पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः) ।
स्फ्याद्युपस्थानमन्त्रा ये ते चतुर्थे समीरिताः ।
अल्पः – भक्षेहीति भक्षमाह्रियमाणं प्रतीक्ष्य” इति । पाठस्तु —
भक्षेहि मेति । हे भक्षयोग्य सोमरस त्वं दीर्घायुत्वादिसिद्ध्यर्थमागच्छ मां प्रविश । सुखकारित्वं देहे शंतनुत्वम् । हे वसो निवासहेतोऽस्मान्वासयितुमागच्छ । हे पुरोवसो वासयितॄणां धनदीनां मध्ये प्रथमं वासयितृत्वान्मे हृदो मम चित्तस्य प्रियोऽसि ।
अश्विनोरिति । कल्पः — ‘अश्विनोस्त्वा बाहुभ्या सध्यासमिति प्रातिगृह्य” इति ।
हे भक्षाश्विनोर्देवानां भिषजोर्बाहुभ्यां त्वा सध्यार्स गृह्णामि ।
कल्पः — “नृचक्षसं त्वा देव सोमेत्यवेक्ष्य “इति । पाठस्तु —
नृचक्षसमिति । हे सोम नृचक्षसं नृश्चेष्टे पश्यति तादृशं त्वां सुचक्षाः सुष्ठु द्रष्टाऽहमवख्येषमवेक्षे ।
कल्पः – “मन्द्राभिभूतिरिति पातःसवने सर्वानैन्द्रान्भक्षयति नराश सपतिस्येति नाराशसान्रुद्रवद्गणस्येति माध्यंदिन सवने सर्वानन्द्रान्भक्षयवि नराशसपतिस्येति नाराशसानादित्यवद्गणस्येति तृतीयसवने सर्वानन्द्रान्भक्षयति नराशसपीतस्येति नाराशसान्यदन्यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजत्यप्यन्यदे (दै) वतानिन्द्रपतिस्येति यथादेवतं वा” इति ।
अत्र नाराशंसनामकानां चमसानां लक्षणं सूत्रकारेणैव दर्सितम- “भक्षिता नाप्याययन्त्याप्यायस्व समेतु न इति ते नाराशंसाः” इति । पाठस्तु —
मन्द्राऽभिभूतिरिति । मुखस्थिता वाग्देवता सोमस्य जुषाणा सोमं सेवमाना तुप्यतु । कीदृशी वाक् । मन्द्रा हर्षहेतुः । अभिभूतिर्विन्धानामभिभवित्री । यज्ञानां केतुः करणभूता । आदरार्थं पुनरपि मन्द्रेत्यादिना प्रार्थ्यते । मन्द्रा हर्षहेतुः । स्वर्वाची सुष्टु आभिमुख्येन वर्तमाना । अदितिरण्डनीया अनाहतशीर्ष्णी । शिरःशब्देन प्राधान्यात्प्रारम्भो लक्ष्यते । अप्रतिबुद्धप्रारम्भेत्यर्थः । वागित्यादि पूर्ववत् । चर्षणयो मनुष्याः विश्वे चर्षणयः स्वभूता यस्यासौ विश्वचर्षणिः । तथाविध हे सोमेह्यागच्छ । कीदृशः सोमः । शंभुः शान्तेर्भावयिता । मयोभूः सुखस्य भावयिता । तादृशः सन्नित्यन्वयः । हे हरिवर्ण हरिद्वर्ण स्वस्ति मा प्रचर यथा वान्तिरुपो विनाशो न भवति तथा मां प्रविश । किमर्थं क्रत्वादिसिद्ध्यर्थम् । दक्ष उत्साहः । हे राजन्मां वान्त्युपद्रवेण मा वीबीभिषो विशेषेण मा भीषय । हृदयपुण्डरीकेऽवस्थितं मनो हार्दि । तच्च मनस्त्विषा त्वदीय । या दीप्त्या मा वधीर्हिंसां मा कुरु । मनसि हिंसारहिते सति वृषादयः सिध्यन्ति । वृषेन्द्रियम् । शुष्मो बलम् । आयुर्दीर्घायुः । वर्चः कान्तिः । हे सोम देव ते तत्र संबन्धि यत्प्रातःसवं तस्य संबन्धी यो मधुमान्स इतरैरुपहूतोऽनुज्ञातः, तस्योपहूतस्याहमप्युपहतो भक्षयामि । कीदृशस्य ते । वसुमद्गणस्याष्टसंख्याका वसवो यस्मिन्गणे सोऽयं वसुमान् । तथाविधो गणो यस्य तव स त्वं वसुमद्गणस्तस्थाविधस्य । मतिविदः श्रद्धायुक्तानां यजमानानां मतिं वेत्तीति मतिवित्तस्य । कीदृशस्य प्रातःसवनस्य । गायत्रच्छन्दसो बहिष्पवमानादिषु मन्त्रेषु गायत्र्याख्यं छन्दो यस्य तद्गायत्रच्छन्दस्तस्य । इन्द्रपीतस्येन्द्रेण पीतः सोमो यस्मिन्सवने तदिन्द्रपीतं तस्य । नराशसपीतस्य पितृपीतस्येति पदद्वयं नराशंसचमसभक्षण एव प्रभोक्तव्यं नान्यत्रेत्येकः पक्षः । सर्वत्र पठितव्यमित्यपरः पक्षः । नरैः शास्यन्त इति । नराशंसाः पितृविशेषास्तैः पीतः सोमो यस्मिन्सवने तन्नराशंसपीतं तस्य । अयमेवार्थः पितृपीतस्येत्यनेन स्पष्टीकृतः । रुद्रवद्गणस्याऽऽदित्यबद्गणस्येत्येतावपि मन्त्रौ पूर्ववद्व्याख्येयौ । तत्रोभयत्र मन्द्रादिरनुषज्यते ।
कल्पः — “भक्षितानाप्यायमन्त्याप्यायस्व समेतु त इति ते नारशंसाः” इति । पाठस्तु —
आ प्यायस्वति । हे सोम त्वमाप्यायस्व सर्वतो वर्धस्व । ते तव वृष्णियं वीर्यं विश्वतः समेतु सर्वतः संगच्छताम् । त्वमपि वाजस्यान्नस्य संगथे संगमने निमित्तं भव ।
कल्पः — “हिन्व मे गात्रा हरिव इति भक्षयित्वा नाभिदेशानभिमृशन्ते” इति । पाठस्तु —
हिन्व मे गात्रेति । हे हरिवो हरितवर्ण सोम मे गात्रा ममाङ्गानि हिन्वप्रीणय मदीयान्गणादिसमूहान्मा वितीतृषः सोमपाने तृष्णारहितान्मा कुरु । किंतु सर्वदा तदिच्छान्कुरु । किंच, त्वं शिवो भूत्वा सप्तर्षिन्मूर्धाच्छिद्रसप्तकावस्थितान्मदीयान्प्राणानुपतिष्ठस्व । तर्पयेत्यर्थः । किंच मे मदीयां नाभिमतीत्य मा गा अधोद्वारेण मा निर्गच्छेत्यर्थः ।
कल्पः — “समित्पाणय उन्नेतारं पुरस्कृत्याप्रतीक्षमायनत्यपाम सोममिति महीयां वदन्तः” इति ।
अतः पूर्वोक्ताः सर्वे मन्त्रा ऋतुग्रहानुवाकात्पूर्वं द्रष्टव्याः । अपाम सोमं त्ययं तु मन्त्रोऽवभृथाङ्गत्वादुरु हि राजेत्यनुवाके प्रत्यस्तो वरुणस्य पाश इत्य स्मादुपरिष्टाद्द्रष्टव्याः पाठस्तु —
अपाम सोममिति । वयं सर्वे सोममपाम तेन पीतेनामृता देवा अभूम । आशंसाद्योतनाय भूतार्थनिर्देशः । ज्योतिरादित्यस्वरूपमदर्श्म दृष्टवन्तो देवानिन्द्रादीनविदाम लब्धवन्तः । ईदृशानस्मानरातिः पापरूपः शत्रुः किं कृणवत्किं करिष्यति । मर्त्यस्य मनुष्यशरीरधारिणो या धूर्तिर्हिंसा सेयममृत किमु अमृतानस्मान्किं नाम कस्ष्यिति अथवा धूर्तिरमृत, अस्माद्विषया हिंसा स्वयमेव नष्टा । सा तादृशी नोऽस्मान्बाधत इति किमु वक्तव्यम् । कल्पः —
“यन्म आत्मनो मिन्दाऽभूदिति मिन्दयाऽऽहवनीयमुपतिष्ठन्ते इति । पाठस्तु —
यन्म आत्मन इति । मे मम ऋत्विजो यदङ्गमात्मनो मिन्दाऽभूत्स्वरूपान्मिन्दितं हिंसितमभूत्, अग्निस्तदङ्गं पुनराहाराहरतु । कीदृशोऽग्निर्जातवेदा जातमुत्पन्नं यज्ञच्छिद्रं वेत्तीति जातवेदाः । विचर्षणिस्तत्पुनः समाधातुं विचक्षणः ।
तत्रैव विकल्पितं मन्त्रान्तरमाह — पुनरग्निरिति । यज्ञे यदङ्गं न्यूनं भवति तेन यजमानस्यैव चक्षुर्हीयते । “यज्ञं पराभवन्तं यजमानोऽनु पराभवति” इति श्रुत्यन्तरात् । अस्मादयमग्निर्यज्ञाङ्गसमाधानेन यजमानाय मह्यमेव चक्षुः पुनर्दत्तवान् । तथैवेन्द्रो बृहस्पतिश्च यज्ञाङ्गं समाधाय मदीयं चक्षुः पुनर्दत्तवन्तौ । अश्विनौ युवामव्यक्ष्योर्मदीयाक्ष्णोश्चक्षुर्दर्शनसामर्थ्यमाधत्तम् ।
कल्पः — “सर्वे हारियोजनं भक्षयन्तीष्टयजुषस्ते देव सोम” इति । पाठस्तु---
इष्टयजुष इति । हे सोम देव ते तव संबन्धिरसमुपहूतरैनुज्ञातैरनुज्ञातोऽहं भक्षयामि । कीदृशस्य ते, इष्टयजुष इष्टसाधनानि यागसाधनानि यजूंषियस्य सोऽयमिष्टयजुस्तस्य । स्तुताः स्तोमाः सामावृत्तिलक्षणानि स्तोत्राणि यस्य सोऽयं सुतस्तोमस्तस्य । शस्तानि शंसितान्युक्थानि शस्त्राणि यस्य सोऽयं शश्तोक्थस्तस्य । हरिर्हरितवर्णः । सोऽस्यास्तीति हरिवांस्तस्य । इन्द्रेण पतिस्तस्य । मधु माधुर्यमस्यास्तीति मधुमांस्तस्य । अन्यैरजुज्ञात उपहूतस्तस्य ।
कल्पः— “आपूर्याः स्थाऽऽमा पूरयतेत्युत्तरवेद्या शेषान्न्युप्य” इति । शेषानवशिष्टान्धानासोमभागान् । पाठस्तु —
आपूर्या इति । हे धानाः सोमशेषा यूग्रमापूर्याः स्थ सर्वतः पूर्णाः स्थिताः । अतो मां प्रजया च धनेन च सर्वतः पूरयत । यन्म आत्मन इत्यादयो मन्त्रा हरिरसि हारियोजन इत्यनुवाकान्ते द्रष्टव्याः ।
कल्पः- “सर्वे स्वं स्वं चमसमनून्यन्ते त्रींस्त्रीन्पुरोडाशशकलानुपवपन्त एतत्ते तत ये च त्वामन्विश्येतैः प्रतिमन्त्रम्” इति ।
चमसमनून्यन्ते चमससमीपे । पाठस्तु —
एतत्ते ततेति । है ततास्मत्पितरेतत्पुरोडाशशकलरूपं ते तवान्नं, ये चान्ये त्वामनुगतास्तेषामप्येतदन्नम् पितामहेतिमन्त्रे ये च त्वामन्वित्युत्तरानुषङ्गः । प्रपितामहेति मन्त्र एतत्त इति पूर्वानुषङ्गः । हे पितरः सर्वेऽपि यूयमवास्मिन्कर्मणि यथामागं स्वस्वभागनुसारेण मन्तध्वं हृष्टा भवत ।
कल्पः — नमो वः पितरो रसायेति नमस्काराञ्जपति” इति । पाठस्तु — नमो व इति । हे पितरो युष्माकं यो रसः सारस्तस्मै नमः । एवमुत्तरत्र । शुष्माय बलाय । जीवाय जीवात्मने । स्वधायै भवतीयहविर्दात्र्यै । मन्यवे क्रोधाय । घोराय शिक्षारूपोग्रकार्यय । हे पितरो युष्मभ्यमपि नमोऽस्तु । ये यूममन्यैः सहेतस्मिन्पितृलोक स्थ ते युष्माननुवर्तन्ताम् । ये यूयमस्मिँलोके स्थ यूयं मामनुवर्तध्वम् । अन्यैर्बहुभिः सह ये यूयमेतस्मिन्पितृलोके स्थ तेषामन्येषां वसिष्ठा वासयितृतमा यूयं भूयास्त ये च मनुष्या अस्मिलोँके मया सह स्थितास्तेषां मनुष्याणां वासयितृतमो भूयासम् ।
कल्पः- “प्रजापते न त्वदेतानीनि प्राजापत्ययर्चा वितिष्ठन्ते” इति । वियुज्य गच्छेयुरित्यर्थः । पाठस्तु —
प्रजापते नेति । हे प्रजापते त्वदन्यः कोऽपि पुरुष उत्पन्नानि तान्येतानि विश्वानि न परिबभूव परिभवितुं समर्थो नाभूत् । परिभवः सृष्टेरप्युपलक्षणम् । सृष्टिसंहारयोः शक्त इत्यर्थः । अतस्ते तव वयं यत्कामा जुहुमस्तत्फलमस्माकमस्तु । वयं धनानां पतयः स्याम । एतत्ते ततेत्याद्या मन्त्रा वाममद्य सवितरित्यस्मादनुवाकात्पूर्वं द्रष्टव्याः ।
देवकृतस्येति । “देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यत्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनस एनसोऽवयजनमसि स्वाहेस्याहवनीयेष्टशकलान्यभ्याधाय” इति ।
अत्र शकलानामभ्याधातारः सर्वेऽपि हारियोजनभक्षिणः । आत्मकृतस्येत्यादिमन्त्रत्रयं शाखान्तरगतम् । हे शकल देवविषये यदस्माभिः कृतमेनस्तस्यावयजनं विनाशकमसि । एवं मनुष्यपितृमन्त्रयोर्योज्यम् ।
कल्पः — “अपरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वं स्वं चमसरसमवघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव त इति “इति । पाठस्तु —
अप्सु धौतस्येति । हे सोम देव प्रक्षालनाभिषवादिविशेषणोपेत यस्तेसंबन्धी यो भक्षणभागोऽश्वसनिरश्वप्रदो यश्च गोसनिर्गोप्रदस्त्वदीयस्य तस्य भक्षभावस्य पितृभिरपि स्वभक्षत्वेन स्वीकृतस्येतरेरनुज्ञातस्यांशमन्यैरनुज्ञातोऽहमाघ्राणेन भक्षयामि । देवकृतस्याप्सु धौतस्येत्येते मन्त्रा हरिरसीत्येतस्मादनुवाकादूर्ध्वं द्रष्टव्याः ।
अत्र विनियोगसंग्रहः —
भक्ष भक्ष्यं (क्षं) प्रतीक्ष्याश्वि गृहीत्वा नृ च वीक्षते ।
मन्द्रेति भक्षयेत्त्रेधा वसुरुद्रादिभेदतः ॥
आप्या भक्षितमाप्याय्य हिन्व नाभ्यभिमर्शनम् ।
अपाम कृत्वाऽवभृथं समायात्यप्रतीक्षण्म् ॥
यन्मे पुनर्भजेदग्निमिष्टाद्याद्धारियोजनम् ।
आपू वेद्यां शेषवाप एतत्ते त्रिभिरावपेत् ॥
पुरोडाशांशकान्भूमौ नमश्चमसिनां जपः ।
प्रजा चमसिनो यान्ति देववह्नौ समित्त्रयम ॥
अप्सु जिघ्रन्ति तच्छेषं द्वाविंशतिरिहोदिताः ॥
अत्र मीमांसा ।
तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् ।
“भक्षेहीत्यनुवाकोऽयं सर्वो भक्षणयोग्युत ।
ग्रहणादौ यथालिङ्गं विभज्य व्ययतिष्ठते ॥
अविधेर्ग्रहणादीनां भक्षणे निखिलस्तु सः ।
अर्थाक्षिप्तेष्वेतेष्वेव यथालिङ्गं विभज्यते ॥
ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् — “अभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति” इति । तस्मिन्भक्षणे ग्रहणावेक्षणानिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति । मन्त्राश्च भक्षेहीत्याद्यनुवाके समाम्नाताः । तत्र भक्षणं यथा साक्षाञ्चोदितं न तथा ग्रहणावेक्षणनिगरणजरणानि चोदितानि । न चाविहितेषु मन्त्रा विनियोगमर्हन्ति । समाख्या तु भक्षानुवाक इत्येवंरूपा भक्षणमात्रविषया । तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगे इति प्राप्ते ब्रूमः — अविहितान्यपि ग्रहणातीन्यर्थाक्षिप्तानि । तद्व्यतिरेकेण भक्षणासंभवात् । अतस्तेष्वप्यनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः । तत्र भक्षेहीत्यारभ्याश्विनोस्त्वा बाहुभ्या सध्यासमित्यन्तो ग्रहणं प्रकाशयति । एहीत्याह्वानस्य बाहुभ्यां स्वी करवाणीत्येतस्य च दर्शनात् । नृचक्षसं त्वा देव सोम सुचक्षा अवख्येवमित्ययं भागोऽवेक्षणं प्रकाशयति । सोभनचक्षुरहं मनुष्येषु प्रख्यातं त्वामवेक्षिषीयेत्यभिधानात् । हिन्व मे गात्रा इत्यादिर्मा मेऽवाङ्नाभिमति गा इत्यन्तः सम्यग्जरणं प्रकाशयति । गात्रप्रीणनेनाधोभागे नाभेरतिक्रमनिषेधेन च तदवगमात् । जरणं नार्थाक्षिप्तं तेन विनाऽपि भक्षणसिद्धेरिति चेत् । न । जरणपर्यन्तस्यैव सार्थकभक्षणत्वात । न च चरणे पुरपव्यापाराभावः । सम्यगुपदेशनादेर्भक्ष(जंर)णार्थत्वात् । मन्द्राभिभूतिरित्यादिर्भक्षयामीत्यन्तो भक्षणं प्रकाशयति । तस्माल्लिङ्गेन समाख्यां बाधित्वा विभज्य विनियोगः कर्तव्यः ।
तत्रैवान्यच्चिन्तितम् —
“मन्द्रेति वसुप्रदेति द्वयं तर्पणभक्षयोः ।
विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे ॥
लिङ्गाद्विभागो नैवं नो तृप्तिभक्षणतोऽन्यतः ।
लिङ्गस्यासंभवे वाक्यशेषात्सर्वोऽस्तु भक्षणे” ॥
मन्द्राऽभिभूतिरित्यादिर्जुषाणा सोमस्य तृप्यन्वित्यन्तो भागो इष्टाया अरुचिमभीभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति । वसुमद्गणस्येत्यादिर्भक्षयामायन्तो भागो भक्षणप्रकाशकः । तत्र पूर्ववल्लिङ्गेन विभज्य विनियोग इति चेन्मैवम् । न खलु तृप्तिर्भक्षणादन्येन व्यापरेण जायते । किं तर्हि भक्षणाननिष्पादिनी हि सा । तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत । ततो लिङ्गेन विनियोगासंभवाद्भक्षणमन्त्रवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति । उपयुक्तश्च तत्रायं भागस्तृप्तिसहितभक्षप्रकाशेन पुरुषोत्साहजनकत्वात् तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते ।
तत्रैवान्यच्छिन्तितम् —
“इन्द्रपीतस्योति भक्षमन्त्रांश कमिहैन्द्रके ।
केवलेऽन्यत्र चोहाद्वा सर्वत्रोत यथाश्रुतम् ॥
ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् ।
ऊहो वाऽन्येषु कर्मैक्येऽप्यस्त्यूहो भक्षभेदतः ॥
इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् ।
सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यते” ॥
भक्षमन्त्रे कश्चिदंश इन्द्रपीतस्येत्येवंविधः श्रूयते । तत्रेन्द्रेण पीतस्य सोमस्य शेषं भक्षयामीत्यर्थो भवति । तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे । तस्मादमन्त्रकमेव तद्भक्षणमित्येकः पूर्वपक्षः । इन्द्रपीतस्येतिपदस्यासमर्थत्वेऽपि मित्रावरुणपीतस्येत्येवमूहे सति सामर्थ्यं भविष्यति । नन्वाग्नेययागस्य प्रकृतित्वात्तद्गतस्याग्नये जुष्टामिति मन्त्रस्य विकृतौ सौर्यचरौ सूर्याय जुष्टमित्यूहः क्रियते । इह तु कर्मैक्यान्नोह इति चेत् । न । कर्मभेद इव भक्षभेदेऽप्यूहितुं शक्यत्वादिति द्वितीयः पूर्वपक्षः । इन्द्रपीतस्येत्यत्र बहुव्रीहिर्द्रष्टव्यः । तत्पुरुषत्वे समासत्येति सूत्रेणा तोदात्तत्वप्रसङ्गात् । आद्युदात्तं चैतत्पदमाम्नातम् । इन्द्रप्रातिपदिकं तु स्वत आद्युदात्तम् । तथा सति बहुब्रीहौ प्रकृत्या पूर्वपदमिति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तं पदमप्याद्युदात्तमेव संपद्यते । इन्द्रेण पीतः सोमो यस्मिन्सवन इति विग्रहात्सवनपरत्वे सत्यैन्द्रभक्षण एवेति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनायं मन्त्रः प्रयोक्तव्यः । विशेष्यं च सवनं तस्मिन्वाक्य एवमाम्नातम् — प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्येति । तस्मादन्त्यः पक्षो राद्धान्तः ।
तत्रैवान्यच्चिन्तितम् -
“ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके ।
इन्द्रे हुतेऽथ तच्छेषे होत्रकेश्चमसस्थिते ॥
सोमोऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा ।
इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषेऽन्यार्थता यतः ॥
उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः ।
अत इन्द्रस्य सिद्ध्यर्थं लक्ष्योऽसावितरैः सह” ॥
पूर्वाधिकरणे योऽयमूहरूपो द्वितीयः पूर्वः पक्षः, तत्प्रसङ्गात्कृत्वाचिन्तारूपेणन्यायपञ्चकेनोहविषयश्चिन्त्यते । मैत्रावरुणब्राह्मणाच्छंसिपीत्रादय ऋत्विजो होत्रकाः । तेषां सन्ति चमसाः । पात्रविशेषस्थिता सोमरसाश्चमसाः । तैर्वषट्कारानुवषट्कारयोर्होतव्यम् । तेषां चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः । अनन्तरं चमसस्थे हुतशेषे पुनः सोमान्तरमभ्युन्नीयं तेन देवान्तरेभ्यो होत्रका जुह्वति । तत्र मैत्रावरुणो मित्रं वयं हवामह इति मन्त्रेण मित्रावरुणौ यजति । ब्राह्मणाच्छंसी इन्द्र त्वा वृषभं वयमिति मन्त्रेणेन्द्रं यजति । पोता मरुतो यस्य हि क्षय इति मन्त्रेण मरुतो यजति । एवं हुत्वा पश्चात्सोमो भक्ष्यते । तस्मिन्भक्ष्यमाणे मित्रावरुणपीतस्येति मन्त्र ऊहनीयः । तदानीमिन्द्रमित्रावरुणपीतस्येत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः । कुतः । शेषस्यान्यार्थत्वात् । इन्द्रशेषे पुनरभ्युन्नीतस्य तेन शेषेण सह मित्रावरुणाद्यर्थत्वं सति तस्येन्द्रसंबन्धराहित्यात्पुनरुन्नीतस्यैवान्यार्थत्वं न पूर्वशेषस्येति चेन्न । उन्नयनकाले मित्रावरुणाद्यर्थोऽयमितिसंकल्पाभावात् । प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिन्यः प्रदीयते । तस्मादिन्द्रसंबन्धराहित्यान्नेन्द्रा लक्षणीय इति प्राप्ते ब्रूमः — मा भूत्संकल्पः । तथाऽप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव । न तु तस्य पूर्वानुष्ठितेन्द्रयागार्थत्वं संभवति । तस्मादुन्नीत मैत्रावरुणादिसंबन्धः शेष इन्द्रसंबन्ध एवेत्युभयभक्ष्णे मित्रावरुणादीभिः सहेन्द्रोऽप्युपलक्षणीयः । तत्रैवान्यच्चिन्तितम् —
“द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् ।
स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति ॥
तद्भक्षणे द्विदेवाः किं सार्धं पात्नीवतेन ते ।
उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम् ॥
अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते ।
आकाङ्क्षा पर्वदेवेषु पत्नीवानेव लक्ष्यते” ॥
ऐन्द्रवायवादयो द्विदेवत्याः । तेषां शेष आदित्यस्थलीमागच्छति । पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागाच्छति । तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते । तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः । पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितस्तद्वदिति प्राप्ते ब्रूमः — यदुपाशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णातीत्यग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतस्य सोमरसस्य तत्संबन्धे ज्ञाते सति पश्चात्पात्नीवद्देवतायै ग्रहणं भवति । तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति । पुनरभ्युन्नीतस्तु सोम ऐन्द्रशेषेण संसष्टः । तस्य संसृष्टस्य भक्षणे मित्रावारुणादीनाभिवेन्द्रस्यापि संबन्धो नापैतीति वैषभ्यम् । तस्मात्पात्नवितभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः तत्रैवान्यच्चिन्तितम् —
सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा ।
सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्यते ॥
सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात् ।
चोदनायामभानाच्च न देवोऽतो न लक्ष्यते ॥
तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रेण पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः । कुतः । त्वष्टुरपि तद्देवत्वात् । तच्च होममन्त्रादवगतम् । अग्ना३इ पत्नीवा ३: सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहेत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन पदेन संबोध्य तस्य त्वष्ट्रा देवेन सह पिबेत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् । ततः पत्नीवत्त्वष्टृपीतस्येत्पुलक्षणमिति प्राप्ते ब्रूमः — पानकाले सहावस्थानमात्रं त्वष्टुः सजूरित्यनेन पदेन प्रतीयते, न तु पातृत्वमसंबोधितस्य त्वष्टुः पिबेत्यनेन सामानाधिकरण्याभावात् । न च पातृसहभावमात्रेण पातृत्वम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभीत्यत्र पुत्राणां वोढृत्वादर्शनात् । आस्तां मन्त्रविधिबलात्त्वष्टुर्देवतात्वमिति चेन्न । पात्नीवतमाग्रयणाद्गृह्णातीत्यत्र त्वष्टुरप्रतीतेः । तस्माददेवता त्वष्टा नोपलक्षणीयः । तत्रैवान्यञ्चिन्तितम् —
“पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी ।
लक्ष्या न वा याज्ययोक्तेर्देवत्वादुपलक्षणम् ॥
एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना ।
अतोऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम्” ॥
तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य पत्नीवन्नामधारिणस्त्रयास्त्रिंशद्दवान्मादयेत्यभिधीयते — “पात्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व” इति । अनुष्वधमनुप्रदानम् । अत्र हूयमानेव सोमरसेन मादनीयत्वात्त्रयस्त्रिंशतां तद्देवत्वम् । अतस्तेऽपि भक्षणे लक्षणीया इति चेन्न । यजमानेन मादनीयस्याग्नेरेव देवतात्वात् । त्रयस्त्रिंशद्देवतास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् । तस्मान्नोपलक्षणम् । तत्रैवान्यच्चिन्तितम् —
“सोमस्याग्न इति प्रोक्ताऽनुवषट्कारदेवता ।
लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा ॥
प्रकृतौ विद्यमानोऽग्निरनुद्देशादलक्षितः ।
उद्देश्येन्द्रो लक्षितोऽतो विकृतावपि तत्तथा” ॥
सोमस्याग्ने त्रीहीत्यनुयजतीति श्रुयते । तत्रानुवषट्कारस्य । मान्त्रवर्णिकोऽग्निर्देवता । न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् । मन्त्रे वह्निं संबोध्य सोम पातृत्वाभिधानात् । तस्मादग्निलक्षणीय इति चेन्न । प्रकृतावलक्षितत्वात् । ऐन्द्राचमसः प्रकृतिरितरे विकृतिरूपाः । तथा हि-ऐन्द्रः सोमो गृह्यते मयिते च । ते नैन्द्रेष्वेव सोमः । अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव । अनैन्द्रा अधर्मकाः । धर्माकाङ्क्षायां चोदकेन सधर्मका इति विकृतित्वम् । गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वमिन्द्राय त्वा वसुमते इत्यादिग्रहणमन्त्रादवगम्य ते । तस्य प्रकृतिभूतस्येनद्रचमसस्य भक्षणेऽग्निरनुवषट्कारदेवो नोपलक्षितः । कुतः । ग्रहणे तदुद्देशाभावात् । इन्द्रस्तूद्देश्यत्वादुपलक्षितः एवं विकृतावप्युद्देश्यदेवानामेवोपलक्षमं न्याय्यम् । तस्मादग्निर्नोपलक्ष्यः ।
तत्रैवान्यच्चिन्तितम् -
“अमन्त्रप (भ) क्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् ।
ऊहोऽस्ति नो वा सोऽस्त्यत्र विकृतौ तस्य संभवात् ॥
सोमेनेति विधेः सर्वप्रदानेषु समत्वतः ।
अविकारेष्वनूहोऽतो नैन्द्रै निर्मन्त्रभक्षणम्” ॥
उक्ताभ्यः पञ्चभ्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नधिकरणे योऽयमनैन्द्रैष्वमन्त्रभक्षणमिति प्रथमः पूर्वः पक्षस्तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते । अनैन्द्रेषूक्तरीत्या विकृतित्वेनोहसंभवादस्त्यूह इति चेन्न । अनैन्द्राणां विकृतित्वासंभवात् । सोमेन यजेतेत्युत्पत्तिश्रुतः सोमः कर्मणोऽङ्गं न तु प्रदानविशेषस्य कस्यचिदङ्गम् । स एव च सोमः सर्वपदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि । अत ऐन्द्राणामनैन्द्राणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः ।
इन्द्राय त्वा वसुमत इत्यादिमन्त्रो लिङ्गादैन्द्रमात्रविषयत्वादनैन्द्रैष्वमन्त्रभक्षः ।
तत्रैवान्यच्चिन्तितम् —
“समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम ।
ऐन्द्राग्नेऽपीन्द्रपीतत्वसंभवात्तत्समन्त्रकम् ॥
न पानमशरीरस्य युक्तं दानं तु मिश्रितम ।
मन्त्रोऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम्” ॥
यदेतदैन्द्राग्नं गृह्णातीति विहितं शेषभक्षणं तत्रैन्द्राग्निभ्यां पीतः सोम इन्द्रेणादि पीतो भवतीति लिङ्नैव विनियोगात्समन्त्रकं भक्षणमिति चेन्मैवम् । नव माध्याये यक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य दानासंभवात् । अथ पीतशब्देन दानं विवक्ष्येत तदानीमिन्द्राय दत्तः सोम इति मन्त्रार्थो भवति । न चात्र यजमान इन्द्रमुद्दिश्य ददौ किंत्विन्दाग्नी उद्दिश्य । तस्माद्दानं मिश्रविषयं, मन्त्रस्तु न मिश्रविषय इत्यमन्त्रकमत्र भक्षणम् । अत्रैवान्यच्चिन्तितम्-
ऐन्द्रदानेऽपि गायत्रमात्रयुक्तेऽथवेतरैः ।
छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे यथोक्तितः ॥
द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् ।
नानाछन्द्रस्यैन्द्र एव कृत्वाचिन्तेत्थमीरिता ॥
सवनार्थेन्द्रपीतोक्तिरित्युद्घाटनमीरितम् ।
तेन सर्वप्रदानेषु मन्त्रपाठो यथास्थितः ॥
तस्मिन्नेव भक्षमन्त्रे गायत्रछन्दस इन्द्रपीतस्येति श्रूयते । गायत्रमेव च्छन्दो यस्येति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षणमन्त्र इति चेन्मैवम् । बहुच्छन्दोयुक्तेऽपि बहुव्रीहेः समानत्वादेवकारं परित्यज्य गायत्रे छन्दो यस्येतिविग्रहसंभवात् । एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति । तस्मान्नानाछब्दस्के सोम ऐन्द्रप्रदान एव मन्त्रो नान्यत्र । तदेवं कृत्वाचिन्तात्रवं समापितम् । द्विविधा कृत्वाचिन्तोद्धाटना तु प्रागेव सिद्धान्तिना दर्शिता ।
द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥५ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
देवताविशेषाः । यद्वा - नरैश्शंसनीया नराशंसाः तैः पीतो नराशंसपीतः तस्य । यत्तेन पदेन नराशंसानामेव भक्षणं भक्षिताप्यायिता नराशंसाश्चमसाः । पूर्ववत्स्वरः, पूर्ववदेव 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । पितृपीतस्य पितृभिरस्मत्पूर्वैः पीतस्य । स एव स्वरः । मधुमतः मधुररसवतः उपहूतस्य इन्द्रादिभिरनुज्ञातस्य ईदृशस्य तव अहं उपहूतः देवैस्सहभक्षिभिरनुज्ञातः भक्षयामि । सर्वत्र कर्मणि षष्ठी ॥