गाः ॥ अपा॑म॒ सोम॑म॒मृता॑ अभू॒माऽद॑र्श्म॒ ज्योति॒रवि॑दाम दे॒वान् । किम॒स्मान् कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥यन्म॑ आ॒त्मनो॑ मि॒न्दाऽभू॑द॒ग्निस्तत् पुन॒राऽहा᳚र्जा॒तवे॑दा॒ विच॑र्.षणिः ॥ पुन॑र॒ग्निश्चक्षु॑रदा॒त्-पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒वं चक्षु॒रा ध॑त्तम॒क्ष्योः ॥ इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य - [ ]
पदपाठः (Word-by-word)
गाः॒ ॥ अपा॑म । सोम᳚म् । अ॒मृताः᳚ । अ॒भू॒म॒ । अद॑र्श्म । ज्योतिः॑ । अवि॑दाम । दे॒वान् ॥ किम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा॑तिः । किम् । उ॒ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य॑स्य ॥ यत् । मे॒ । आ॒त्मनः॑ । मि॒न्दा । अभू᳚त् । अ॒ग्निः । तत् । पुनः॑ । एति॑ । अ॒हाः॒ । जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ । विच॑र्.षणि॒रिति॒ वि - च॒र्॒.ष॒णिः॒ ॥ पुनः॑ । अ॒ग्निः । चक्षुः॑ । अ॒दा॒त् । पुनः॑ । इन्द्रः॑ । बृह॒स्पतिः॑ ॥ पुनः॑ । मे॒ । अ॒श्वि॒ना॒ । यु॒वम् । चक्षुः॑ । एति॑ । ध॒त्त॒म् । अ॒क्ष्योः ॥ इ॒ष्टय॑जुष॒ इती॒ष्ट-य॒जु॒षः॒ । ते॒ । दे॒व॒ । सो॒म॒ । स्तु॒तस्तो॑म॒स्येति॑ स्तु॒त - स्तो॒म॒स्य॒ ।