स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मि॑न् ॅलो॒केस्थ यु॒ष्माꣳस्तेऽनु॒ ये᳚ऽस्मिन् ॅलो॒के मां तेऽनु॒ य ए॒तस्मि॑न् ॅलो॒के स्थ यू॒यं तेषां॒ ॅवसि॑ष्ठा भूयास्त॒ ये᳚ऽस्मिन् ॅलो॒के॑ऽहं तेषां॒ ॅवसि॑ष्ठो भूयासं॒ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
पदपाठः (Word-by-word)
स्व॒धाया॒ इति॑ स्व - धायै᳚ । नमः॑ । वः॒ । पि॒त॒रः॒ । म॒न्यवे᳚ । नमः॑ । वः॒ । पि॒त॒रः॒ । घो॒राय॑ । पित॑रः । नमः॑ । वः॒ । ये । ए॒तस्मिन्न्॑ । लो॒के । स्थ । यु॒ष्मान् । ते । अन्विति॑ । ये । अ॒स्मिन्न् । लो॒के । माम् । ते । अन्विति॑ । ये । ए॒तस्मिन्न्॑ । लो॒के । स्थ । यू॒यम् । तेषा᳚म् । वसि॑ष्ठाः । भू॒या॒स्त॒ । ये । अ॒स्मिन्न् । लो॒के । अ॒हम् । तेषा᳚म् । वसि॑ष्ठः । भू॒या॒स॒म् । प्रजा॑पत॒ इति॒ प्रजा᳚-प॒ते॒ । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा᳚ । जा॒तानि॑ । परीति॑ । ता । ब॒भू॒व॒ ॥