पि॒तरोऽनु॒ प्रस॑र्पन्ति॒ त ए॑नमीश्व॒रा हिꣳसि॑तोः॒ सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्द्धं परे᳚क्षे॒ताऽग॑न्त पितरः पितृ॒मान॒हं ॅयु॒ष्माभि॑र्भूयासꣳ सुप्र॒जसो॒ मया॑ यू॒यं भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्रस॑र्पत्या॒त्मनोऽना᳚र्त्यै ॥
पदपाठः (Word-by-word)
पि॒तरः॑ । अनु॑ । प्रेति॑ । स॒र्प॒न्ति॒ । ते । ए॒न॒म् । ई॒श्व॒राः । हिꣳसि॑तोः । सदः॑ । प्र॒सृप्येति॑ प्र - सृप्य॑ । द॒क्षि॒णा॒र्द्धमिति॑ दक्षिण - अ॒र्द्धम् । परेति॑ । ई॒क्षे॒त॒ । एति॑ । अ॒ग॒न्त॒ । पि॒त॒रः॒ । पि॒तृ॒मानिति॑ पितृ - मान् । अ॒हम् । यु॒ष्माभिः॑ । भू॒या॒स॒म् । सु॒प्र॒जस॒ इति॑ सु-प्र॒जसः॑ । मया᳚ । यू॒यम् । भू॒या॒स्त॒ । इति॑ । तेभ्यः॑ । ए॒व । न॒म॒स्कृत्येति॑ नमः-कृत्य॑ । सदः॑ । प्रेति॑ । स॒र्प॒ति॒ । आ॒त्मनः॑ । अना᳚र्त्यै ॥