यत् का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣳ स्या॑म॒ पत॑यो रयी॒णां ॥ दे॒वकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि मनु॒ष्य॑कृत॒स्यैन॑सो ऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सो ऽव॒यज॑नमस्य॒फ्सु धौ॒तस्य॑ सोम देव ते॒ नृभिः॑ सु॒तस्ये॒ष्ट य॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षोअ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षं कृ॑त॒स्यो-प॑हूत॒स्योप॑हूतो भक्षयामि ॥
पदपाठः (Word-by-word)
यत्का॑मा॒ इति॒ यत् - का॒माः॒ । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥ दे॒वकृ॑त॒स्येति॑ दे॒व - कृ॒त॒स्य॒ । एन॑सः । अ॒व॒यज॑न॒मित्य॑व - यज॑नम् । अ॒सि॒ । म॒नु॒ष्य॑कृत॒स्येति॑ मनु॒ष्य॑ - कृ॒त॒स्य॒ । एन॑सः । अ॒व॒यज॑न॒मित्य॑व - यज॑नम् । अ॒सि॒ । पि॒तृकृ॑त॒स्येति॑ पि॒तृ - कृ॒त॒स्य॒ । एन॑सः । अ॒व॒यज॑न॒मित्य॑व - यज॑नम् । अ॒सि॒ । अ॒फ्स्वित्य॑प्-सु । धौ॒तस्य॑ । सो॒म॒ । दे॒व॒ । ते॒ । नृभि॒रिति॒ नृ - भिः॒ । सु॒तस्य॑ । इ॒ष्टय॑जुष॒ इती॒ष्ट - य॒जु॒षः॒ । स्तु॒तस्तो॑म॒स्येति॑ स्तु॒त - स्तो॒म॒स्य॒ । श॒स्तोक्थ॒स्येति॑ श॒स्त - उ॒क्थ॒स्य॒ । यः । भ॒क्षः । अ॒श्व॒सनि॒रित्य॑श्व - सनिः॑ । यः । गो॒सनि॒रिति॑ गो - सनिः॑ । तस्य॑ । ते॒ । पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । भ॒क्षं कृ॑त॒स्येति॑ भ॒क्षं - कृ॒त॒स्य॒ । उप॑हूत॒स्येत्युप॑ - हू॒त॒स्य॒ । उप॑हूत॒ इत्युप॑ - हू॒तः॒ । भ॒क्ष॒या॒मि॒ ॥