प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.8.1 TS 3.2.8.1
श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे होत्रा॑णाꣳ॒॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒ होत्रा॑णाꣳ॒॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपाः सुवर्वा॒ट्थ्स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृं॒पन्ताꣳ॒॒ होत्रा॒ मधो᳚र्घृ॒तस्य॑ य॒ज्ञ्प॑ति॒मृष॑य॒ एन॑सा - [ ]
पदपाठः (Word-by-word)
श्ये॒नाय॑ । पत्व॑ने । स्वाहा᳚ । वट् । स्व॒यम॑भिगूर्ता॒येति॑ स्व॒यं - अ॒भि॒गू॒र्ता॒य॒ । नमः॑ । वि॒ष्ट॒भांयेति॑ वि - स्त॒भांय॑ । धर्म॑णे । स्वाहा᳚ । वट् । स्व॒यम॑भिगूर्ता॒येति॑ स्व॒यं - अ॒भि॒गू॒र्ता॒य॒ । नमः॑ । प॒रि॒धय॒ इति॑ परि - धये᳚ । ज॒न॒प्रथ॑ना॒येति॑ जन - प्रथ॑नाय । स्वाहा᳚ । वट् । स्व॒यम॑भिगूर्ता॒येति॑ स्व॒यं - अ॒भि॒गू॒र्ता॒य॒ । नमः॑ । ऊ॒र्जे । होत्रा॑णाम् । स्वाहा᳚ । वट् । स्व॒यम॑भिगूर्ता॒येति॑ स्व॒यं - अ॒भि॒गू॒र्ता॒य॒ । नमः॑ । पय॑से । होत्रा॑णाम् । स्वाहा᳚ । वट् । स्व॒यम॑भिगूर्ता॒येति॑ स्व॒यं - अ॒भि॒गू॒र्ता॒य॒ । नमः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा-प॒त॒ये॒ । मन॑वे । स्वाहा᳚ । वट् । स्व॒यम॑भिगूर्ता॒येति॑ स्व॒यं - अ॒भि॒गू॒र्ता॒य॒ । नमः॑ । ऋ॒तम् । ऋ॒त॒पा॒ इत्यृ॑त - पाः॒ । सु॒व॒र्वा॒डिति॑ सुवः - वा॒ट् । स्वाहा᳚ । वट् । स्व॒यम॑भिगूर्ता॒येति॑ स्व॒यं - अ॒भि॒गू॒र्ता॒य॒ । नमः॑ । तृ॒पंन्ता᳚म् । होत्राः᳚ । मधोः᳚ । घृ॒तस्य॑ । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । ऋष॑यः । एन॑सा ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)

प्रसूतिमन्त्रणं प्रोक्तं सप्तमे स्तुत शस्त्रयोः ।

अथाष्टमे तृतीयसवनगता माध्यंदिनसवनगता होमविशेषमन्त्रा उच्यन्ते ।

कल्पः — “अथ चमसाज्जुहोति श्येनाय पत्वने स्वाहेति वषट्कृते जुहोति वट्स्वयमभिगूर्ताय नमः स्वाहेत्यनुवषट्कृते, एवमुत्तरैः प्रचरत्येतावन्नापूर्वेण मन्त्रेण वषट्कृते वषट्कृते जुहोत्युत्तरेणानुवष्ट्कृते” इति । पाठस्तु —

श्येनाय षत्वन इति । श्येनरूपाय पतनशीलाय ‘इन्द्र ऋभुभिः’ इत्यनया याज्यया प्रतिपाद्याय देवाय स्वाहा हुतमिदमस्तु । वट्शब्दोऽऽवश्यमित्यस्मिन्नर्थे वर्तते । स्वयमेव सोमपार्श्वे गन्तुमद्यतः स्वयमभिगूर्तोऽवश्यं स्वयमभिगूर्ताय नमोऽस्तु । विष्टम्भाय विष्टम्भयित्रे शात्रूणां विनाशयित्रे धर्मणे धारकायास्माकं पोषकायेन्द्रावरुणा सुतपाविति याज्यया प्रतिपाद्याय देवाय स्वाहुतम् । परिधये परितो धारयित्रे जनपथनाय जनानां प्रश्यापनायेन्द्रश्च सोमं पिबतमिति याज्यया प्रतिपाद्याय स्वाहुतम् । होत्राणां होमर्तॄणामूर्ज ऊर्ग्रुमायान्नप्रदायाऽऽवो वहन्तु सप्रय इति याज्यया प्रतिपाद्याय स्वाहुतम् । होत्राणां होमकतॄणां पयसे क्षीरप्रदायामेव नः सुहवा इति याज्यया प्रतिपाद्याय स्वाहुतम् । प्रजापतये प्रजानां पालकाय, गनवेऽस्माभिर्मन्तव्याय’ इन्द्राविष्णू पिबतम्’ इति याज्यया प्रतिपाद्याय स्वाहुतम् । हे ऋतपा, त्तत्यपालक हे सुवर्वाट् स्वर्गप्रापक ऋतमस्मदीयं यज्ञं पालयेति शेषः । तस्मै तुभ्यमिमं स्तोममर्हत इति याज्यया प्रतिपाद्याय स्वाहुतम् । त एते प्रस्थितयाज्यहोमाः ।

कल्पः — “तुम्पन्ता होत्रा इति सर्वान्हुत्वा जपति” इति । पाठस्तु —

तृम्पन्तामिति । होत्रा मधोर्घृतस्यति ह्यमाना देवा मधुरेण घृतेन तृप्यन्तु । त एत मन्त्रास्तुतीयसवनगताः कदाचन स्तरीरित्यस्मादनुवाकदूर्ध्वं द्रष्टव्याः ।

कल्पः — “यज्ञपतिमृषय एनसाऽऽहुरित्याग्नीघ्रीये पञ्च वैश्वकर्मणानि हुत्वा” इति । तत्र प्रथमामृचमाह —

यज्ञपतिमृषय इति । यदा प्रजाः सर्वा निर्भक्ता अन्नरहिता अनुतप्यमाना भवन्ति तदानीं यज्ञपतिमेनसा संयुक्तमृषयः सर्वेऽप्याहुः । यज्ञपत्यपराधादेव वृष्ट्याद्यभावे सत्यन्नाभावे प्रजानामनुतापो जायते । कोऽयं यज्ञपतेरपराध इति तदुच्यते — मधुर्वसन्तर्तुस्तत्संबन्धिनौ चैत्रवैशाखमासौ मधव्यौ स्तोकौ ज्योतिष्टोमानुष्ठानेन स्तोतुं योग्यौ । तादृशयोमासयोरनुष्ठानमकृत्वा तौ मासौ प्रत्यहं यज्ञपतिरपरराध, अनेनापराधेन पापी यजमान इत्यृषय आहुः । अतोऽयं विश्वकर्मा नोऽस्मान्यज्ञपतींस्ताभ्यां मासाभ्यां संसृजतु । यथा तयोर्मासयोर्ज्योतिष्टोममनुतिष्ठामस्तथा प्रेरयत्वित्यर्थः ।

अथ द्वितीयामाह--

घोरा ऋषय इति । पूर्वोक्त ऋषयस्ते घोरा उग्रा अस्मदपराधमन्विष्य पापीयानयमिति जनानामग्रे निन्दकत्वात् । अत एभ्य ऋषिभ्यो नमोऽस्तु नमस्कारेण शान्ताः सन्तोऽस्मान्मा निन्दन्तु । एषामृषीणां चक्षुषोऽस्माकं यनसश्च संधौ संधाननिमित्तं बृहस्पतये नमोऽस्तु । ऋषयो यथास्मान्समनुग्रहेण कटाक्षेण वीक्षन्ते वयं च यथा कर्मानुष्ठानेनापराधरहिताः सन्तो मनसा भक्तिं कुर्मस्तथाऽयं

बृहस्पतिरनुगृह्णातु । महि सद्द्युमदित्येतानि त्रीणि नमःशब्दस्य विशेषणानि । नमस्कारोऽयमष्टाङ्गोपेतत्वान्महान् । तदनुग्रहपर्यन्तमुत्पादनाभावदयं नमस्कारः सीदतीति सत् । भक्तिरसेनात्यन्तमाविर्भूतत्वाद्द्युमत् । विश्वविषयं कर्म सृष्ट्यादिरूपं यस्यासौ विश्वकर्मा प्रजापतिस्तस्मै नमोऽस्तु । स उ सोऽपि विश्वकर्माऽस्माननुष्ठानप्रवर्तनेन पातु । अथ तृतीयामाह — अनन्यानिति । हे विश्वकर्मन्ननन्यांस्त्वद्व्यतिरेकेण गत्यन्तररहितानस्मान्सोमपान्मन्यमानोऽसोमपानप्येते सोमपा इत्येवानुग्रहं कुर्वन्पातुमर्हती (सी) ति शेषः । तत्र दृष्ठान्तः- प्राणस्य विद्वान्समरे न धीर इति । यथा लोके धीरः पुरुषः परकीयस्य प्राणस्याऽऽपदं विद्वान्समरे न युद्ध इव करुणया तं पाति तद्वत् । अयं यजमानः प्रमादालस्यादिकारिणा तमोगुणेन वृतः सन्नेषामृषीणामेनो महि चकृवान्महान्तमपराधं कृतवान् । तमपराधिनं प्रमुञ्च तस्मादपराधात्प्रकर्षेण मोचय । किमर्थं स्वस्तये विनाशराहित्याय । अथ चतुर्थीमाह —

ये भक्षयन्त इति । ये यष्टारो भक्षयन्तो न भक्षयन्त इव वसूनि धनान्यानृहुः पूजितवन्तो यज्ञभिक्षारूपेण धनमर्जयित्वा यज्ञमकृत्वैव भोगार्थं संगृहीतवन्त इत्यर्थः । धिष्ण्यनिवासिनोऽग्नयो यानन्वतप्यन्ताहो शोच्या एत इति तद्विषये खेदं कृतवन्तः । तेषां यष्टॄणां या दुरिष्टिर्दुष्टो यागो यागाभावस्तद्धेतुरेनश्च तस्या अवया विनाशयित्री येयमिष्टिर्यागस्तामिष्टिं नोऽस्माक विश्वकर्मा स्विष्टिं करोतु । अथ पञ्चमीमाह —

नमः पितृभ्य इति । य नोऽस्मानभ्यख्यन्नाभिमुख्येन पश्यन्ति ते यज्ञस्य कारयितारोऽस्माकं यज्ञं कामयमानाः सुदेवाः सुष्ठु द्योतमानास्तादृशा हे पितरो वयं प्रमादालस्यादिभिरकामा यज्ञं कर्तुमिच्छारहिताः सन्तो वो युष्मभ्यं दक्षिणां दक्षिणोपलक्षितं यज्ञं न नीनिम नैव नीतवन्तस्तस्मादेनसोऽस्मान्मा पापयिष्ट तेन पापेनास्मान्पापिष्ठान्मा कुरुत । तैरेतैर्मन्त्रैर्होमं विधत्ते —

यावन्तो वा इति । यज्ञसमायां द्रष्टुभागत्यावस्थिता ये ब्राह्मणास्ते सर्वे दक्षिणार्हस्तेषामदानेन यत्पापं तन्निवारणाय यथोक्तानि वैश्वकर्मणानि जुहुयात् । अयं च होम ऋत्विग्दक्षिणान्तरभावीति कृत्वा तन्मन्त्रा उदु त्यं जातवेदसमि त्यस्मावसाने द्रष्टव्याः —

कल्पः- ‘पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्यजमानः पुरस्तात्प्रत्यङ्तिष्ठन्सह पत्न्याऽऽशिरमवनयत्यस्मे देवासो वपुषे चिकित्सतेति चतसृभिः’ इति ।

आशिरशब्देन मथितं दध्यभिधीयते । आग्नीघ्रे पत्न्याशिरं मथित्वेति सूत्र कारेणोक्तत्वात् । तत्र प्रथमाया ऋचः पाठस्तु---

अस्मे देवास इति । देवासो हे देवा अस्मे अस्माकं वपुषे शरीराय चिकित्सत । अस्माकं शरीरं यथा पापरहितं भवति तथा कुरुतेत्यर्थः । यत्क्षीरं दोहनपात्रस्थमेवाक्षतादिप्रक्षेपेण घनी भवति तादृशं दधि रेफान्ताशीः शब्देनाभिधीयते । चिकित्साविशेषं प्राप्य दंपती पत्नीययमानावाशिरा दघ्ना यं वामं सौन्दर्यमश्नुतस्तेन कृत्वा पुमान् पुत्रो जायते वसु च विन्दते । अथापि च विश्व एतत्संबन्धिनः सर्वेऽरपा ज्ञानवन्तः । एतस्य गृह एधते । अथ् द्वितीयामाह —

आशीर्दायेति आशीर्दाया, आशिरं पूर्वोक्तं दधि दत्त इत्याशीर्दायौ । तादृशौ दंपती वाममश्नुतां कल्याणं प्राप्नुताम् । कीदृशौ दंपती । समोकसा सम्य गोको ययोस्तौ समोकसौ । द्वावेकगृहवासिनावित्यर्थः । अरिष्टो हिंसारहितः । पत्नीयुक्तो यजमानो रायो धनानि सचतां समवैतु प्राप्नोत्वित्यर्थः । यो यजमान इष्टेन सह प्रीत्या युक्तो यामन्नाधारभूते सोमे सुंतुग्धं यथोक्तदधिभावमापन्नं सम्यक्क्षीरं कुम्भ्या संपूर्णन घटेनाऽऽसिवत्सर्वतः सिक्तवान्स यजमानोऽमतिं रोणं दुर्बुद्धिं जहातु । अथ तृतीयामाह —

सर्पिर्ग्रीवीति । अस्य यजमानस्य जाया सर्पिर्ग्रीवी स्त्रिग्धकण्ठा कोमल ध्वनियुक्ता पीवरी पुष्टसर्वावयवयुक्ता भवतु । अस्य यजमानस्य पुत्राः पीवानः पुष्टसर्वाङ्गा अकृशासः कदाचिदपि व्याध्यादिजनितकार्श्यरहिताः सन्तु । यो यजमानः सुमखस्यमानः शोभनं यज्ञं कुर्तुमिच्छन्निन्द्रायाऽऽशिरं पूर्णया कुम्भ्या सहादात्मभूतं दत्तवानित्यर्थः । तस्वास्य यजमानस्य जायेति पूर्वत्रान्वयः । कीदृशो यजमानः । सहजानिः सहाविश्थिता जाया यस्यासौ सहजानिः । आशीर्दानकाले जायऽपि सहवस्तितेत्यर्थः । अथ चतुर्थीमाह —

आशीर्म इति । सक्रारान्तोऽयमाशीः शब्दः प्रार्थनामाचष्टे । इन्द्र य आशीर्ममेयं प्रार्थना भवानूर्जं दधातु मदर्थं धारयतु । प्रयच्छत्वित्यर्थः । उतापि च सुप्रजास्त्वं शोभनापत्यत्वभिषमन्नं द्रविणं सवर्चसं वर्चःसहितं प्रयच्छतु । अहं त्वत्प्रसादात्क्षेत्राणि वैरिसंबन्धीनि सहसा बलेन संजयन्स्वात्मनि धारयन्नन्यान्सपत्नान्वैरिणोऽधरान्कृण्वानोऽस्मदाज्ञाधारिणः कुर्वाणो भूयासम् । अस्याऽऽशि (शी) रवनयनस्य तृतीयसवनगताभिषवार्थत्वादेते मन्त्राः कदा चन वाममद्येत्यनयोरनुवाक्योर्मध्ये द्रष्टव्याः ।

कल्पः — “भूतमसि भूते मा धा इति प्रतिप्रस्थाता ध्रुवमवेक्ष्य” इति ।

पाठस्तु —

भूतमसीति । हे ध्रुव भूतमसि नित्यासिद्धस्वरूपमसि भृते नित्यसिद्धे स्वरूपे स्वार्गादौ परमात्मनि वा मा धा मां स्थापय । किंच मुखमसि सर्वेषु ग्रहेषु मुख्योऽसि । “आयुर्वा एतद्यज्ञस्य यद्ध्रुवः’ इति श्रुतेः । अतस्त्वत्प्रसादान्मुखं भूयासं सर्वेषां मुख्यो भूयासम् ।

द्यावापृथिवाभ्यामिति । कल्पः — “द्यावापृथिवीभ्यां त्वां परिगृह्णामीत्यञ्जलिना परिगृह्य” इति । हे ध्रुव द्यावापृथिवीसदृशाभ्यामञ्जलिपुटाभ्यां त्वां स्वी करोमि ।

कल्पः — “ विश्वे त्वा देवा वैश्वनराः प्रच्यावयन्त्विति ध्रुवं प्रच्याव्य” इति । पाठस्तु--

वि वे त्वेति । हे ध्रुव वैश्वानरा विश्वेषां नराणां हितकारित्वेन संवन्धिन’ सर्वे देवात्त्वां प्रच्यावयन्तु स्वस्थानाच्चालयन्तु । त्वं च दिवि देवान्दृढी कुरु” अन्तरिक्षे वयांसि पक्षिणो दृढी कुरु । पृथिव्यां पर्वतादीन्दृढी कुरु । न तु त्वदीयेन चलनेन सर्वं जगच्चालय । कल्पः — ध्रुवं ध्रुवेणेति पुरस्तात्प्रश्यङ्ङासीनो होतृचमसे ध्रुवमवनयति इति । पाठस्तु-

ध्रुवं ध्रुवेणेति । ध्रुवं ध्रुवेण हविषेदानीमवनीयमानेन ध्रुवस्थालीगतेन सोमरसेन पूर्वं होतृचमसे स्थितं ध्रुवं सोममवनयामसि अघस्तान्नयामस्तस्योपरि त्वां सिञ्चामि इत्यर्थः । यथा येन प्रकारेण नोऽस्माकं सर्वमिज्जगत्सर्वमेव जङ्गमं गवोदिकमयक्ष्मं रोगरहितं सुमनाः शोभनमनस्कमसद्भवेत् । यथा च नोऽस्माकं विशः प्रजाः सर्वा अपि केवला रोगरहिताः समनसोऽनुकूलमनलश्चेन्द्रः करदिन्द्रश्च कुर्यात् । यथा च नोऽस्माकं सर्वा इद्दिशो दिग्वर्तिन्यः सर्वा एव प्रजा अधीनाः स्युरिति शेषः । किंचास्माकं केवलीरसन्नसाधारण्येन वर्तेरन् । यथैतत्सर्वं सिध्यति तथा होतृचमसेऽवनयामीति पूर्वत्रान्वयः । त एते मन्त्रा बृहस्पति सुतस्य हरिरसीत्यनयोरनुवाकयोर्मध्ये द्रष्ठव्याः । अत्र विनियोगसंग्रहः —

श्येना तृतीयसवने सप्तभिश्चमसाहुतिः ।

वषट्कृते मन्त्रहोमो वडित्यनुवषट्कृते ॥

तृम्पन्तां सर्वचमसान्हुत्वा जपति मध्यमे ।

सवने वैश्वकर्माख्याहोमा मन्त्रैस्तु पञ्चभिः ॥

यज्ञ-घोरा-अनन्या-ये भक्षयन्तो — नपः पिभिः ।

पूतभृत्याशिरं त्वस्मे क्षिपन्मन्त्रचतुष्ठयात् ॥

भूतं घ्रुवमवेक्षेत प्रतिप्रस्थातृकर्म तत् ।

द्यावाऽञ्जलौ गृहीत्वा विश्वे होतृचमसे नयेत् ॥

ध्रुवमेकी करोत्यत्र मन्त्रान्तोऽसन्नितीरित ।

अष्टमे त्वनुवाकेऽस्मिन्नष्टाविंशतिरीरिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ॥८ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ - होतॄणां संतर्पणमन्त्राः - क्रमेण श्येनायेत्यादयः ॥ तत्र सप्तधिष्ण्याः गायत्र्यादिसप्तच्छन्दोरूपेणोच्यन्ते । नमस्कारान्ते वषट्कृते जुहोति । 'तृम्पन्तां होत्राः' इत्यनुवषट्कृते । श्येनाय श्येनवपुषे पत्वने पतनकुशलाय गायत्र्यात्मने स्वाहा स्वाहुतमिदमस्तु हविः । 'अन्येभ्योपि दृश्यते' इति क्वनिप् । वडिति सत्यनाम । स्वयमभिगूर्ताय स्वयमेव सोमपार्श्वं गन्तुमुद्युक्ताय नमः नमस्कारोयम् । नम इति पूजानाम । गुरी उद्यमने, 'श्विदितो निष्ठायाम्' इतीट्प्रतिषेधः, 'स्वयं क्तेन' इति समासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
2 विष्टम्भाय विष्टम्भयित्रे शत्रूणाम् । धर्मणे धारयित्रे आत्मीयानाम् । तेनैव मनिन्प्रत्ययः । शेषं समानम् ॥
3 परिधये परितो धात्रे सर्वतो रक्षित्रे जनानाम् । जनप्रथनाय जनैः प्रथनीयाय जनानां वा प्रथयित्रे ॥
4 ऊर्जे अन्नभूताय होत्राणामन्नहेतवे वा ॥
5 पयसे पयस्स्थानीयाय पयसो हेतवे वा ॥
6 प्रजापतये स्रष्ट्रात्मने प्रजानाम् । मनवे यस्येमा मानव्यः प्रजाः तदात्मने ॥
7 ऋतं यज्ञात्मा । हे ऋतपाः यज्ञस्य पालयितः । हे सुवर्वाट् अग्नेरादित्यस्य स्वर्गिणां वा वोढः यस्त्वमृतात्मा तस्मै स्वाहा स्वाहुतमस्तु । 'वहेश्च' इति ण्विः । तृम्पन्तां तृप्यन्तु । होत्रास्सप्ताप्येता अनुक्रान्ताः । मधोः मधुरसस्य घृतस्य च । 'चतुर्थी चाशिषि' इत्यादिना षष्ठी, सुहितयोगलक्षणा वा । तृम्प तृप्तौ, तौदादिकः व्यत्ययेनात्मनेपदम् ॥
8 पञ्च वैश्वकर्मणानि जुहोति - यज्ञपतिमित्यादि ॥ सर्वाश्चैतास्त्रिष्टुभः पूर्वयापूर्वया परा अनुषक्ता भवन्ति, नान्त्याः । प्रथमतृतीयौ पादौ द्वितीयचतुर्थाभ्यां न युज्यते, द्वितीयस्तु तृतीयेन युजाते, चतुर्थ उत्तरस्याद्येन युज्यते, अन्त्या त्वविकृतैव । 'घोरा ऋषयः' इति द्वितीया । 'अनन्यान् सोमपान्' इति तृतीया । 'ये भक्षयन्तः' इति चतुर्थी । 'नमः पितृभ्यः' इति पञ्चमी । तत्र प्रथमा - यज्ञपतिं यजमानमृषय आहुः एनसा । इत्थंभूतलक्षणे तृतीया । एनस्स्विनमित्यर्थः । किं सर्वदा? नेत्याह - यदा प्रजा निर्भक्ता निर्भागा दुर्गता अनुतप्यमाना हीनैश्वर्या भवन्ति प्रजा इति ऋषय आहुः । तप ऐश्वर्यं दैवादिकः, अनुशब्दो धात्वर्थहानिं द्योतयति, व्यत्ययेन श्यन उदात्तत्वम् । यद्वा - तप सन्तापे इत्यस्य भौवादिकस्य कर्मणि यक् । यदा प्रजा निर्भक्ता दुःख्यमाना पापेन भवन्तीति । अधुना तमेवास्यापराधं स्वयमेव दर्शयति - यस्मादयं मधव्यौ तौ मासौ स्तोकौ स्तोतव्यौ ज्योतिष्टोमकालत्वात्प्रशस्तौ अपरराध अपराद्धवान् । तत्र यागस्याकरणमेव तयोरपराधः । मधुः वसन्त ऋतुः ; मधुभूयिष्ठत्वात् । तस्यावयवौ मासौ मधव्यौ चैत्रवैशाखौ । 'मये च', 'मधोः' इति मुधुशब्दात् मयडर्थे अवयवे यत्प्रत्ययः । यस्मादेवं तस्मात्ताभ्यां मधव्याभ्यां मासाभ्यां नः अस्मान् संसृजतु संपृक्तान् करोतु विश्वकर्मा विश्वं करणीयं यस्य स प्रजानां पतिः वसन्तेवसन्ते ज्योतिष्टोमेन यष्टॄन् अस्मान् करोत्वित्यर्थः । तत्रत्येन यागेन संसर्गः ताभ्यां संसर्ग इत्युच्यते ॥
9 अथ द्वितीया - ये घोरा ऋषयः एभ्यो नमोस्तु । प्राणावा ऋषयः । किं च - एषामृषीणां चक्षुषो मनसश्च सन्धौ सन्धाने महि महति महनीये वा यत् सत् सीदन् भवति द्युमत् दीप्तिमत् यथा तथा सीदति यस्तत्र तस्मै बृहस्पतये नमः । द्युमते वा । बृहतां पतिः बृहस्पतिः परमात्मा । सुट्स्वरावुक्तौ । चक्षुर्ग्रहणमुपलक्षणमिन्द्रियार्थम् । मनसा संयोजने यस्सीदतीति नमस्कारविशेषां वा । महि, सत्, द्युमत् इति पदत्रयं, महत् शोभनं दीप्तिमच्च नमस्कुर्म इति । किं च – नमस्तस्मै विश्वकर्मणे स एव पात्वस्मान् ॥
10 अथ तृतीया - अनन्यान् आत्मनोपृथग्भूतानस्मान्त्सोमपान् पीतसोमान् मन्यमानः प्राणस्यात्मनो विद्वान् । कर्मणस्सम्प्रदानत्वात्पूर्ववत् षष्ठी । यद्वा - प्राणस्यानन्यान्मन्यमानः । एवं तत्पुरुषपक्षे अव्ययपूर्वपदप्रकृतिस्वरत्वं प्राप्नोति, तस्माद्बहुव्रीहिर्व्याख्येयः । अनन्यानन्यरहितान् मद्व्यतिरेकेणान्य एषां नास्तीति मन्यमानः प्राणस्यात्मनो बलस्य ज्ञाता समरे न सङ्ग्राम इव धीरः शूरः पुरुषः स यथा पाति तथाऽस्मान् पातु । यद्वा - समरेण धीरो यथा बद्धो भवति तथा एनः पापं चकृवान् कृतवान् पुरुषः एषां भूतेन्द्रियाणां संघट्टने समरस्थानीये महि महत् बद्धो भवति ततो निर्गन्तुं न शक्नोति । तं हे विश्वकर्मन् प्रमुञ्च तेनैनसा मुक्तं कुरु स्वस्तये अविनाशाय । 'द्व्यचोतस्तिङः' इति दीर्घत्वम् ॥
11 अथ चतुर्थी - 'धिष्णियाः'इति द्वितीयपादान्तः । ये वयं भक्षयन्तो न भक्षयन्त इव अदन्त इव वसूनि धनानि आनृहुः पूजितवन्तः न तैरिष्टवन्तः, अपि तु कुक्षिस्थानीयायां पृथिव्यां संचित्य निहितवन्तः । यद्वा - वसूनि भक्षयन्तः यागार्थेन व्ययेन नाशं युञ्जन्तः नानृहुः यागार्थं न संगृहीतवन्तः अर्हा न बभूवुः वसूनाम् । 'अपस्पृधेथाम् ' इत्यादौ अर्हेः निपात्यते । यांश्चास्मान् धिष्णिया अग्नयः अन्वतप्यन्त अस्मद्विषये अनुतापं कृतवन्तः अहो शोच्या एते मिथ्याकारिण इति । एवं ये अयष्टारः दुर्यष्टारश्च तेषामस्माकं संभाव्यमानप्रमादानां संबन्धिनी इयमिष्टिर्यागः अवया विनाशयित्री । कस्य? द्वुरिष्ट्यै दुरिष्ट्याः । षष्ठ्यर्थे चतुर्थी । उपलक्षणत्वादयागस्य च । अयागनिमित्तस्य दुरिष्टिनिमित्तस्य च एनसो विनाशायायं यागः क्रियते इति । 'अवे यजः' इति ण्विन्प्रत्ययः । 'सुपां सुलुक्' इति सोर्डादेशः, उत्तरपदस्यानच्त्वान्नोपहन्यते । यथा प्राची प्रतीची । स्विष्टिमिति वक्ष्यमाणत्वादियमितीष्टिरुच्यते इति गम्यते । तामिमामस्माकमिष्टिं अनिष्टिदुरिष्टिपरिहाराय कृतां स्विष्टिं शोभनामिष्टिं कृणोतु करोतु विश्वकर्मा विश्वकृद्देवः । अनिष्टिदुरिष्टिनिवारणसामर्थ्यं शोभनत्वमिष्टेः । प्रत्ययान्तविशेषणत्वे सोर्गतित्वाभावादव्ययपूर्वपदप्रकृतिस्वरत्वम्, धात्वर्थविशेषणत्वेऽपि गतित्वात् 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम्, 'उदात्तस्वरितयोर्यणः' इति संहितायां ततः पर इकारस्स्वर्यते ॥
11 अथ पञ्चमी - नमः पितृभ्यः तेभ्यः ये नोस्मान् अम्यख्यन् आभिमुख्येन पश्यन्ति । छान्दसो लुङ्, 'अस्यति' इत्यादिनाऽङ् । यज्ञकृतः यज्ञं कृतवन्तः यज्ञकामाः भूयोपि यज्ञं कर्तुमिच्छन्तः । 'शीलिकामि' इत्यादिना णः पूर्वपदप्रकृतिस्वरत्वं च । सुदेवाः शोभनदानाः अकामाः इच्छाद्वेषरहिताः । तेभ्यो नमः । उभयोरपि 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । संप्रति प्रत्यश्चवदुच्यते - वः युष्मदर्थं दक्षिणां लक्षणया यज्ञ एवोच्यते । यन्न नीनिम न नीतवन्तः । यद्वा - अकामा वयं प्रमादात् यज्ञं कृतवन्तः । तस्मादयागनिमित्तादेनसः पापात् नोस्मान्पापयिष्ट मा पापान् कर्तुमिच्च्छत । 'छन्दसि परेच्छायामपि' इति क्यच्, 'न छन्दस्यपुत्रस्य' इतीत्वाभावः, तदन्तात् लृङ् । नयतेर्लिटि द्विर्वचने धात्वभ्यासयोर्विपर्ययः ॥
13 अथ वैश्वकर्मब्राह्मणम् - यावन्त इत्यादि ॥ गतम् । दक्षिण्याः दक्षिणार्हाः । 'कडंकरदक्षिणाच्छ च' इति यत् ॥
14 आशीरवनयति - अस्मे इति चतसृभिः ॥ अत्र द्वे जगत्यौ द्वे त्रिष्टुभौ । तत्र प्रथमा - 'वसु' इति तृतीयपादान्तः ॥ हे देवासः देवाः । 'आज्जसेरसुक्' । वपुषे शोभनाय रूपाय अस्मे अस्मान् चिकित्सत निर्दोषान् कुरुत । 'गुप्तिज्किद्भ्यस्सन्' व्यत्ययेव परस्मैपदम् । कीदृशायेत्याह - यमिति । लिङ्गव्यत्ययः । वामं कमनीयं कल्याणं आशिरा अवनीयमानया दम्पती जायापती पत्नीयजमानौ । दासीभारादिः । अश्नुतः । व्यत्ययेन परस्मैपदम् । तादृशाय वपुषे अस्मान् चिकित्सत अस्माकं वपुषे चिकित्सया गुणोत्कर्षं कुरुत । कीदृशं यत् वामं वननीयं आशिरा दम्पती अश्नुत इति । घोळा नाम दधिविशेषः आशीः दोहनपात्रस्थमेव घनीभवति । न शीर्यत इत्याशीः । 'अपस्पृधेथाम्' इत्यादौ निपात्यते । किं च - युष्मच्चिकित्सया अस्माकं पुमान् पुत्रो जायते जायताम् । द्वयोरुपादानं प्रशंसार्थम् । वसु चास्मान्विन्दते विन्दतां प्राप्नोतु । अथ अनन्तरं विश्वे । व्यत्ययेन बहुवचनम् । विश्वोपि गृहः गृहवासी जनः अरपाः अपापः एधते वर्धताम् । यद्वा - अथशब्दो यथेत्यस्यार्थे । यथा चिकित्सिते दम्पती वाममश्नुतः, पुमान्पुत्रो जायते, वसु च विन्दते, गृहजनश्चापाप एधते तथा चिकित्सतेति ॥
15 अथ द्वितीया - आशीर्दायेति ॥ 'सह' इति तृतीयपादान्तः । आशीर्दाया आशिरं दत्त इत्याशीर्दाया दम्पती पत्नीयजमानौ वामं कल्याणं अश्नुताम् । दय दानगतिरक्षणेषु; 'कर्मण्यण्', 'सुपां सुलुक्' इत्यकारः । दधातेरेव वा विजन्तात्तेनैव सूत्रेण याजादेशः । दानं चावनयनमेव । यज्ञो वा आशिरा लक्ष्यते । किं च - अरिष्टः अहिंसितः रायो धनम् । रातेर्घञ्, रायः । बहुवचनं, व्यत्ययो वा । सचतां दम्पती समोकसा एकगृहौ अवियुक्तौ । किं च - योयं यजमान आसिचत् आसिक्तवान् संदुग्धं एकत्र सहितं दुग्धं आशीराख्यम् । पूर्ववद्गतिस्वरः । कुम्भ्या आसिचत् प्रभूतमित्यर्थः । सहेष्टेन संपद्यमानेन यागेन सहासिचत् । क्व यामन् यामनि सारभूते सोमे य आसिचत् । 'लिपि सिचि ह्वश्च' इत्यङ् । सः अमतिं शरीरमरोगम् । अमेरतिप्रत्ययः, मतिविपर्यासो वा अमतिः, तां जहातु त्यजतु अरोगशरीरो यागकृतबुद्धिर्वा भवत्वित्यर्थः ॥
16 अथ तृतीया - सर्पिर्ग्रीवीति ॥ अस्य यजमानस्य सर्पिर्ग्रीवी स्निग्धकण्ठी मृष्टभोजना वा जाया भवति । 'स्वाङ्गाच्चोपसर्जनात्' इति ङीप् । पीवरी प्यायनशीला अकृपणाङ्गी । प्यायतेः 'अन्येभ्योपि दृश्यते' इति क्वनिप्, 'प्यायः पी' इति पीभावः, 'वनो र च' इति ङीब्रेफौ । पुत्राश्च पीवानः प्यायनशीलाः पुष्टाङ्गाः अकृशासः विद्याधनादिभिरकृशाः अस्य भवन्ति । 'आज्जेसरसुक्' । कस्येत्याह - यो यजमानः सहजानिः सभार्यः । जायाया निङादेशः । सुमखस्यमानः शोभनं यज्ञं आत्मन इच्छन् । असुगागमश्छान्दसः, व्यत्ययेनात्मनेपदम्, भृशादिर्वा द्रष्टव्यः । सुमखो भवतीति क्यङ् । इन्द्रायाशिरं कुम्भ्या सहादात् प्रभूतं ददाति दास्यति । छान्दसो लुङ्, 'गातिस्था' इति सिचो लुक् ॥
17 अथ चतुर्थी - आशीरिति ॥ आशीरियमवनीयमाना मे ममोर्जं क्षीरादि उत अपि च सुप्रजास्त्वं शोभनापत्यत्वम् । 'नित्यमसिच्प्रजामेधयोः' इत्यस्च्, छान्दसं दीर्घत्वम् । इषमन्नं ददातु द्रविणं धनं च ददातु सुवर्चसं बलसहितं दीप्तिसहितं वा । लिङ्गव्यत्ययश्छान्दसः । इषो वा विशेषणम् - यथाऽहं संजयन् सहसा बलेन क्षेत्राणि शत्रुसंबन्धीन्यन्यान् सपत्नान् शत्रूनधरान् अधरीभूतान् आज्ञाविधेयान् कृण्वानः कुर्वाणः स्यां तथा मे ऊर्जादि ददात्विति । पदकारमते आशीरिति प्रार्थनापदम् । इयं ... प्रार्थना दद्याशिर [मह्यमाशिर] ऊर्जादि ददात्विति ॥
18 पश्यति - भूतमिति ॥ भूतं सर्वदा न जातं जन्यं त्वमसि । भूते सर्वदा यद्भूतं न जायते न च जनिष्यते तत्र परस्मिन् नित्ये वस्तुनि मा धाः स्थापय । किंच मुखं प्रधानं त्वसि । तादृशेन त्वया अहं मुखं प्रधानभूतः सर्वेषां भूयासम् ॥
19 परिगृह्णाति - द्यावापृथिवीभ्यां त्वा परिगृह्णामि नाहमेव । 'देवताद्वन्द्वे च' इति द्यावापृथिवीशब्द आद्युदात्तः ॥
20 प्राच्यावयति - विश्वे इति ॥ विश्वेदेवाः इन्द्रादयः वैश्वानराः विश्वेषां नराणां हितत्वेन संबन्धिनोग्निरूपाश्च प्रच्यावयन्त्यस्मात् स्थानात् न वयं शक्ताः । प्रच्याव्यमानश्च त्वं दिवि देवान् दृंह दृढान् कुरु, अन्तरिक्षे वयांसि पक्षिणो दृंह; पृथिव्यां च पार्थिवान् पृथिव्यां भवान् पर्वतपादपादीन् दृंह । 'पृथिव्या ञाञौ' इति ञः ॥
21 होतृचमसेऽवनयति - ध्रुवमिति । इयमत्यष्टिरष्टपदा । अष्टाक्षरास्सर्वे पादाः, षष्ठस्तु द्वादशाक्षरः ॥ ध्रुवं नित्यं अविचलितं असि सोमं होतृचमसस्थं त्वया ध्रुवेण नित्येन हविषा अवनयामसि अवनयामः अधस्तान्नयामः । तस्योपरि त्वां सिञ्चामः । 'इदन्तो मसि' । किमर्थं? यथा नः अस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं गवादि अयक्ष्मं अरोगं सुमनस्कं च असत् । छान्दसो लिङ्गव्यत्ययः, अस्तेर्लेट्यडागमः । यथा चास्माकं सर्वा विशः प्रजाः सर्वा अपि केवलीः रोगादिरहिताः समनसः अनाकुलमनसश्च इन्द्र इत् इन्द्र एव करत् कुर्यात् । करोतेर्लेटि शपो लुक्, पूर्ववदडागमः । 'कः करत्करति' इति सत्वम् । 'केवलमामक' इति केवलशद्वात् ङीप् । यथा चास्माकं सर्वा एव दिशः दिक्षु स्थिताः नोस्माकं प्रजाः केवलीः केवल्यः । पूर्ववर्त्पूवसवर्णदीर्घत्वम् । अस्माकमेव स्वभूताः नान्यगामिन्यः भवन्ति तथा अवनयामीति । अस्तेर्लेटि व्यत्ययेन शप्, लुकि हि आद्युदात्तत्वं न स्यात् ॥
इति तृतीये द्वितीये अष्टमोनुवाकः ॥