पीव॑र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒हजा॑नि॒र्यः सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒ऽऽ*शिरꣳ॑ स॒ह कु॒म्भ्याऽदा᳚त् ॥ आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिषं॑ दधातु॒ द्रवि॑णꣳ॒॒ सव॑र्चसं । सं॒ जय॒न् क्षेत्रा॑णि॒ सह॑सा॒ऽहमि॑न्द्र कृण्वा॒नो अ॒न्याꣳ अध॑रान्थ्स॒पत्नान्॑ ॥ भू॒तम॑सि भू॒ते मा॑ धा॒ मुख॑मसि॒ मुखं॑ भूयासं॒ द्यावा॑पृथि॒वीभ्यां᳚ त्वा॒ परि॑गृह्णामि॒ विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः - [ ]
पदपाठः (Word-by-word)
पीव॑री । अ॒स्य॒ । जा॒या । पीवा॑नः । पु॒त्राः । अकृ॑शासः । अ॒स्य॒ ॥ स॒हजा॑नि॒रिति॑ स॒ह - जा॒निः॒ । यः । सु॒म॒ख॒स्यमा॑न॒ इति॑ सु - म॒ख॒स्यमा॑नः । इन्द्रा॑य । आ॒शिर᳚म् । स॒ह । कु॒भ्यां । अदा᳚त् ॥ आ॒शीरित्या᳚ - शीः । मे॒ । ऊर्ज᳚म् । उ॒त । सु॒प्र॒जा॒स्त्वमिति॑ सुप्रजाः - त्वम् । इष᳚म् । द॒धा॒तु॒ । द्रवि॑णम् । सव॑र्चस॒मिति॒ स - व॒र्च॒स॒म् ॥ स॒जंय॒न्निति ॑ सं - जयन्न्॑ । क्षेत्रा॑णि । सह॑सा । अ॒हम् । इ॒न्द्र॒ । कृ॒ण्वा॒नः । अ॒न्यान् । अध॑रान् । स॒पत्नान्॑ ॥ भू॒तम् । अ॒सि॒ । भू॒ते । मा॒ । धाः॒ । मुख᳚म् । अ॒सि॒ । मुख᳚म् । भू॒या॒स॒म् । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । त्वा॒ । परीति॑ । गृ॒ह्णा॒मि॒ । विश्वे᳚ । त्वा॒ । दे॒वाः । वै॒श्वा॒न॒राः ।