प्रच्या॑वयन्तु दि॒वि दे॒वान् दृꣳ॑हा॒न्तरि॑क्षे॒ वयाꣳ॑सि पृथि॒व्यां पार्थि॑वान् ध्रु॒वं ध्रु॒वेण॑ ह॒विषाऽव॒ सोमं॑ नयामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् । यथा॑ न॒ इन्द्र॒ इद्विशः॒ केव॑लीः॒ सर्वाः॒ सम॑नसः॒ कर॑त् । यथा॑ नः॒ सर्वा॒ इद्दिशो॒ऽस्माकं॒ केव॑ली॒रसन्न्॑ ॥
पदपाठः (Word-by-word)
प्रेति॑ । च्या॒व॒य॒न्तु॒ । दि॒वि । दे॒वान् । दृꣳ॒॒ह॒ । अ॒न्तरि॑क्षे । वयाꣳ॑सि । पृ॒थि॒व्याम् । पार्थि॑वान् । ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा᳚ । अवेति॑ । सोम᳚म् । न॒या॒म॒सि॒ ॥ यथा᳚ । नः॒ । सर्व᳚म् । इत् । जग॑त् । अ॒य॒क्ष्मम् । सु॒मना॒ इति॑ सु - मनाः᳚ । अस॑त् ॥ यथा᳚ । नः॒ । इन्द्रः॑ । इत् । विशः॑ । केव॑लीः । सर्वाः᳚ । सम॑नस॒ इति॒ स - म॒न॒सः॒ । कर॑त् ॥ यथा᳚ । नः॒ । सर्वाः᳚ । इत् । दिशः॑ । अ॒स्माक᳚म् । केव॑लीः । असन्न्॑ ॥