर्वृक्षादिच्छेदनहेतुः । तत्रायं स्फ्यः स्वस्तिरविनाशहेतुरस्तु । एवमितरेष्वपि योज्यम् । एतैः स्फ्यादिभिर्निष्पन्ना वेदिरपि नोऽस्माकं स्वस्तिरस्तु । हे स्फ्यादयो यूयं यज्ञिया यज्ञार्हा अतोऽत्र यज्ञकृतः स्थ यज्ञसंपादका भवतु । ते यूयं मामस्मिन्यज्ञ उपह्रयध्वमनुजानीत ।

कल्पः- “उप मा द्यावापृथिवी इति द्यावपृथिवी उपाऽऽस्ताव इति बहिष्पवमानास्तावं कलश इति कलशंसोम इति सोममग्निरित्यग्रिमुप देवा इति देवानुप यज्ञ इति यज्ञमुप मा होत्रा इति होत्रकान्ह्वयतां ह्वयन्तां ह्वयतामिति यथालिङ्गं सर्वत्रानुषजति” इति । एतेषां पाठस्तु —

उप मेति । इमे द्यावापृथिव्या मामपह्वयेतां मामनुजानीताम् ।अयमास्तावो बहिष्पवमानदेशः । अत्र यथायोगमनुषङ्गद्योतनाययोपशब्दः प्रयुक्ता । एवं द्रोणकलशादिषु । योज्यम् तत्र तत्रोशब्दश्चानुषङ्गद्योतनाय प्रयुक्तः । उपषह्वयतेऽस्मिन्नित्युपहवो यज्ञस्तस्मिन्यज्ञे प्रशास्तृब्राह्मणाच्छंस्यादयो होत्रका मामुषह्वयन्ताम् । एतैर्मन्त्रैर्यथावद्यज्ञाङ्गत्मुपश्तातव्यम् ।

आहवनीयस्योपस्थानं विधत्ते —

नमोऽग्नय इति । नमस्कराभावे मखं यज्ञं हन्तीति मखहा तस्मै मखघ्नेऽग्नये नमोऽस्तु । तस्य प्रसादान्मखस्य यशो यज्ञानुष्ठानकीर्तिर्मामर्यात्प्राप्नोतु । अस्मिन्मन्त्रे मखशब्देन यज्ञ उच्यते । यज्ञमेव सोऽग्निस्तदा हन्ति यदा नमस्कारो न क्रियते । अतस्तस्मा एव नमस्कृत्य सदःप्राप्तौ सत्यां यजमानशरीरस्याऽऽर्तिर्न भवति ।

यदुक्तं सूत्रकारेण — “नमोऽग्नये मखघ्न इत्याहवनीयं नमो रुद्राय मखघ्न इत्याग्नीघ्नं नम इन्द्राय मखघ्न इति होत्रीयम्’ इति ।उपतिष्ठत इत्यनुवर्तते ।

तत्राऽऽहवनीयोपत्थानं विधायाऽऽग्नीघ्रस्योपस्थानं विधत्ते —

नमो रुद्रायेति । आग्नीघ्रीये धिष्णियेऽवस्थितोऽग्निर्मखहा रुद्रस्तस्मै रुद्राय नमोऽस्तु । अनया नमस्कृत्या हे रुद्र मां पाहीत्यनेन मन्त्रेणाऽऽग्नीध्रम ग्निमुपतिष्ठेत । तस्मा इत्यादि पूर्ववत् । अथ होत्रीयस्य धिष्णियस्योपस्थानं विधत्ते —

नम इन्द्रायेति । परमेश्वर्ययोगाद्धोत्रीयो धिष्णियोऽग्निरिन्द्रो यज्ञघातो तस्मै नमोऽस्तु हे इन्द्र मदीयमिन्द्रियं वीर्यं च मा विनाशय । अनेन मन्त्रेण होत्रीस्योदस्थाने सत्याशिषमेव प्रार्थितवान्भवति । सा चाऽऽशीरिन्द्रियस्य वीर्यस्याविनाशाय संपद्यते । उक्तमन्त्रत्रयोपस्थानं प्रशंसति —

या वै देवता इति । अग्निरुद्रेन्द्ररूपा या देवताः सदस्यवस्थितयजमात्रादीनार्तिं प्रापयन्ति यो यजमानस्तत्कृतं विद्वांस्ता देवताः प्रसर्पति नमस्कारेण भजतेऽसौ सदसि प्रविष्टोऽ प्याति न प्राप्नोति । तस्मान्नमोऽग्नय इत्यादीन्पूर्वोक्तान्मन्त्रान्पठेत् ।

कल्पः – ‘दृढे स्थः शिथिरे समाचा इति द्यावापृथिवी उपतिष्ठते सूर्यं वायुमग्निं यप्रं सरस्वतीं सदसो द्वारापिति पातं पात्विति यथालिङ्गं सर्वत्रानुषजति’ इति । ततः (त्र) प्रथममन्त्र पाठस्तु —

दृढे स्थ इति । हे द्यावापृथिवी उपस्थानरहितं प्रति शिथिले अपि युवामुपस्थतारं प्रति समीची अनुकूले सत्यौ दृढे स्थः । अत उपस्थातारं मां प्रतिबन्धकादंहसः पातम् । द्वितीयमन्त्रपाठस्तु---

सूर्यो मेति । द्युलोकविपयान्मया कृतादंहसो मां सूर्यो देवः पातु ।

उत्तरमन्त्रपाठस्तु---

वायुरिति । वाय्वग्नियमसरस्वतीमन्त्रेषु पात्वित्त्वनुषञ्जनीयम् । हे द्वाररूपे देव्यावु स्थातारं मां युवां मा संताप्तामिति संतापयुक्तं मा कुरुतम् ।

नमः सदस इति । कल्पः — “नमः सदस इति सदो नमः सदसस्पतय इति ब्रह्माणं नमः सखीनां पुरोगाणामित्यृत्विजो नमो दिवे नमः पृथिव्या इति द्यावापृथिवी उपस्थाय” इति ।

तृतीयमन्त्रान्ते चक्षुष इतीदमान्नातम् । ऋत्विजो यजमानस्य सखायस्तीयकार्यनिष्पादकत्वात् । ते च स्वस्वऽयापारे पुरतो गच्छन्तीति पुरोगास्तेषां चक्षुषे चक्षुःस्थानीयाय स्वस्वप्रयोगाभिज्ञाय नमः ।

कल्पः “अहे दैधिव्येत्यायतनात्तृणं निरस्य” इति ।

औदुम्बर्या दक्षिणभागो यजमानस्याऽऽयतनम् । अत एव सूत्रकार आह — “अपरेण ब्रह्मसदनं यजमानायतनम्” इति । पाठस्तु —

अहे दैधिपव्येति । धारणसमर्थं स्थानं इदिधिषुस्तत्रोत्पन्नत्वाद्दैधिषव्यत्वम् । अहिशब्दस्तृणलक्षकः । सर्पवदुपद्रवकारित्वात् । यजमानायतने सदुत्पन्न हे तृण त्वमतोऽस्यात्स्मानादुत्तिष्ठ । योऽन्यः पुरुषोऽस्मत्पाकतरो बालतरोऽप्रबुद्धस्तस्यान्यस्य सदने स्थाने तिष्ठ ।

उन्निवत इति । कल्पः- “उन्निवत उदुद्वतश्च गेषमित्युपविशति” इति । ये पुरुषा मत्तो न्यग्भूतास्त निवन्तो न्यग्मूतेषु निशब्दस्य विद्यमानत्वात् । तान्पुरषानहमुद्रेषमुद्वतोऽस्मि । येऽपि मत्त उद्गतास्ते पुरुषा उद्वन्त उच्छ्रितेषूच्छब्दस्य विद्यमानत्वात् । तानप्यहमुद्गेषल्लङ्व्योपरि गम्यासम् ।

पातं मेति । कल्पः — “पातं मा द्यावापृथिवी अद्याह्न इत्युपविश्य जपति” इति । अद्यास्मिन्दिवसे यदिदमहःशब्दावाच्यमग्निष्टोमानुष्ठानं तस्मान्मां हे द्यावापृथिव्यौ पातं तस्मिन्नहनि वैकल्पं यथा न भवति तथा रक्षतमित्यर्थः ।

यदुक्तं सूत्रकारेण — “आगन्त पितरः पितृमानिति दक्षिणार्धं परेक्षते” इति । तदेतद्विधत्ते —

सदो वा इति । सदः प्रसर्पन्तं यजमानमनु पितरः प्रसर्पन्ति तं यजमानमनमस्कृताः पितरो हिंसितुं प्रभवन्ति । अतः सदसो दक्षिणभागमवेक्षमाण आयन्तेत्यामिमन्वं पठेत् । हे पितर आगन्त नः सदसः स्थानमागच्छत । आगतर्युष्माभिरहं पितृमान्भूयासं यूयं च मया सुप्रजसः शोभनापत्ययुक्ता भूयास्त । अनेन मन्त्रेण पितृणां नमस्कृतत्वाद्यजमानस्याऽऽ र्तिर्न भवति ।

अत्र विनियोगसंग्रह —

स्फ्य उत्करे परिक्षिप्तं स्फ्यं तत्रेवोपतिष्ठते ।

उप द्युभूमी अन्येषूप मा इत्यनुषज्यते ॥

आस्ता चेति स्तोत्रदेशं कलेति द्रोणकुम्भकम् ।

सोमः सोमं चाग्निरग्निमुप देवेति देवताः ॥

उप यज्ञेति यज्ञं तमुप मेति तु होत्रकान् ।

नमस्त्रयविधिः स्पष्टो दृढे स्थो द्युभुवौ भजेत् ॥

सूर्यः सूर्यं वायुर्वायुं पात्वित्येषोऽनुषज्यते ।

अग्निर्यमः सेरत्येतान्दे द्वारौ सदसो भजेत् ॥

सदो ब्रह्मा चर्त्विजो द्यौर्भूर्नमःपञ्चभिः क्रमात् ।

अहे तृणं निरस्योन्नीत्युपविश्यात्र पा जपेत् ॥

आगन्त दक्षिणं पश्येन्मन्त्रा विंशतिरीरिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥४ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 स्फ्यविघनादि यजमानमुपस्थापयति - स्फ्यस्स्वस्तिरिति ॥ बृहतीविशेषोयम् 'बृहती द्वादशाक्षरा त्रयश्चाष्टाक्षरा' इति ॥ स्फ्यः स्वस्तिः अविनाशहेतुरस्माकमयम् । अयं स्वस्तिशब्दो निपातो गुणमात्रे अविनाशे वर्तते । सोयमिदानीं मतुब्लोपादभेदोपचाराद्वा शुक्लादिवद्गुणिन्यपि अविनाशहेतौ वर्त ते । विघनश्चास्माकं स्वस्तिः अविनाशहेतुः । विहन्यते भूमिरनेनेति विघनः । व्यत्ययेन अपि घत्वं च, थाथादिनोत्तरपदान्तोदात्तत्वम् । एवं पर्श्वादयः अविनाशहेतवः । पर्‌शुः पार्श्ववक्रः तृणादिच्छेदनः । परशुः वृक्षवृश्चनः । ते यूयं यज्ञिया यज्ञसंपादनार्हाः यज्ञकृतश्च स्थ यूयमेव यज्ञं संपादितवन्तस्स्थ । ते यूयं मां विशेषकरणार्थं अस्मिन् यज्ञे उपह्वयध्वं अनुजानीत यन्मया कर्तव्यं तदहमेव करोमि तदनुज्ञातुमर्हथेति । 'निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् ॥
2 द्यावापृथिवी उपतिष्ठते - उप मेति ॥ द्यावापृथिवी उप मा ह्वयेताम् । 'द्यावापृथिव्योर्हि यज्ञः' इति तदनुज्ञानं प्रार्थयते । द्यावापृथिव्योः स्वर उक्तः ॥
3 बहिष्पवमानास्तावमुपतिष्ठते - उपास्ताव इति ॥ ह्वयतामित्यनुषज्यते । उपास्तावो ह्वयतामिति । यत्र वचनभेदस्तत्रोपसर्गावृत्तिः ॥
4 द्रोणकलशमुपतिष्ठते - कलश इति ॥ शिष्टमनुषज्यते - उप मा कलशो ह्वयतामिति ॥
5 सर्वं सोममुपतिष्ठते - उप मा सोमो ह्वयतामिति ॥
6 अग्निमुपतिष्ठते - अग्निरिति ॥ उप माऽग्निर्ह्वयतामिति ॥
7 देवानुपतिष्ठते - उप देवा इति ॥ उप मा देवा ह्वयन्तामिति । पूर्ववद्वचनभेदादुपसर्गावृत्तिः ॥
8 यज्ञमुपातिष्ठते - उप यज्ञ इति ॥ उप मा यज्ञो ह्वयता-

मिति । पूर्ववदुपसर्गावृत्तिः ॥

9 होत्रकानुपतिष्ठते - उप मा होत्रा इति ॥ होत्रा धिष्ण्यवन्तः । 'सप्त होत्राः प्राचीर्वषट्कुर्वन्ति' इति । तेषामुपहवे ह्वयन्तामिति । उपहूयन्ते अस्मिन्नित्युपहवो यज्ञः । यद्वा - उपहवेऽनुज्ञाने कर्तव्ये यत्रयत्र उपहवमिच्छामि, तत्रतत्र मामुपह्वयन्तामिति ॥
10 अथाहवनीयस्य समन्त्रमुपस्थानं ब्राह्मणमेव विदधाति - नम इति ॥ अनया द्विपदया गायत्र्या आहवनीयमुपतिष्ठते । अथोपस्थाने कारणमाह - यज्ञो वा इत्यादि । सोग्निः तत् तदानीं सदःप्रसर्पणकाले अहन् आर्तिमार्पयति अनमस्कृतः । तस्मात् तस्मै नमस्कृत्य सदः प्रसर्पत्यात्मनोनार्त्यै यज्ञविनाशेन आत्मन आर्तिर्मा भूदिति । मन्त्रार्थस्तु - अग्नये मखघ्ने मखस्य यज्ञस्य अनमस्कारकारिणो नाशयित्रे तुभ्यं नमः । उदात्तनिवृत्तिस्त्वरेण चतुर्थ्या उदात्तत्वम् । मखस्य यशः फलं मा अर्यात्प्राप्नोतु तद्विघातश्च त्वया न कर्तव्य इति ॥
11 अथाग्नीध्रस्योपस्थानं विदधाति - नमो रुद्रायेति ॥ आग्नीध्रमुपतिष्ठते इत्येव । तस्मा इत्यादि । गतम् । मन्त्रार्थोपि गतः । नमस्कृत्या प्रणिपातेनानेन मां पाहि । ऊर्यादित्वेन नमसो गतित्वात् 'तादौ च निति' इति प्रकृतिस्वरत्वम् । अग्नीधश्शरणमाग्नीध्रम्, 'अग्नीधश्शरणे रण् भं च' ॥
12 अथ होत्रीयस्योपस्थानं विदधाति - नम इन्द्रायेति ॥ होत्रियमुपतिष्ठते इत्येव । होतुर्धिष्णियं होत्रीयम्, गहादित्वाच्छः । इन्द्रियं चक्षुरादिकं वीर्यं बलं मा निर्वधीः निष्कृष्य मा वधीः । एतामाशिषं मा निर्वर्धीः इत्याशास्ते इन्द्रियस्य वीर्यस्य चानिर्घाताय भवति । या वै देवता इत्यादि । आङ्पूर्वोयमृच्छतिर्विनाशे वर्तते । तत्र 'गोपोषं पुष्णाति' इतिवत् धात्वर्थसामान्यवचनो द्वितीय ऋच्छतिर्वेदितव्यः । आङ्पूर्वात् क्तिनः 'उपसगार्दृति धातौ इति वृद्धिः, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । एता 'देवता इत्यादि । एतन्मन्त्रनिर्दिष्टा अग्निरुद्रेन्द्रा इत्यर्थः । एता देवता विदित्वा यस्सदः प्रसर्पति स विद्वानार्तिं न प्राप्नोति, अविद्वांसं आर्तिं प्रार्पयन्तीति ॥
13 द्यावापृथिवी उपतिष्ठते - दृढे स्थ इति ॥ दृढे स्थिरे युवां स्थः भवतं शिथिरे मे सर्पणेन शिथिलिते अपि दृढे भवतम् । यद्वा - ममांहसः शिथिलयित्र्यौ । कपिलकादिः । समीची सम्यगञ्चनहेतू । 'चौ' इति पूर्वपदस्य दीर्घत्वं अन्तोदात्तत्वं च । तादृश्यौ युवामागच्छतम् । अंहसः पापात्पातं रक्षतम् ॥
14 सूर्यमुपीतष्ठते - सूर्य इति ॥ दिव्यात् दिवि भवात् प्रमादकृतात्पापात् सूर्यो देवो मां पातु ॥
15 वायुमुपतिष्ठते - वायुरिति ॥ पात्वित्यनुषज्यते । अन्तरिक्षात् अन्तरिक्षनिमित्तात् पापात् पातु ॥
16 अग्निमुपतिष्ठते - अग्निरिति ॥
17 यममुपतिष्ठते - यम इति ॥ पितृभ्यः पित्रपचारनिमित्तात्पापात्पातु ॥
18 सरस्वतीमुपतिष्ठते - सरस्वतीति ॥ मनुष्यद्रोहनिमित्तात्पापात्पातु ॥
19 पूर्वे द्वारौ सदसस्संमृशति - देवी इति ॥ हे देव्यौ द्वारौ मा मा सन्ताप्तं मा कार्ष्टम् ॥
20 सदः प्रपद्यते - नम इति ॥ 'ऐन्द्रं हि देवतया सदः' इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । 'षष्ठयाः पतिपुत्र' इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥
21 आसनाद्बहिस्सदसस्तृणं निरस्यति - अहे इति ॥ आगत्य हन्तीत्यहिः, अनिष्टकृत् । हे अहे तृण दैधिषव्य दिधिषु आसनधारणसमर्थम् । दधातेः कुप्रत्यये द्विर्वचनं, इषुगागमश्च निपात्यते, तस्यापत्यं दैधिषव्यम्; तत्प्रभवत्वात् । 'द्युप्रागवाक्' इति यत्प्रत्ययः । तादृशस्त्वं अतोस्मादासनादुत्तिष्ठ अन्यस्य सदने सीद मा अत्र स्थाः । कस्यान्यस्य? योस्मत् अस्मत्तः पाकतरः बालतरः अज्ञः तस्य सदने सीद माऽत्र सीद ॥
22 उपविशति - उदिति ॥ निवतः न्यग्गतान् येऽस्मत्तो न्यग्भूताः तानुद्गेषम् । किंच - उद्वतश्च येऽस्मत्तः उद्गता उद्भूताः, तानपि उद्गेषं उत्क्रम्योल्लङ्घ्य उपरि गम्यासम् । 'उपसर्गाच्छन्दसि धात्वर्थे' इति वतिः । इणः आशिषि लिङ्, आदेशश्छान्दसः, लिङ्याशिष्यङ्, अतो येयः, आर्धधातुकत्वात्सलोपाभावः ॥
23 द्यावापृथिव्यौ समीक्षते - पातमिति ॥ हे द्यावापृथिव्यौ मां पातं रक्षतं अद्याह्नः अस्मादह्नः । यद्वा - अस्मिन् कर्मणि अह्नः अहर्निमित्तात्पापात्पातं रक्षतम् । 'सद्यःपरुत्' इत्यादिना इदमोद्येति निपात्यते ॥
24 सद इत्यादि ॥ एनं हिंसितोः हिंसितुं पितरः ईश्वराः अनमस्कृताः । तस्मात्सदः प्रसृप्य दक्षिणार्धं परेक्षेत 'आगन्त' इत्यादिना यजुषा । ततस्तेभ्यो नमस्कृत्य प्रसर्पणं कृतं भवति आत्मन आर्त्यभावाय । मन्त्रार्थस्तु - हे पितरः आगन्त आगच्छत । शपो लुक्, 'तप्तनप्तनधनाश्च' इति तादेशः । युष्माभिरागतैः पितृमानहं भूयासं, यूयमपि मया युष्मदागमनोपलब्धसाधुत्वेन सुप्रजसो भूयास्तेति । 'नित्यमसिच्प्रजामेधयोः' इति समासान्तोसिच् ॥
इति तृतीये द्वितीये चतुर्थोनुवाकः ॥