प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.5.1 TS 3.2.5.1
भक्षेहि॒ मा ऽऽवि॑श दीर्घायु॒त्वाय॑ शन्तनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरो वसो प्रि॒यो मे॑ हृ॒दो᳚ऽस्य॒श्विनो᳚स्त्वा बा॒हुभ्याꣳ॑ सघ्यासं नृ॒चक्ष॑सं त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येषं म॒न्द्राऽभिभू॑तिः के॒तुर्य॒ज्ञानां॒ ॅवाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्यदि॑ति॒रना॑हत शीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्य॒त्वेहि॑ विश्वचर्.षणे - [ ]
पदपाठः (Word-by-word)
भक्ष॑ । एति॑ । इ॒हि॒ । मा॒ । एति॑ । वि॒श॒ । दी॒र्घा॒यु॒त्वायेति॑ दीर्घायु - त्वाय॑ । श॒न्त॒नु॒त्वायेति॑ शन्तनु - त्वाय॑ । रा॒यः । पोषा॑य । वर्च॑से । सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः-त्वाय॑ । एति॑ । इ॒हि॒ । व॒सो॒ इति॑ । पु॒रो॒व॒सो॒ इति॑ पुरः - व॒सो॒ । प्रि॒यः । मे॒ । हृ॒दः । अ॒सि॒ । अ॒श्विनोः᳚ । त्वा॒ । बा॒हुभ्या॒मिति॑ बा॒हु- भ्या॒म् । स॒घ्या॒स॒म् । नृ॒चक्ष॑स॒मिति॑ नृ - चक्ष॑सम् । त्वा॒ । दे॒व॒ । सो॒म॒ । सु॒चक्षा॒ इति॑ सु - चक्षाः᳚ । अवेति॑ । ख्ये॒ष॒म् । म॒न्द्रा । अ॒भिभू॑ति॒रित्य॒भि - भू॒तिः॒ । के॒तुः । य॒ज्ञाना᳚म् । वाक् । जु॒षा॒णा । सोम॑स्य । तृ॒प्य॒तु॒ । म॒न्द्रा । स्व॑र्वा॒चीति॒ सु - अ॒र्वा॒ची॒ । अदि॑तिः । अना॑हतशी॒र्ष्णीत्यना॑हत - शी॒र्ष्णी॒ । वाक् । जु॒षा॒णा । सोम॑स्य । तृ॒प्य॒तु॒ । एति॑ । इ॒हि॒ । वि॒श्व॒च॒र्॒.ष॒ण॒ इति॑ विश्व - च॒र्॒.ष॒णे॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः) ।

स्फ्याद्युपस्थानमन्त्रा ये ते चतुर्थे समीरिताः ।

अथ पञ्चमे भक्षमन्त्रा उच्यन्ते ।

अल्पः – भक्षेहीति भक्षमाह्रियमाणं प्रतीक्ष्य” इति । पाठस्तु —

भक्षेहि मेति । हे भक्षयोग्य सोमरस त्वं दीर्घायुत्वादिसिद्ध्यर्थमागच्छ मां प्रविश । सुखकारित्वं देहे शंतनुत्वम् । हे वसो निवासहेतोऽस्मान्वासयितुमागच्छ । हे पुरोवसो वासयितॄणां धनदीनां मध्ये प्रथमं वासयितृत्वान्मे हृदो मम चित्तस्य प्रियोऽसि ।

अश्विनोरिति । कल्पः — ‘अश्विनोस्त्वा बाहुभ्या सध्यासमिति प्रातिगृह्य” इति ।

हे भक्षाश्विनोर्देवानां भिषजोर्बाहुभ्यां त्वा सध्यार्स गृह्णामि ।

कल्पः — “नृचक्षसं त्वा देव सोमेत्यवेक्ष्य “इति । पाठस्तु —

नृचक्षसमिति । हे सोम नृचक्षसं नृश्चेष्टे पश्यति तादृशं त्वां सुचक्षाः सुष्ठु द्रष्टाऽहमवख्येषमवेक्षे ।

कल्पः – “मन्द्राभिभूतिरिति पातःसवने सर्वानैन्द्रान्भक्षयति नराश सपतिस्येति नाराशसान्रुद्रवद्गणस्येति माध्यंदिन सवने सर्वानन्द्रान्भक्षयवि नराशसपतिस्येति नाराशसानादित्यवद्गणस्येति तृतीयसवने सर्वानन्द्रान्भक्षयति नराशसपीतस्येति नाराशसान्यदन्यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजत्यप्यन्यदे (दै) वतानिन्द्रपतिस्येति यथादेवतं वा” इति ।

अत्र नाराशंसनामकानां चमसानां लक्षणं सूत्रकारेणैव दर्सितम- “भक्षिता नाप्याययन्त्याप्यायस्व समेतु न इति ते नाराशंसाः” इति । पाठस्तु —

मन्द्राऽभिभूतिरिति । मुखस्थिता वाग्देवता सोमस्य जुषाणा सोमं सेवमाना तुप्यतु । कीदृशी वाक् । मन्द्रा हर्षहेतुः । अभिभूतिर्विन्धानामभिभवित्री । यज्ञानां केतुः करणभूता । आदरार्थं पुनरपि मन्द्रेत्यादिना प्रार्थ्यते । मन्द्रा हर्षहेतुः । स्वर्वाची सुष्टु आभिमुख्येन वर्तमाना । अदितिरण्डनीया अनाहतशीर्ष्णी । शिरःशब्देन प्राधान्यात्प्रारम्भो लक्ष्यते । अप्रतिबुद्धप्रारम्भेत्यर्थः । वागित्यादि पूर्ववत् । चर्षणयो मनुष्याः विश्वे चर्षणयः स्वभूता यस्यासौ विश्वचर्षणिः । तथाविध हे सोमेह्यागच्छ । कीदृशः सोमः । शंभुः शान्तेर्भावयिता । मयोभूः सुखस्य भावयिता । तादृशः सन्नित्यन्वयः । हे हरिवर्ण हरिद्वर्ण स्वस्ति मा प्रचर यथा वान्तिरुपो विनाशो न भवति तथा मां प्रविश । किमर्थं क्रत्वादिसिद्ध्यर्थम् । दक्ष उत्साहः । हे राजन्मां वान्त्युपद्रवेण मा वीबीभिषो विशेषेण मा भीषय । हृदयपुण्डरीकेऽवस्थितं मनो हार्दि । तच्च मनस्त्विषा त्वदीय । या दीप्त्या मा वधीर्हिंसां मा कुरु । मनसि हिंसारहिते सति वृषादयः सिध्यन्ति । वृषेन्द्रियम् । शुष्मो बलम् । आयुर्दीर्घायुः । वर्चः कान्तिः । हे सोम देव ते तत्र संबन्धि यत्प्रातःसवं तस्य संबन्धी यो मधुमान्स इतरैरुपहूतोऽनुज्ञातः, तस्योपहूतस्याहमप्युपहतो भक्षयामि । कीदृशस्य ते । वसुमद्गणस्याष्टसंख्याका वसवो यस्मिन्गणे सोऽयं वसुमान् । तथाविधो गणो यस्य तव स त्वं वसुमद्गणस्तस्थाविधस्य । मतिविदः श्रद्धायुक्तानां यजमानानां मतिं वेत्तीति मतिवित्तस्य । कीदृशस्य प्रातःसवनस्य । गायत्रच्छन्दसो बहिष्पवमानादिषु मन्त्रेषु गायत्र्याख्यं छन्दो यस्य तद्गायत्रच्छन्दस्तस्य । इन्द्रपीतस्येन्द्रेण पीतः सोमो यस्मिन्सवने तदिन्द्रपीतं तस्य । नराशसपीतस्य पितृपीतस्येति पदद्वयं नराशंसचमसभक्षण एव प्रभोक्तव्यं नान्यत्रेत्येकः पक्षः । सर्वत्र पठितव्यमित्यपरः पक्षः । नरैः शास्यन्त इति । नराशंसाः पितृविशेषास्तैः पीतः सोमो यस्मिन्सवने तन्नराशंसपीतं तस्य । अयमेवार्थः पितृपीतस्येत्यनेन स्पष्टीकृतः । रुद्रवद्गणस्याऽऽदित्यबद्गणस्येत्येतावपि मन्त्रौ पूर्ववद्व्याख्येयौ । तत्रोभयत्र मन्द्रादिरनुषज्यते ।

कल्पः — “भक्षितानाप्यायमन्त्याप्यायस्व समेतु त इति ते नारशंसाः” इति । पाठस्तु —

आ प्यायस्वति । हे सोम त्वमाप्यायस्व सर्वतो वर्धस्व । ते तव वृष्णियं वीर्यं विश्वतः समेतु सर्वतः संगच्छताम् । त्वमपि वाजस्यान्नस्य संगथे संगमने निमित्तं भव ।

कल्पः — “हिन्व मे गात्रा हरिव इति भक्षयित्वा नाभिदेशानभिमृशन्ते” इति । पाठस्तु —

हिन्व मे गात्रेति । हे हरिवो हरितवर्ण सोम मे गात्रा ममाङ्गानि हिन्वप्रीणय मदीयान्गणादिसमूहान्मा वितीतृषः सोमपाने तृष्णारहितान्मा कुरु । किंतु सर्वदा तदिच्छान्कुरु । किंच, त्वं शिवो भूत्वा सप्तर्षिन्मूर्धाच्छिद्रसप्तकावस्थितान्मदीयान्प्राणानुपतिष्ठस्व । तर्पयेत्यर्थः । किंच मे मदीयां नाभिमतीत्य मा गा अधोद्वारेण मा निर्गच्छेत्यर्थः ।

कल्पः — “समित्पाणय उन्नेतारं पुरस्कृत्याप्रतीक्षमायनत्यपाम सोममिति महीयां वदन्तः” इति ।

अतः पूर्वोक्ताः सर्वे मन्त्रा ऋतुग्रहानुवाकात्पूर्वं द्रष्टव्याः । अपाम सोमं त्ययं तु मन्त्रोऽवभृथाङ्गत्वादुरु हि राजेत्यनुवाके प्रत्यस्तो वरुणस्य पाश इत्य स्मादुपरिष्टाद्द्रष्टव्याः पाठस्तु —

अपाम सोममिति । वयं सर्वे सोममपाम तेन पीतेनामृता देवा अभूम । आशंसाद्योतनाय भूतार्थनिर्देशः । ज्योतिरादित्यस्वरूपमदर्श्म दृष्टवन्तो देवानिन्द्रादीनविदाम लब्धवन्तः । ईदृशानस्मानरातिः पापरूपः शत्रुः किं कृणवत्किं करिष्यति । मर्त्यस्य मनुष्यशरीरधारिणो या धूर्तिर्हिंसा सेयममृत किमु अमृतानस्मान्किं नाम कस्ष्यिति अथवा धूर्तिरमृत, अस्माद्विषया हिंसा स्वयमेव नष्टा । सा तादृशी नोऽस्मान्बाधत इति किमु वक्तव्यम् । कल्पः —

“यन्म आत्मनो मिन्दाऽभूदिति मिन्दयाऽऽहवनीयमुपतिष्ठन्ते इति । पाठस्तु —

यन्म आत्मन इति । मे मम ऋत्विजो यदङ्गमात्मनो मिन्दाऽभूत्स्वरूपान्मिन्दितं हिंसितमभूत्, अग्निस्तदङ्गं पुनराहाराहरतु । कीदृशोऽग्निर्जातवेदा जातमुत्पन्नं यज्ञच्छिद्रं वेत्तीति जातवेदाः । विचर्षणिस्तत्पुनः समाधातुं विचक्षणः ।

तत्रैव विकल्पितं मन्त्रान्तरमाह — पुनरग्निरिति । यज्ञे यदङ्गं न्यूनं भवति तेन यजमानस्यैव चक्षुर्हीयते । “यज्ञं पराभवन्तं यजमानोऽनु पराभवति” इति श्रुत्यन्तरात् । अस्मादयमग्निर्यज्ञाङ्गसमाधानेन यजमानाय मह्यमेव चक्षुः पुनर्दत्तवान् । तथैवेन्द्रो बृहस्पतिश्च यज्ञाङ्गं समाधाय मदीयं चक्षुः पुनर्दत्तवन्तौ । अश्विनौ युवामव्यक्ष्योर्मदीयाक्ष्णोश्चक्षुर्दर्शनसामर्थ्यमाधत्तम् ।

कल्पः — “सर्वे हारियोजनं भक्षयन्तीष्टयजुषस्ते देव सोम” इति । पाठस्तु---

इष्टयजुष इति । हे सोम देव ते तव संबन्धिरसमुपहूतरैनुज्ञातैरनुज्ञातोऽहं भक्षयामि । कीदृशस्य ते, इष्टयजुष इष्टसाधनानि यागसाधनानि यजूंषियस्य सोऽयमिष्टयजुस्तस्य । स्तुताः स्तोमाः सामावृत्तिलक्षणानि स्तोत्राणि यस्य सोऽयं सुतस्तोमस्तस्य । शस्तानि शंसितान्युक्थानि शस्त्राणि यस्य सोऽयं शश्तोक्थस्तस्य । हरिर्हरितवर्णः । सोऽस्यास्तीति हरिवांस्तस्य । इन्द्रेण पतिस्तस्य । मधु माधुर्यमस्यास्तीति मधुमांस्तस्य । अन्यैरजुज्ञात उपहूतस्तस्य ।

कल्पः— “आपूर्याः स्थाऽऽमा पूरयतेत्युत्तरवेद्या शेषान्न्युप्य” इति । शेषानवशिष्टान्धानासोमभागान् । पाठस्तु —

आपूर्या इति । हे धानाः सोमशेषा यूग्रमापूर्याः स्थ सर्वतः पूर्णाः स्थिताः । अतो मां प्रजया च धनेन च सर्वतः पूरयत । यन्म आत्मन इत्यादयो मन्त्रा हरिरसि हारियोजन इत्यनुवाकान्ते द्रष्टव्याः ।

कल्पः- “सर्वे स्वं स्वं चमसमनून्यन्ते त्रींस्त्रीन्पुरोडाशशकलानुपवपन्त एतत्ते तत ये च त्वामन्विश्येतैः प्रतिमन्त्रम्” इति ।

चमसमनून्यन्ते चमससमीपे । पाठस्तु —

एतत्ते ततेति । है ततास्मत्पितरेतत्पुरोडाशशकलरूपं ते तवान्नं, ये चान्ये त्वामनुगतास्तेषामप्येतदन्नम् पितामहेतिमन्त्रे ये च त्वामन्वित्युत्तरानुषङ्गः । प्रपितामहेति मन्त्र एतत्त इति पूर्वानुषङ्गः । हे पितरः सर्वेऽपि यूयमवास्मिन्कर्मणि यथामागं स्वस्वभागनुसारेण मन्तध्वं हृष्टा भवत ।

कल्पः — नमो वः पितरो रसायेति नमस्काराञ्जपति” इति । पाठस्तु — नमो व इति । हे पितरो युष्माकं यो रसः सारस्तस्मै नमः । एवमुत्तरत्र । शुष्माय बलाय । जीवाय जीवात्मने । स्वधायै भवतीयहविर्दात्र्यै । मन्यवे क्रोधाय । घोराय शिक्षारूपोग्रकार्यय । हे पितरो युष्मभ्यमपि नमोऽस्तु । ये यूममन्यैः सहेतस्मिन्पितृलोक स्थ ते युष्माननुवर्तन्ताम् । ये यूयमस्मिँलोके स्थ यूयं मामनुवर्तध्वम् । अन्यैर्बहुभिः सह ये यूयमेतस्मिन्पितृलोके स्थ तेषामन्येषां वसिष्ठा वासयितृतमा यूयं भूयास्त ये च मनुष्या अस्मिलोँके मया सह स्थितास्तेषां मनुष्याणां वासयितृतमो भूयासम् ।

कल्पः- “प्रजापते न त्वदेतानीनि प्राजापत्ययर्चा वितिष्ठन्ते” इति । वियुज्य गच्छेयुरित्यर्थः । पाठस्तु —

प्रजापते नेति । हे प्रजापते त्वदन्यः कोऽपि पुरुष उत्पन्नानि तान्येतानि विश्वानि न परिबभूव परिभवितुं समर्थो नाभूत् । परिभवः सृष्टेरप्युपलक्षणम् । सृष्टिसंहारयोः शक्त इत्यर्थः । अतस्ते तव वयं यत्कामा जुहुमस्तत्फलमस्माकमस्तु । वयं धनानां पतयः स्याम । एतत्ते ततेत्याद्या मन्त्रा वाममद्य सवितरित्यस्मादनुवाकात्पूर्वं द्रष्टव्याः ।

देवकृतस्येति । “देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यत्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनस एनसोऽवयजनमसि स्वाहेस्याहवनीयेष्टशकलान्यभ्याधाय” इति ।

अत्र शकलानामभ्याधातारः सर्वेऽपि हारियोजनभक्षिणः । आत्मकृतस्येत्यादिमन्त्रत्रयं शाखान्तरगतम् । हे शकल देवविषये यदस्माभिः कृतमेनस्तस्यावयजनं विनाशकमसि । एवं मनुष्यपितृमन्त्रयोर्योज्यम् ।

कल्पः — “अपरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वं स्वं चमसरसमवघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव त इति “इति । पाठस्तु —

अप्सु धौतस्येति । हे सोम देव प्रक्षालनाभिषवादिविशेषणोपेत यस्तेसंबन्धी यो भक्षणभागोऽश्वसनिरश्वप्रदो यश्च गोसनिर्गोप्रदस्त्वदीयस्य तस्य भक्षभावस्य पितृभिरपि स्वभक्षत्वेन स्वीकृतस्येतरेरनुज्ञातस्यांशमन्यैरनुज्ञातोऽहमाघ्राणेन भक्षयामि । देवकृतस्याप्सु धौतस्येत्येते मन्त्रा हरिरसीत्येतस्मादनुवाकादूर्ध्वं द्रष्टव्याः ।

अत्र विनियोगसंग्रहः —

भक्ष भक्ष्यं (क्षं) प्रतीक्ष्याश्वि गृहीत्वा नृ च वीक्षते ।

मन्द्रेति भक्षयेत्त्रेधा वसुरुद्रादिभेदतः ॥

आप्या भक्षितमाप्याय्य हिन्व नाभ्यभिमर्शनम् ।

अपाम कृत्वाऽवभृथं समायात्यप्रतीक्षण्म् ॥

यन्मे पुनर्भजेदग्निमिष्टाद्याद्धारियोजनम् ।

आपू वेद्यां शेषवाप एतत्ते त्रिभिरावपेत् ॥

पुरोडाशांशकान्भूमौ नमश्चमसिनां जपः ।

प्रजा चमसिनो यान्ति देववह्नौ समित्त्रयम ॥

अप्सु जिघ्रन्ति तच्छेषं द्वाविंशतिरिहोदिताः ॥

अत्र मीमांसा ।

तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् ।

“भक्षेहीत्यनुवाकोऽयं सर्वो भक्षणयोग्युत ।

ग्रहणादौ यथालिङ्गं विभज्य व्ययतिष्ठते ॥

अविधेर्ग्रहणादीनां भक्षणे निखिलस्तु सः ।

अर्थाक्षिप्तेष्वेतेष्वेव यथालिङ्गं विभज्यते ॥

ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् — “अभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति” इति । तस्मिन्भक्षणे ग्रहणावेक्षणानिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति । मन्त्राश्च भक्षेहीत्याद्यनुवाके समाम्नाताः । तत्र भक्षणं यथा साक्षाञ्चोदितं न तथा ग्रहणावेक्षणनिगरणजरणानि चोदितानि । न चाविहितेषु मन्त्रा विनियोगमर्हन्ति । समाख्या तु भक्षानुवाक इत्येवंरूपा भक्षणमात्रविषया । तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगे इति प्राप्ते ब्रूमः — अविहितान्यपि ग्रहणातीन्यर्थाक्षिप्तानि । तद्व्यतिरेकेण भक्षणासंभवात् । अतस्तेष्वप्यनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः । तत्र भक्षेहीत्यारभ्याश्विनोस्त्वा बाहुभ्या सध्यासमित्यन्तो ग्रहणं प्रकाशयति । एहीत्याह्वानस्य बाहुभ्यां स्वी करवाणीत्येतस्य च दर्शनात् । नृचक्षसं त्वा देव सोम सुचक्षा अवख्येवमित्ययं भागोऽवेक्षणं प्रकाशयति । सोभनचक्षुरहं मनुष्येषु प्रख्यातं त्वामवेक्षिषीयेत्यभिधानात् । हिन्व मे गात्रा इत्यादिर्मा मेऽवाङ्नाभिमति गा इत्यन्तः सम्यग्जरणं प्रकाशयति । गात्रप्रीणनेनाधोभागे नाभेरतिक्रमनिषेधेन च तदवगमात् । जरणं नार्थाक्षिप्तं तेन विनाऽपि भक्षणसिद्धेरिति चेत् । न । जरणपर्यन्तस्यैव सार्थकभक्षणत्वात । न च चरणे पुरपव्यापाराभावः । सम्यगुपदेशनादेर्भक्ष(जंर)णार्थत्वात् । मन्द्राभिभूतिरित्यादिर्भक्षयामीत्यन्तो भक्षणं प्रकाशयति । तस्माल्लिङ्गेन समाख्यां बाधित्वा विभज्य विनियोगः कर्तव्यः ।

तत्रैवान्यच्चिन्तितम् —

“मन्द्रेति वसुप्रदेति द्वयं तर्पणभक्षयोः ।

विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे ॥

लिङ्गाद्विभागो नैवं नो तृप्तिभक्षणतोऽन्यतः ।

लिङ्गस्यासंभवे वाक्यशेषात्सर्वोऽस्तु भक्षणे” ॥

मन्द्राऽभिभूतिरित्यादिर्जुषाणा सोमस्य तृप्यन्वित्यन्तो भागो इष्टाया अरुचिमभीभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति । वसुमद्गणस्येत्यादिर्भक्षयामायन्तो भागो भक्षणप्रकाशकः । तत्र पूर्ववल्लिङ्गेन विभज्य विनियोग इति चेन्मैवम् । न खलु तृप्तिर्भक्षणादन्येन व्यापरेण जायते । किं तर्हि भक्षणाननिष्पादिनी हि सा । तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत । ततो लिङ्गेन विनियोगासंभवाद्भक्षणमन्त्रवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति । उपयुक्तश्च तत्रायं भागस्तृप्तिसहितभक्षप्रकाशेन पुरुषोत्साहजनकत्वात् तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते ।

तत्रैवान्यच्छिन्तितम् —

“इन्द्रपीतस्योति भक्षमन्त्रांश कमिहैन्द्रके ।

केवलेऽन्यत्र चोहाद्वा सर्वत्रोत यथाश्रुतम् ॥

ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् ।

ऊहो वाऽन्येषु कर्मैक्येऽप्यस्त्यूहो भक्षभेदतः ॥

इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् ।

सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यते” ॥

भक्षमन्त्रे कश्चिदंश इन्द्रपीतस्येत्येवंविधः श्रूयते । तत्रेन्द्रेण पीतस्य सोमस्य शेषं भक्षयामीत्यर्थो भवति । तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे । तस्मादमन्त्रकमेव तद्भक्षणमित्येकः पूर्वपक्षः । इन्द्रपीतस्येतिपदस्यासमर्थत्वेऽपि मित्रावरुणपीतस्येत्येवमूहे सति सामर्थ्यं भविष्यति । नन्वाग्नेययागस्य प्रकृतित्वात्तद्गतस्याग्नये जुष्टामिति मन्त्रस्य विकृतौ सौर्यचरौ सूर्याय जुष्टमित्यूहः क्रियते । इह तु कर्मैक्यान्नोह इति चेत् । न । कर्मभेद इव भक्षभेदेऽप्यूहितुं शक्यत्वादिति द्वितीयः पूर्वपक्षः । इन्द्रपीतस्येत्यत्र बहुव्रीहिर्द्रष्टव्यः । तत्पुरुषत्वे समासत्येति सूत्रेणा तोदात्तत्वप्रसङ्गात् । आद्युदात्तं चैतत्पदमाम्नातम् । इन्द्रप्रातिपदिकं तु स्वत आद्युदात्तम् । तथा सति बहुब्रीहौ प्रकृत्या पूर्वपदमिति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तं पदमप्याद्युदात्तमेव संपद्यते । इन्द्रेण पीतः सोमो यस्मिन्सवन इति विग्रहात्सवनपरत्वे सत्यैन्द्रभक्षण एवेति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनायं मन्त्रः प्रयोक्तव्यः । विशेष्यं च सवनं तस्मिन्वाक्य एवमाम्नातम् — प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्येति । तस्मादन्त्यः पक्षो राद्धान्तः ।

तत्रैवान्यच्चिन्तितम् -

“ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके ।

इन्द्रे हुतेऽथ तच्छेषे होत्रकेश्चमसस्थिते ॥

सोमोऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा ।

इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषेऽन्यार्थता यतः ॥

उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः ।

अत इन्द्रस्य सिद्ध्यर्थं लक्ष्योऽसावितरैः सह” ॥

पूर्वाधिकरणे योऽयमूहरूपो द्वितीयः पूर्वः पक्षः, तत्प्रसङ्गात्कृत्वाचिन्तारूपेणन्यायपञ्चकेनोहविषयश्चिन्त्यते । मैत्रावरुणब्राह्मणाच्छंसिपीत्रादय ऋत्विजो होत्रकाः । तेषां सन्ति चमसाः । पात्रविशेषस्थिता सोमरसाश्चमसाः । तैर्वषट्कारानुवषट्कारयोर्होतव्यम् । तेषां चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः । अनन्तरं चमसस्थे हुतशेषे पुनः सोमान्तरमभ्युन्नीयं तेन देवान्तरेभ्यो होत्रका जुह्वति । तत्र मैत्रावरुणो मित्रं वयं हवामह इति मन्त्रेण मित्रावरुणौ यजति । ब्राह्मणाच्छंसी इन्द्र त्वा वृषभं वयमिति मन्त्रेणेन्द्रं यजति । पोता मरुतो यस्य हि क्षय इति मन्त्रेण मरुतो यजति । एवं हुत्वा पश्चात्सोमो भक्ष्यते । तस्मिन्भक्ष्यमाणे मित्रावरुणपीतस्येति मन्त्र ऊहनीयः । तदानीमिन्द्रमित्रावरुणपीतस्येत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः । कुतः । शेषस्यान्यार्थत्वात् । इन्द्रशेषे पुनरभ्युन्नीतस्य तेन शेषेण सह मित्रावरुणाद्यर्थत्वं सति तस्येन्द्रसंबन्धराहित्यात्पुनरुन्नीतस्यैवान्यार्थत्वं न पूर्वशेषस्येति चेन्न । उन्नयनकाले मित्रावरुणाद्यर्थोऽयमितिसंकल्पाभावात् । प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिन्यः प्रदीयते । तस्मादिन्द्रसंबन्धराहित्यान्नेन्द्रा लक्षणीय इति प्राप्ते ब्रूमः — मा भूत्संकल्पः । तथाऽप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव । न तु तस्य पूर्वानुष्ठितेन्द्रयागार्थत्वं संभवति । तस्मादुन्नीत मैत्रावरुणादिसंबन्धः शेष इन्द्रसंबन्ध एवेत्युभयभक्ष्णे मित्रावरुणादीभिः सहेन्द्रोऽप्युपलक्षणीयः । तत्रैवान्यच्चिन्तितम् —

“द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् ।

स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति ॥

तद्भक्षणे द्विदेवाः किं सार्धं पात्नीवतेन ते ।

उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम् ॥

अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते ।

आकाङ्क्षा पर्वदेवेषु पत्नीवानेव लक्ष्यते” ॥

ऐन्द्रवायवादयो द्विदेवत्याः । तेषां शेष आदित्यस्थलीमागच्छति । पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागाच्छति । तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते । तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः । पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितस्तद्वदिति प्राप्ते ब्रूमः — यदुपाशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णातीत्यग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतस्य सोमरसस्य तत्संबन्धे ज्ञाते सति पश्चात्पात्नीवद्देवतायै ग्रहणं भवति । तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति । पुनरभ्युन्नीतस्तु सोम ऐन्द्रशेषेण संसष्टः । तस्य संसृष्टस्य भक्षणे मित्रावारुणादीनाभिवेन्द्रस्यापि संबन्धो नापैतीति वैषभ्यम् । तस्मात्पात्नवितभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः तत्रैवान्यच्चिन्तितम् —

सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा ।

सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्यते ॥

सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात् ।

चोदनायामभानाच्च न देवोऽतो न लक्ष्यते ॥

तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रेण पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः । कुतः । त्वष्टुरपि तद्देवत्वात् । तच्च होममन्त्रादवगतम् । अग्ना३इ पत्नीवा ३: सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहेत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन पदेन संबोध्य तस्य त्वष्ट्रा देवेन सह पिबेत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् । ततः पत्नीवत्त्वष्टृपीतस्येत्पुलक्षणमिति प्राप्ते ब्रूमः — पानकाले सहावस्थानमात्रं त्वष्टुः सजूरित्यनेन पदेन प्रतीयते, न तु पातृत्वमसंबोधितस्य त्वष्टुः पिबेत्यनेन सामानाधिकरण्याभावात् । न च पातृसहभावमात्रेण पातृत्वम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभीत्यत्र पुत्राणां वोढृत्वादर्शनात् । आस्तां मन्त्रविधिबलात्त्वष्टुर्देवतात्वमिति चेन्न । पात्नीवतमाग्रयणाद्गृह्णातीत्यत्र त्वष्टुरप्रतीतेः । तस्माददेवता त्वष्टा नोपलक्षणीयः । तत्रैवान्यञ्चिन्तितम् —

“पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी ।

लक्ष्या न वा याज्ययोक्तेर्देवत्वादुपलक्षणम् ॥

एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना ।

अतोऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम्” ॥

तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य पत्नीवन्नामधारिणस्त्रयास्त्रिंशद्दवान्मादयेत्यभिधीयते — “पात्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व” इति । अनुष्वधमनुप्रदानम् । अत्र हूयमानेव सोमरसेन मादनीयत्वात्त्रयस्त्रिंशतां तद्देवत्वम् । अतस्तेऽपि भक्षणे लक्षणीया इति चेन्न । यजमानेन मादनीयस्याग्नेरेव देवतात्वात् । त्रयस्त्रिंशद्देवतास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् । तस्मान्नोपलक्षणम् । तत्रैवान्यच्चिन्तितम् —

“सोमस्याग्न इति प्रोक्ताऽनुवषट्कारदेवता ।

लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा ॥

प्रकृतौ विद्यमानोऽग्निरनुद्देशादलक्षितः ।

उद्देश्येन्द्रो लक्षितोऽतो विकृतावपि तत्तथा” ॥

सोमस्याग्ने त्रीहीत्यनुयजतीति श्रुयते । तत्रानुवषट्कारस्य । मान्त्रवर्णिकोऽग्निर्देवता । न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् । मन्त्रे वह्निं संबोध्य सोम पातृत्वाभिधानात् । तस्मादग्निलक्षणीय इति चेन्न । प्रकृतावलक्षितत्वात् । ऐन्द्राचमसः प्रकृतिरितरे विकृतिरूपाः । तथा हि-ऐन्द्रः सोमो गृह्यते मयिते च । ते नैन्द्रेष्वेव सोमः । अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव । अनैन्द्रा अधर्मकाः । धर्माकाङ्क्षायां चोदकेन सधर्मका इति विकृतित्वम् । गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वमिन्द्राय त्वा वसुमते इत्यादिग्रहणमन्त्रादवगम्य ते । तस्य प्रकृतिभूतस्येनद्रचमसस्य भक्षणेऽग्निरनुवषट्कारदेवो नोपलक्षितः । कुतः । ग्रहणे तदुद्देशाभावात् । इन्द्रस्तूद्देश्यत्वादुपलक्षितः एवं विकृतावप्युद्देश्यदेवानामेवोपलक्षमं न्याय्यम् । तस्मादग्निर्नोपलक्ष्यः ।

तत्रैवान्यच्चिन्तितम् -

“अमन्त्रप (भ) क्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् ।

ऊहोऽस्ति नो वा सोऽस्त्यत्र विकृतौ तस्य संभवात् ॥

सोमेनेति विधेः सर्वप्रदानेषु समत्वतः ।

अविकारेष्वनूहोऽतो नैन्द्रै निर्मन्त्रभक्षणम्” ॥

उक्ताभ्यः पञ्चभ्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नधिकरणे योऽयमनैन्द्रैष्वमन्त्रभक्षणमिति प्रथमः पूर्वः पक्षस्तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते । अनैन्द्रेषूक्तरीत्या विकृतित्वेनोहसंभवादस्त्यूह इति चेन्न । अनैन्द्राणां विकृतित्वासंभवात् । सोमेन यजेतेत्युत्पत्तिश्रुतः सोमः कर्मणोऽङ्गं न तु प्रदानविशेषस्य कस्यचिदङ्गम् । स एव च सोमः सर्वपदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि । अत ऐन्द्राणामनैन्द्राणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः ।

इन्द्राय त्वा वसुमत इत्यादिमन्त्रो लिङ्गादैन्द्रमात्रविषयत्वादनैन्द्रैष्वमन्त्रभक्षः ।

तत्रैवान्यच्चिन्तितम् —

“समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम ।

ऐन्द्राग्नेऽपीन्द्रपीतत्वसंभवात्तत्समन्त्रकम् ॥

न पानमशरीरस्य युक्तं दानं तु मिश्रितम ।

मन्त्रोऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम्” ॥

यदेतदैन्द्राग्नं गृह्णातीति विहितं शेषभक्षणं तत्रैन्द्राग्निभ्यां पीतः सोम इन्द्रेणादि पीतो भवतीति लिङ्नैव विनियोगात्समन्त्रकं भक्षणमिति चेन्मैवम् । नव माध्याये यक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य दानासंभवात् । अथ पीतशब्देन दानं विवक्ष्येत तदानीमिन्द्राय दत्तः सोम इति मन्त्रार्थो भवति । न चात्र यजमान इन्द्रमुद्दिश्य ददौ किंत्विन्दाग्नी उद्दिश्य । तस्माद्दानं मिश्रविषयं, मन्त्रस्तु न मिश्रविषय इत्यमन्त्रकमत्र भक्षणम् । अत्रैवान्यच्चिन्तितम्-

ऐन्द्रदानेऽपि गायत्रमात्रयुक्तेऽथवेतरैः ।

छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे यथोक्तितः ॥

द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् ।

नानाछन्द्रस्यैन्द्र एव कृत्वाचिन्तेत्थमीरिता ॥

सवनार्थेन्द्रपीतोक्तिरित्युद्घाटनमीरितम् ।

तेन सर्वप्रदानेषु मन्त्रपाठो यथास्थितः ॥

तस्मिन्नेव भक्षमन्त्रे गायत्रछन्दस इन्द्रपीतस्येति श्रूयते । गायत्रमेव च्छन्दो यस्येति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षणमन्त्र इति चेन्मैवम् । बहुच्छन्दोयुक्तेऽपि बहुव्रीहेः समानत्वादेवकारं परित्यज्य गायत्रे छन्दो यस्येतिविग्रहसंभवात् । एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति । तस्मान्नानाछब्दस्के सोम ऐन्द्रप्रदान एव मन्त्रो नान्यत्र । तदेवं कृत्वाचिन्तात्रवं समापितम् । द्विविधा कृत्वाचिन्तोद्धाटना तु प्रागेव सिद्धान्तिना दर्शिता ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥५ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ भक्षानुवाकः । तत्र ग्रहणावेक्षणभक्षणादिषु यथालिङ्गं विनियोगः । तत्र भक्षणायाह्रियमाणं सोमं प्रतिगृह्णाति - भक्षेहीति ॥ भक्ष्यत इति भक्षः । हे भक्ष । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । एहि आगच्छ । गुणे कृते, 'अन्तादिवच्च' इति तस्य आङ्ग्रहणेन ग्रहणात् 'ओमाङोश्च' इति पररूपत्वम् । स त्वं मामाविश भक्षितोन्तः प्रविश दीर्घायुत्वाय । तादर्थ्ये चतुर्थी । मम दीर्घमायुर्यथा स्यादिति । बहुव्रीहौ छान्दसोन्त्यलोपः । शन्तनुत्वाय आरोग्याय रायो धनस्य पोषाय पुष्ट्यर्थम् । पूर्ववत्सत्वम् । वर्चसे दीप्तये बलाय वा । सुप्रजास्त्वाय शोभनापत्यत्वार्थं मामाविशेति । एहि वसो वासहेतो सर्वेषां, आगच्छ हे पुरोवसो पुरस्ताद्वसो वासयितॄणां पूर्वधनानां वा, प्रथमं मे मम हृदयस्य प्रियोसि, प्रीणयिताऽसि उपकारकत्वात् । अश्विनोर्बाहुभ्यां त्वां सघ्यासं गृह्लामि । आत्मनस्स्वातन्त्र्यनिवृत्यर्थमेवमुक्तम् । सघिः ग्रहणकर्मा छान्दसः ॥
2 अवेक्षते - नृचक्षसमिति ॥ नॄन् चष्टे पश्यतीति नृचक्षाः । 'गतिकारकयोरपि' इत्यसुन्, कृदुत्तरपदप्रकृतिस्वरत्वम् । ईदृशं त्वां हे देव सोम त्वत्प्रसादात् सुचक्षाः सुष्ठु द्रष्टा अहम् । पूर्ववदसुन् । अवख्येषम् । अवचष्टेराशिषि लिङ्, ख्यादेशः, लिङ्याशिष्यङ्, अतो येयः ॥
3 मन्द्राऽभिभूतिरिति प्रातस्सवने सर्वानैन्द्रान् भक्षयति । नराशंसपीतस्येति नराशंसान् - मन्द्रा मदकरी, अभिभूतिः अभिभवित्री सर्वशरीरस्य, केतुः प्रधानभूता यज्ञानां; तदधीनत्वात्सर्वप्रवृत्तीनाम् । ईदृशी वाक् जुषाणा प्रीयमाणा सोमस्य तृप्यतु सोमेन पीतेन तृप्ता भवतु । यद्वा - सोमस्य जुषाणा सेवमाना सोममाप्रियमाणा वाक् तृप्यतु । मन्द्रा स एवार्थः । स्वर्वाची सुष्ठु अस्मदाभिमुख्येन प्रवर्तमाना । अव्ययपूर्वपदप्रकृतिस्वरत्वम्, 'उदात्तस्वरितयोर्यणः' इति संहितायामकारस्स्वर्यते । अदितिः अखण्डनीया । कर्मणि क्तिन् । अनाहतशीर्ष्णी अप्रतिबद्धप्रारम्भा । 'शीर्षन् छन्दसि' इति शिरसश्शीर्षन्भावः, 'अन उपधालोपिनः' इति ङीष् । वाग्जुषाणेत्यादि । गतम् । हे विश्वचर्षणे विश्वचर्षणयो मनुष्याः स्वभूता यस्य स तादृशः । एहि आगच्छ । यद्वा - विश्वज्ञानहेतो अस्मानागच्छ । शम्भूः शान्तोर्निवृत्तिलक्षणस्य वाक्सुखस्य भावयिता मयोभूः सुखस्य भावयिता प्रवृत्तिलक्षणस्य । उभयत्रापि पूर्ववण्णिलुक् । ईदृशस्सन् स्वस्ति अविनाशेन ऊर्ध्वाधोगमनरहितः मां प्रचर प्रविश हे हरिवर्ण हरितवर्ण मनोहरवर्ण वा । क्रत्वे क्रत्वर्थम् । 'जसादिषु वा वचनम्' इति 'घेर्ङिति' इति गुणाभावः । दक्षाय उत्साहार्थं, रायसोषाय धनस्य पुष्त्यर्थं, सुवीरतायै शोभनवीर्यतायै च ॥
4 अथ परोष्णिक्, गायत्री वा - मा मां राजन्निति ॥ हे राजन् सोम मां मा विबीभिषः मा विभीषथाः ऊर्ध्वमधो वा निर्गच्छन् भीतिं मा जीजनः । व्यत्ययेनात्मनेपदाभावः । यद्वा - ऊर्ध्वाधोगमनेन मां मा विभीषथाः । हेतुभयाभावात् आत्मनेपदाभावः, षुगागमश्छान्दसः । मा मे हार्दि त्विषा दीप्त्या त्वदीयया मा वधीः । हृदये भवा अभिप्राया हार्दाः, तद्युक्तं मनो हार्दि । 'हृदयस्य हृल्लेख' इति हृद्भावः । कानि पुनस्तान्यभिप्रेतानीत्याह - वृषणे सेकसामर्थ्याय सेक्त्रे वा । उपधालोपाभावश्छान्दसः । शुष्माय बलाय आयुषे संपूर्णाय वर्चसे दीप्तये ॥
5 वसुमद्गणस्य वसुमान् गणो यस्य स तथोक्तः । अष्टौ वसवः तत्रावयवेन समुदायो गणस्तद्वानिति मत्वर्थोपपत्तिः । कश्चिदाह - वसुमान् धनवान् गण ऋत्विक्सङ्घो यस्येति । तस्य रुद्गवद्गणस्येत्यादि अघटमानं स्यात् । हे सोम देव दीप्तिमन् ते तव मति विदः सर्वेषां मतानि जानतः अभिमतानां लम्भयितुर्वा प्रातस्सवनस्य प्रातस्सूयत इति प्रातस्सवनं, कर्मणि ल्युट्, 'अनो भावकर्मवचने' इत्युत्तरपदान्तोदात्तत्वम् । गायत्रछन्दसः । गायत्र्येव गायत्रं, तदेव छन्दो यस्य स्तोत्रादिषु तादृशस्य विश्वजनादित्वात्तुगभावः । इन्द्रपीतस्य इन्द्रेण प्रथमं पीतस्य । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्रस्य सर्वदेवतामयत्वात् सर्वत्रैवमप्यन्यदेवते । नराशंसपीतस्य नरैश्शंसन्ति पानं ये भक्षणे ते नराशंसाः

देवताविशेषाः । यद्वा - नरैश्शंसनीया नराशंसाः तैः पीतो नराशंसपीतः तस्य । यत्तेन पदेन नराशंसानामेव भक्षणं भक्षिताप्यायिता नराशंसाश्चमसाः । पूर्ववत्स्वरः, पूर्ववदेव 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । पितृपीतस्य पितृभिरस्मत्पूर्वैः पीतस्य । स एव स्वरः । मधुमतः मधुररसवतः उपहूतस्य इन्द्रादिभिरनुज्ञातस्य ईदृशस्य तव अहं उपहूतः देवैस्सहभक्षिभिरनुज्ञातः भक्षयामि । सर्वत्र कर्मणि षष्ठी ॥

6 अथ माध्यन्दिने सवने - रुद्रवद्गणस्येत्यादि ॥ माध्यन्दिनस्येति । दिनस्य मध्यं मध्यन्दिनम् 'मध्यो मध्यन्दिनं चास्मात्' इति । तत्र भवं माध्यन्दिनम् । तस्य सवनस्य सूयमानस्य सोमस्य तव भक्षयामीति । एवमेतादृशसोमसंबन्धात् प्रातस्सवनादयश्शब्दाः कर्मणि वर्तन्ते । गतमन्यत् ॥
7 अथ तृतीयसवने - आदित्यवद्गणस्येति ॥ तृतीयस्य सवनस्य सूयमानस्य तव भक्षयामीति । एवं सोमविशेषणतया नीतानि दश पदानि षष्ठ्यन्तानि । इतरथा इन्द्रपीतस्येत्याद्यघटमान् स्यात् । वैयधिकरण्यं तु क्लिष्टमिति ॥
8 चमसानाप्याययति - आप्यायस्वेति गायत्र्या ॥ हे सोम आप्यायस्व वर्धस्व मा भक्षित इति क्षेष्ठाः, समेतु संगच्छतु ते त्वाम् । कर्मणि षष्ठी । विश्वतः सर्वतः । वृष्णियं वीर्यम्, वृष्णिसंभवं वृष्णियं, दिगादित्वाद्यत्, 'यतोऽनावः' इत्याद्युदात्तत्वम् । वाजस्यान्नस्य संगथे संगमने अस्माकं भव तन्निमित्तं भव 'द्व्यचोतस्तिङः' इति संहितायां दीर्घत्वम् । गमेरौणादिकः स्थन् ॥
9 भक्षयित्वा आत्मानमभिमृशति - हिन्वेति पथ्याबृहत्या ॥ तृतीयस्य द्वादशाक्षरत्वात् । हे हरिवः हरितवर्ण । 'मतुवसोः' इति रुत्वम् । मे मम गात्रा गात्राणि हिन्व प्रीणय । हिवि प्रीणने, इदित्वान्नुम् । मे मदीयान् गणान् पुत्रादीन् मा वितीतृषः वितृष्णान् मा कार्षीः पुनःपुनः पातॄन् कुरु । किंच - शिवो भूत्वा मे मदीयान् सप्त ऋषीन् अरिषितॄन् प्राणान् शीर्षण्यान् द्वेद्वे चक्षुषी श्रोत्रे नासिके एकमास्यमिति, तानुपतिठस्व । ऋषि गतौ, औणादिक इनिप्रत्ययः । उपस्थानमुपेत्य तर्पणं तदर्थं मे मम नाभिमतीत्य अवाक् अधस्तात् मा गाः मा गमः । अवपूर्वादञ्चतेः क्विनि 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् ॥
10 आदित्यमुपतिष्ठते - अपामेति त्रीष्टुभा ॥ अपाम सोमम् । पिबतेर्लुङि 'गातिस्थ' इति सिचो लुक् । अमृता अमरणाः अभूम भविष्यामः । प्रत्यक्षविरोधात् व्यत्ययेन भविष्यति लुङ् । यद्वा - 'आशंसायां भूतवच्च' इति भविष्यदर्थे लुङ् । अमृता भूयास्मेत्याशास्यते, तेनैव सिचो लुक् । 'नञो जरमरमित्र' इत्युत्तरपदान्तोदात्तत्वम् । अदर्श्म द्रक्ष्यामः ज्योतिः द्योतमानं वस्तु स्वर्गं आदीत्यं वा । छान्दसः सिचो लोपः । अविदाम ज्ञास्यामः देवान् । व्यत्ययेन च्लेरङ् । यद्वा - अविदाम लप्स्यामहे । ऌदित्वादङ् । अत्र प्रथमस्याख्यातस्यापादादित्वान्निघाताभावः । द्वितीयं निहन्यत एव । तृतीयं पादादित्वान्निहन्यते । चतुर्थं तु समानवाक्ये पदात्परत्वाभावान्न निहन्यते । एवममृतभूतानस्मान् अरातिः शत्रुः मृत्युर्वा किं कृणवत् किं कुर्यात् । कृवि हिंसाकरणयोः, इदित्वान्नुम्, 'धिन्विकृण्व्योरच' इत्युप्रत्ययः, लेटोडाटौ, इत्यडागमः । मर्त्यस्य मरणधर्मिणो मनुष्यस्य धूर्तिः हिंसा इदानीमस्मान् किमु किमेव कुर्यात् अमृतानस्मान् । विभक्तेर्लुक् छान्दसः, निघातश्च । यद्वा - अमृतेति सोम आमन्त्र्यते । तेन अमन्त्रितानामनुदात्तत्वं प्रवर्तते । धुर्वेः 'क्तिच्क्तौच' इति क्तिच् ॥
11 आग्नीध्रे स्रुवाहुतिं जुहोति - यन्म आत्मन इति द्वाभ्याम्, प्रथमा त्रिष्टुप् जगती वा । 'तत्' इति प्रथमपादान्तः । त्रिपदा गायत्री । 'अग्निस्तत्पुनराहाः' इति द्वितीयः पादः । द्वितीयाऽनुष्टुप् ॥ मे मम आत्मनः यत्किंचित् केन चिन्निमित्तेन प्रमादादिना मिन्दा मिन्दितं गलितं क्रान्तमभूत् । 'यद्वै यज्ञस्य न्यूनं क्रियते तच्छिद्रं तेन यज्ञः पराभवति यज्ञमनु यजमानो यजमानमनु प्रजाः पशवश्च' इति दर्शनात् । मिदि स्नेहने । 'गुरोश्च हलः' इत्यकारप्रत्ययः । यदिति सामान्यविवक्षया नपुंसकत्वम्, यथा - 'एष वै यजमानः । यद्यूपः' इति । अग्निः जातवेदाः जातानां वेदिता विचर्षणिः विशिष्टदशर्नः तत्पुनः आहाः आहरतु । छान्दसे लिङि सिचि वृद्धौ 'बहुलं छन्दसि' इतीडभावे हल्ङ्यादिसंयोगान्तलोपौ ॥
12 अथ द्वितीया - पुनरिति ॥ पुनः मह्यं अग्निश्चक्षुरदात् ददातु । स एव लुङ्' 'गातिस्थ' इति सिचो लुक् । इन्द्रश्च बृहस्पतिश्च पुनश्चक्षुरदादित्येव । बृहस्पतेस्सुडुदात्तत्वे उक्ते । हे अश्विना अश्विनौ युवं युवामपि पुनर्मे चक्षुर्दर्शनसामर्थ्यं अक्ष्योः अक्ष्णोः आधत्तं स्थापयतम् । 'ई द्विवचने' इतीकारः, स चोदात्तः, तेन 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् ॥
13 अथ हारियोजने धानानां भक्षणमन्त्रः - इष्टयजुष इत्यादि यजुः ॥ हे देव सोम ते तव त्वां भक्षयामि । पूर्ववत्कर्मणि षष्ठी कीदृशस्य? इष्टयजुषः । इष्टमेभिरिति छान्दसः करणे क्तः । इष्टानि यजूंषि यस्य । स्तुतस्तोमस्य स्तुताः स्तोमाः यस्य । शस्तोक्थस्य शस्तानि शस्त्राणि यस्य तादृशस्य, हरिवत इत्यादि । गतम् ॥
14 धाना निर्णिज्योत्तरवेद्यां सन्निवपति - आपूर्या इति द्विपदया गायत्र्या ॥ आपूर्याः आपूर्णा एव यूयं स्थ । भक्षणेन न क्षयः कश्चिदस्माभिः कृतः । कर्तरि कृत्यः । यद्वा - करणे । आपूर्यः स्थ । तस्मान्मामापूरयत प्रजया च धनेन च ॥
15 -17तिस्रो धाना ददाति - एतत्ते ततेति ॥ 'सोमाय पितृमते' इत्यत्रैतद्व्याख्यातम् । हे तत तात एतदशनं तव ये चान्ये त्वामनुगताः । एतत्ते पितामह, ये च त्वामनुगताः । एतत्ते प्रपितामह, ये च त्वामनुगताः । इदानीं सामान्येनोच्यते - हे पितरः पितामहाः प्रपितामहाः अत्र यथाभागं मन्दध्वं तृप्यतेति ॥
18 षद्भिर्नमस्कारैरुपतिष्ठते - नमो व इति ॥ हे पितरः युष्मभ्यं नमः नमस्करोमि रसाय रसार्थं रसवान् भूयासमिति । 'पितरो नमो वः' इत्यादिकं षट्स्वप्यजुषज्यते । शुष्मो बलम् । जीवः प्राणः । स्वधा अन्नम् । मन्युर्दीप्तिः, क्रोधो वा । घोरः क्रूरम् । एतयोः स्थाने प्राधान्यं प्रार्थ्यते । हे पितरः युष्मभ्यं नमः । फलमनपेक्ष्य सप्तमोयं नमस्कारः क्रियते । पुनर्वचनं फलनिरपेक्षया नमस्कारार्थम् । अन्य आहुः - पितृसंबन्धिभ्यो रसादिभ्यः प्रथमं षण्णमस्काराः, ततः पितृभ्य एव सप्तम इति । ये एतस्मिन् लोके पितरः स्थ । एतस्मिन्निति पितृलोकं व्यपदिशति । स्थेति सर्वपित्रभिप्रायेणोक्तम् । ते सर्वे युष्माननुसन्तु युष्मत्प्रधाना भवन्तु । 'हीने' इत्यनोः कर्मप्रवचनीयत्वम् । युष्मानिति पित्रादित्रयं व्यपदिशति । अस्मिन् मनुष्यलोके मनुष्याः स्थ, ते सर्वे मामनु सन्तु मत्प्रधाना भवन्तु । ये यूयमेतस्मिन् लोके स्थ तेषां पितॄणां यूयं वसिष्ठाः वसुमत्तमा भूयास्त । येऽस्मिन् लोके सन्ति मनुष्यास्तेषां मनुष्याणामहं वसिष्ठो वसुमत्तमो भूयासम् । वसुशब्दादिष्ठनि 'विन्मतोर्लुक्' इति लुक्, 'टेः' इति टिलोपः ॥
19 प्राजापत्यया त्रैष्टुभा गार्हपत्यमुपतिष्ठते - प्रजापत इति ॥ व्याख्याता चेयं 'सोमस्य त्विषिरसि' इत्यत्र । हे प्रजापते तान्येतानि विश्वानि जातानि भूतानि त्वत्तोन्यः कश्चिदपि परिभवति निजेन महिम्ना व्याप्नोति । यत्कामास्ते जुहुमो वयं तदस्माकमस्तु । किं च - वयं रयीणां पतयः स्याम भूयास्मेति ॥
20 -22शकलैश्चरन्ति - देवकृतस्येति ॥ देवादिविषये यदस्माभिः कृतमेनः अधर्मः तस्यावयजनं नाशनं असि । 'क्षेपे' इति सप्तम्यास्समासः, सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । यद्वा - देवादिभिरस्मद्विषये, यत्कृतमेनःफलं दुखं तस्यावयजनमसि । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्ववम् । एतेनोभे व्याख्याते ॥
23 अथावभृथभक्षमन्त्रः - अप्सु धौतस्येत्यादि ॥ अप्सु धौतस्य प्रक्षाळितस्य नृभिः मनुष्यैः चेतनैः अभिषुतस्य । इष्टयजुष इत्यादि । व्याख्यातम् । हे सोम देव तवेदृशस्य यो भक्षः भक्षणं अश्वसनिः अश्वानां संभक्ता । यो गोसनिः गवां संभक्ता । 'छन्दसि वनसन' इतीन्प्रत्ययः । तस्य ते तव पितृभिः भक्षंकृतस्य । 'च्वौ' इतीत्वापवादः पूर्वपदस्य छान्दसो मुमागमः, 'ऊर्यादिच्विडाचश्च' इति गतित्वात् 'गतिरन्तरः' इति तस्य प्रकृतिस्वरत्वम् । उपहूतस्येत्यादि । गतम् ॥
इति तृतीये द्वितीये पञ्चमोनुवाकः ॥