दे॒वताः॒ सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान् प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वताः॒ सद॒स्यार्ति॒माऽर्प॑यन्ति॒ ता य ए॒वं ॅवि॒द्वान् प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति द्दृ॒ढे स्थः॑ शिथि॒रे स॒मीची॒ माऽꣳह॑सस्पातꣳ॒॒ सूर्यो॑ मा दे॒वो दि॒व्यादꣳह॑सस्पातु वा॒युर॒न्तरि॑क्षा - [ ]
पदपाठः (Word-by-word)
दे॒वताः᳚ । सद॑सि । आर्ति᳚म् । आ॒र्पय॒न्तीत्या᳚ - अ॒र्पय॑न्ति । यः । ताः । वि॒द्वान् । प्र॒सर्प॒तीति॑ प्र - सर्प॑ति । न । सद॑सि । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । नमः॑ । अ॒ग्नये᳚ । म॒ख॒घ्न इति॑ मख - घ्ने । इति॑ । आ॒ह॒ । ए॒ताः । वै । दे॒वताः᳚ । सद॑सि । आर्ति᳚म् । एति॑ । अ॒र्प॒य॒न्ति॒ । ताः । यः । ए॒वम् । वि॒द्वान् । प्र॒सर्प॒तीति॑ प्र - सर्प॑ति । न । सद॑सि । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । दृ॒ढे इति॑ । स्थः॒ । शि॒थि॒रे इति॑ । स॒मीची॒ इति॑ । मा॒ । अꣳह॑सः । पा॒त॒म् । सूर्यः॑ । मा॒ । दे॒वः । दि॒व्यात् । अꣳह॑सः । पा॒तु॒ । वा॒युः । अ॒न्तरि॑क्षात् ।