प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.8.4 TS 3.2.8.4
नये॒दैभ्यो॑ वृश्च्येत॒ यद्-वै᳚श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व तत् प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चिकिथ्सत॒ यमा॒शिरा॒ दम्प॑ती वा॒मम॑श्ञु॒तः । पुमा᳚न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ॥ आ॒शी॒र्दा॒या दम्प॑ती वा॒मम॑श्ञुता॒मरि॑ष्टो॒ रायः॑ सचताꣳ॒॒ समो॑कसा । य आऽसि॑च॒थ् सं दु॑ग्धं कु॒म्भ्या स॒हेष्टेन॒ याम॒न्नम॑तिं जहातु॒ सः ॥ स॒र्पि॒र्ग्री॒वी - [ ]
पदपाठः (Word-by-word)
नये᳚त् । एति॑ । ए॒भ्यः॒ । वृ॒श्च्ये॒त॒ । यत् । वै॒श्व॒क॒र्म॒णानीति॑ वैश्व - क॒र्म॒णानि॑ । जु॒होति॑ । स॒द॒स्यान्॑ । ए॒व । तत् । प्री॒णा॒ति॒ । अ॒स्मे इति॑ । दे॒वा॒सः॒ । वपु॑षे । चि॒कि॒थ्स॒त॒ । यम् । आ॒शिरा᳚ । दंप॑ती॒ इति॑ । वा॒मम् । अ॒श्नु॒तः ॥ पुमान्॑ । पु॒त्रः । जा॒य॒ते॒ । वि॒न्दते᳚ । वसु॑ । अथ॑ । विश्वे᳚ । अ॒र॒पाः । ए॒ध॒ते॒ । गृ॒हः ॥ आ॒शी॒र्दा॒येत्या॑शीः - दा॒या । दंप॑ती॒ इति॑ । वा॒मम् । अ॒श्नु॒ता॒म् । अरि॑ष्टः । रायः॑ । स॒च॒ता॒म् । समो॑क॒सेति॒ सं - ओ॒क॒सा॒ ॥ यः । एति॑ । असि॑चत् । संदु॑ग्ध॒मिति॒ सं - दु॒ग्ध॒म् । कु॒भ्यां । स॒ह । इ॒ष्टेन॑ । यामन्न्॑ । अम॑तिम् । ज॒हा॒तु॒ । सः ॥ स॒र्पि॒र्ग्री॒वीति॑ सर्पिः - ग्री॒वी ।
पदसंख्या: 50