प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.9.1 TS 3.2.9.1
यद्वै होता᳚ऽद्ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्रव॑र्तय॒त्युक्थ॑शा॒ इत्या॑ह प्रातस्सव॒नं प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रं प्रा॑तस्सव॒नं गा॑यत्रि॒यैव प्रा॑तस्सव॒ने वज्र॑म॒न्तर्द्ध॑त्त उ॒क्थं ॅवा॒चीत्या॑ह॒ माद्ध्य॑दिंनꣳ॒॒ सव॑नं प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒-क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप् त्रैष्टु॑भं॒ माद्ध्य॑दिंनꣳ॒॒ सव॑नं त्रि॒ष्टुभै॒व माद्ध्य॑न्दिने॒ सव॑ने॒ वज्र॑म॒न्तर्द्ध॑त्त- [ ]
पदपाठः (Word-by-word)
यत् । वै । होता᳚ । अ॒द्ध्व॒र्युम् । अ॒भ्या॒ह्वय॑त॒ इत्य॑भि - आ॒ह्वय॑ते । वज्र᳚म् । ए॒न॒म् । अ॒भि । प्रेति॑ । व॒र्त॒य॒ति॒ । उक्थ॑शा॒ इत्युक्थ॑-शाः॒ । इति॑ । आ॒ह॒ । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । प्र॒ति॒गीर्येति॑ प्रति - गीर्य॑ । त्रीणि॑ । ए॒तानि॑ । अ॒क्षरा॑णि । त्रि॒पदेति॑ त्रि - पदा᳚ । गा॒य॒त्री । गा॒य॒त्रम् । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । गा॒य॒त्रि॒या । ए॒व । प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । वज्र᳚म् । अ॒न्तः । ध॒त्ते॒ । उ॒क्थम् । वा॒चि । इति॑ । आ॒ह॒ । माद्ध्य॑न्दिनम् । सव॑नम् । प्र॒ति॒गीर्येति॑ प्रति - गीर्य॑ । च॒त्वारि॑ । ए॒तानि॑ । अ॒क्षरा॑णि । चतु॑ष्प॒देति॒ चतुः॑ - प॒दा॒ । त्रि॒ष्टुप् । त्रैष्टु॑भम् । माद्ध्य॑न्दिनम् । सव॑नम् । त्रि॒ष्टुभा᳚ । ए॒व । माद्ध्य॑न्दिने । सव॑ने । वज्र᳚म् । अ॒न्तः । ध॒त्ते॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः) ।

उक्ताः प्रस्थितयाज्यारूपहोमाद्या अष्टमेऽखिलाः ।

अथ नवमे प्रतिगरानन्तरभाविमन्त्रा वक्तव्याः । शंसितुर्मन्त्रेण प्रोत्साहनं प्रतिगरस्तस्य प्रतिगरस्यानन्तरभाविषु मन्त्रेषु प्रथमपुत्पाद्य विनियुङ्क्ते — यद्वै होतेति । यदाशंसनकाले होताऽध्वर्युनाभिमुख्येनाह्वयति । आह्वान मन्त्रस्तु र्शोसावोमिति । तस्मायमर्थः — हेऽध्वर्यो शस्त्र पठानि मदीयशस्रपाठकाले प्रातेगराय त्वं सावधानो भवेति पदेन यदध्वर्युं प्रति होतुराह्वानं तदेतद्वज्रप्रहरमयं होता करोति । तस्माद्भोतृप्रयुक्तवज्रप्रहारं समाधातुं प्रातःसवनप्रतिगरादूर्ध्वमुख्थशा इति मन्त्रेण होतारं स्तुवीत । उक्थं शस्नं शंसतीत्युक्थशाः सम्यक्शंसितवानसीति मन्त्रार्थः । प्रतिगंरप्रकारस्त्वापस्तम्बेन दर्शितः — “अध्वर्युः सदो बिले प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रं मतिगरिष्यञ्जपत्यध्वर्यो शोंसावोमिति होतुरभिज्ञाय प्रदक्षिणमावर्तमानः शोंसामादैवेति प्रत्याह्वयते शंसामोद इवेति वा” इति । प्रतिगर्तुं पात्रं धारयमाणः सदोबिले प्रत्यङ्तिष्ठन्संबोधनमाश्रुत्य होतारं प्रत्याह्वयते । हे होत शोंसा सर्वथैव मोद एवास्माकं त्वदीयेन प्रतिगरणेति मन्त्रार्थः । ऋचि समाप्तायामयमेव प्रतिगरः प्रणवादिः पठ्यत । अस्त्विति प्रणवस्यार्थः । कृस्नशस्त्रसमाप्तावङ्गीकारवाचिना प्रणवेनैव प्रतिगरः । प्रत्युत्तरकथनं प्रतिगरशब्देनोच्यते । प्रातःसवने यानि शस्त्राणि तेषां सर्वेषां प्रतिगरमुक्त्वा तदवसाने त्र्यक्षरमुक्थशा इति मन्त्रं पठेत् । अत्राक्षरगतत्रित्वेन त्रिपदा गायत्री स्मार्यते । तया च गायत्र्या तद्युक्तं प्रातःसवनं स्मर्यते । पातःसवने स्मृतया गायत्र्यैव होतृप्रयुक्तं वज्रमन्तर्हितं करोति । अथ मन्त्रान्तरमुत्पाद्य विधत्ते —

उक्थं वाचीति । पूर्ववद्व्याख्येयम् । उक्थं शस्त्रं त्वदीयायां वाचि सम्यक्प्रवृत्तमिति मन्त्रार्थः । पुनरपि मन्त्रान्तरमुत्पाद्य विधत्ते —

उक्थं वाचीति । वज्रो वै शक्वरीत्युक्तत्वाद्वज्रस्य शाक्वरत्वम् । अनेन सप्ताक्षरेण शाक्वरेण वज्रेण होतृप्रयुक्तं वज्रमन्तर्हितं करोति ।

अथ विहितं मन्त्रत्रयं प्रकारान्तरेण प्रशंसितुमुपोद्धातमाह —

ब्रह्मवादिन इति । यः पुरुषः सवनानरूपेण च्छन्दांसि कर्तुं जानाति प्रातः सवने गायत्री माध्यंदिने सवने त्रिष्टुप्तृतीयसवने जगतीत्येवंविधानि च्छन्दांसि । तानि च प्रतिगरेऽमिहिते सति पश्चात्संपादनीयानि । एतत्संपादने यः सगर्थः स एव मुख्योऽध्वुर्युः स्यात् । किंच प्रातःसवने समाप्ते सति स्वात्मनि यस्तेजो धारयेन्माध्यंदिने समाप्ते सतीन्द्रियं धारयेत्तृतीयसवने समाप्ते सति पशून्धारयेत्स एव मुख्योऽध्वर्युरित्येवं ब्रह्मवादिनः परस्परमाहुः ।

तत्र प्रथममन्त्रेण सवनोचितछंदः संपात्तिं तेजोधारणं च दर्शयति —

उक्थशा इति । प्रातः सवनगतानां स्तोत्रशास्त्राणां गायत्रीछन्दस्कत्वात्प्रातःसवनस्य बहिष्पवमानगता उपास्मै गायतेस्याद्या आज्यस्तोत्रगता अग्न आयाहीत्याद्याश्च गायत्रीछन्दस्काः । तथा शस्त्रोष्वपि द्रष्टव्यम् । गायत्र्युपदेशेन ब्राह्मण्यसंपूर्तेर्गायत्र्यास्तेजोरूपत्वम् ।

द्वितीयमन्त्रेणोचितच्छन्दः संपत्तिमिदन्द्रियधारणं च दर्शयति —

उक्थं वाचीति । माध्यंदिनपवमाने प्र तु द्रवेति सूक्तस्य त्रिष्टुप्छन्दस्कत्वात्तत्सवनं त्रैष्टुभं प्रजापतेरुरसो बाहुभ्यां चेन्द्रेण सहोत्पन्नत्वादिन्द्रसृष्टस्येन्द्रियस्य त्रिष्टुप्त्वम् ।

तृतीयसवनोचितच्छन्दःसंपत्तिं पशुप्राप्तिं च सप्ताक्षरमन्त्रेण दर्शयति —

उक्थं वाचिति । शक्वरीजगत्योः पशुप्राप्तिहेतुत्वं सवनगतस्तोत्रशस्त्रर्चां जगतीछन्दस्कत्वात्तत्सवनं जागतम् । अतः शक्वरीद्वारा सवनोचितच्छन्दःसंपत्तिस्तृतीयसवनस्य पशुप्राप्तिहेतुतया पशुत्वम् । अथ प्रत्याह्वानं विधत्ते —

यद्वै होतेति । आ समन्ताद्व्यते पीड्यते येन रोगविशेषेण स रोगविशेष आव्यः । यदा होताऽध्वर्युं संबोध्य शोंसावोमिति प्रष्टुमाभिमुख्येनाऽऽह्वयते तदानीमस्मिन्नध्वर्यौ रोगविशेषं स्थापयति । सावधानत्वहेतोश्चित्तक्लेशस्योपद्रवत्वात् । तद्रोगस्थापनं यद्यध्वर्युर्नापहनीत न निराकुर्यातदानीमस्याध्वर्योर्गृहे संवत्सरात्पुरैव प्रजा आवेवीरन्सर्वरोगादिभिः पीड्येरन् । ततस्तत्परिहाराय शोसा मोद इवेति मन्त्रेणाध्वर्युः प्रत्याह्वानं कुर्यात् । तेनैव प्रत्याह्वानेन तदभ्याह्वानं कृतं रोगजातमपहते विनाशयति । प्रश्नरूपस्याऽऽह्वानस्य प्रत्युत्तररूपमाह्वानं परिहारः । मन्त्रस्यायमर्थः — हे होतस्त्वं शोंसा सर्वथा शंसैव माद इवास्माकं हर्ष इव हर्ष एवेति । इदानीमध्वर्योरप्रमत्तत्वं विधत्ते — यथा वा इति । यथा लोके पृच्छन्तं वादिनं प्रत्याभिमुख्येन नियतां वाचं वक्तुं प्रतिवादी सावधानः प्रतीक्षते । तथा वा राजामात्यादिकं प्रति सेवको भृत्य आभिमुख्येन नियतां वाच वक्तुमप्रमत्तः प्रतीक्षते, एवमसावध्वर्युः प्रतिगरं प्रत्युत्तरं वक्तुं सर्वदा सावधानः प्रतीक्षेत ।

प्रतिगरकालमतिक्रम्य वा तस्मात्कालात्प्रागेव वा प्रतिगरे बाधं दर्शयति...

यदभिप्रतीति । अर्धर्चसमाप्तिः प्रतिगरस्य कालस्तस्याभितो यदि प्रतिगृणीयात्तदा यथा प्रागतीते वा काले प्रत्युत्तरमाभाषमाण आयतया वाचा समृच्छत आभिमुख्येन या वाग्वक्तव्या तया नियतया वाचा हीना भवतीत्यर्थः । तदेतदकाले प्रतिगरोच्चारणं तादृग्भगवति । प्रतिगरविस्मरणे बाधं दर्शयति —

यदर्थर्चादिति । अर्थर्चसमापूतेरनन्तरं यदि प्रतिगरो लुप्यते । तत्र दृष्टान्तो यथा लोको चोख्याध्रादिभयाकुले महारण्ये शीघ्रं धावद्भ्यः सार्थगतेभ्यः पुरुषेभ्यः सकाशात्कश्चिद्धावितुमशक्तो हीना गच्छन्संश्चोरादिभिरुपद्रुतो भवति । तदेतदर्धर्शमतिगरलापनं तादृगेव । तस्मात्सावधानः प्रतिगरकालं प्रतीक्षेत ।

प्रबाहुग्वा इति । ऋत्विजामुद्गातृहोत्रध्वर्यूणामुद्गीथा उत्कृष्टगानविशेषाः प्रबाहुग्वै समाना एव । समानत्वं कथमिति तदुच्यते उद्गातृणां सामगानामुद्गीथनाम्नैव गानविशेषः प्रसिद्धः । प्रस्तावमन्त्रादुपरितना भक्तिरुद्गीथः । स च प्रणवपुरःसरं गीयते । एवमुक्थशंसिनां होतृणां संबन्धी प्रणव उद्गीथः । अध्वर्गूणां तु प्रतिगर उद्गीथः । तथा च श्रूयते — ‘ओमिति सामानि गायन्ति । ओशोमिति शस्राणि शसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगरं प्रतिगृणाति” इति । ओं शो सा मोद इवेति ब्रुवन्सामवदुच्चारयति । प्रतिगरवेदनं प्रशंसति —

य एवं विद्वानिति । हेतुः शंसनकाल उपवेशनमध्वर्योश्च प्रतिगरकाल उत्थानं क्रमेण विधत्ते —

इयं वै होतेति । होतुर्भूमिस्वरुपत्वादयमासीनः शंसेत्तेनापवेशनेनास्या एव भूमेर्होता नापगच्छति । भूमिश्चाऽऽसीनेव दृश्यते । किंच तथा सति यजमानो भूमिं दुग्धे । तत्रत्वं सारं गृह्णातीत्यर्थः । अध्वर्योः स्वर्गरूपत्वादुत्थित एवायं प्रतिगृणीयात् । तथा सति अयमध्वर्युरमुष्या दिवो नापगच्छति । द्यौश्च तिष्ठतीव दृश्यते । उपरिवर्तमानत्वात् । किंचाध्वर्योरुत्थितत्वेन यजमानो दिवं दुग्धे । तत्रत्यं सारं गृह्णाति । प्रकारान्तरेणोपवेशनोत्थाने प्रशंसति —

यदासीन इति । यस्मादासीनो होता शंसति तस्माद्देवा इतः प्रदानमुपजीवन्ति । अस्मिँलोके यत्प्रदीयते हविस्तदुपजीवन्तीत्यर्थः । यस्मादध्वर्युस्तिष्ठन्प्रतिगृणाति तस्मान्मनुष्या अमृतःप्रदानमुपजीवन्ति । अमुष्य लो(ष्माल्लो) काद्देवैः प्रेरितं वर्ष पुजीवन्तीत्यर्थः । होतुः प्राङ्मुखत्वमध्वर्योः प्रत्यङ्मुखत्वं च विधत्ते —

यत्प्राङासीन इति । यस्माद्धोता प्राङ्मुखस्तस्मात्प्राचीनं पत्नीक्षेत्राभि मुखं रेतः स्थाप्यते । यस्मादध्वर्युः प्रत्यङ्मुखस्तस्मात्प्रजाः क्षेत्रविमुखा उत्पद्यन्ते ।

होतुरभ्याह्वानात्पूर्वमिडा देवहूरिति मन्त्रं जपतः प्राङ्मुखस्याध्वर्योरभ्याह्वानादूर्ध्व प्रत्यङमुखत्वाय परावृत्तिं विधत्ते —

यद्वै होतेति । यद्यपि शोंसावोमिति होतुरभ्याह्वानं सकृदेव तथाऽपि त्रीनर्थान्विधातुं द्वितीयानुवादस्तस्मिन्नेव काले प्राङ्मुखस्य परावृत्तिं विधातुं तृतीया नुवादः । अत एवाऽऽपस्तम्बेनोक्तम — “प्रदक्षिणमावर्तमानः शोंसा मोदवेति प्रत्याह्वयते” इति । अत्र विनियोगसंग्रहः —

प्रत्याह्वयेत शोंसावो सवनेषु त्रिषूच्चरेत् ।

उक्थादिमन्त्रांस्त्रीनत्र मन्त्राश्चत्वार ईरिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयप्रपाठके नवमोऽनुवाकः ॥९ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यद्वै होतेत्यादि ॥ अध्वर्युमाभिमुख्येन यदाह्वयते आह्वानं प्रयुङ्क्ते 'शोंसावोम्' इति होता, तेनायमध्वर्युमभि वज्रं प्रवर्तयति । तत्परिहारं सवनत्रयेऽपि क्रमेणाह - उक्थशा इत्यादि । प्रातस्सवनं प्रातस्सवनविषयं उक्थं प्रातस्सवनं च प्रतिगीर्य उक्थशा इत्याहाध्वर्युः । उक्थानि शंसति उक्थैर्वा शंसतीत्युक्थशाः अयमभूदिति । 'मन्त्रे श्वेतवहोक्थशस्' इत्यादिना ण्विन् । शंसितुः प्रोत्साहनं प्रतिगरः । कथं पुनरेतेन उक्थदोषः परिह्रियते इत्याह - त्रीण्येतानीत्यदि । अनेन गायत्रात्मना त्र्यक्षरेणोच्चारीतेन गायत्रे प्रातस्सवने आत्मानमभि प्रवर्तितं वज्रमन्तर्धत्ते अन्तर्हितं करोति निवारयतीत्यर्थः ॥
2 उक्थं वाचीति ॥ अनेन चतुरक्षरेण त्रिष्टुभात्मना माध्यन्दिने सवने आत्मानमभि प्रवर्तितं वज्रमन्तर्धत्ते । उक्थं शस्त्रं सम्यक्प्रवृत्तं अस्य वाचीति । त्रिष्टुच्छब्दादुत्सादित्वादञ् । 'सावेकाचः' इति वाचो विभक्तिरुदात्ता ॥
3 उक्थं वाचीन्द्रायेत्यादि ॥ अनेन सप्ताक्षरेण शक्वर्यात्मना वज्रभूतेन तृतीयसवने यथोक्तं वज्रमन्तर्धत्ते उक्थं सम्यक्प्रवृत्तमिन्द्रार्थमस्य वाचीति । अत्र सवर्णदीर्घत्वं न कर्तव्यं सप्ताक्षरत्वायेत्याहुः ॥
4 ब्रह्मवादिन इत्यादि ॥ यथासवनं सवनानुरूपं प्रातस्सवने गायत्रीं माध्यन्दिनसवने त्रिष्टुभं तृतीयसवने जगतीमिति प्रतिगरे विविक्तरूपाणि छन्दांसि योध्वर्युः संपादयेत्, यो वा तेजः प्रातस्सवने आत्मन् दधीत आत्मनि तेजो दधीत माध्यन्दिने इद्रियमात्मनि दधीत तृतीयसवने पशूनात्मनि दधीत धारयितुं शक्नुयात् सोध्वर्युस्स्यात् भवितुमर्हतीति ब्रह्मवादिन आहुः ॥
5 उक्थशा इत्यादि ॥ प्रातस्सवनस्य गायत्रत्वात् गायत्र्यास्सवनानुकूलत्वमिति । छन्दांसीति सवनत्रयापेक्षं बहुवचनम् । प्रातस्सवने गायत्रीसंपादनेन यथासवनं छन्दांसि संपादयति एतत्संपादयतीति । वचनव्यत्ययोपि । प्रातस्सवने गायत्री छन्दस्संपादयतीति । अथो अपि च तेजोरूपे प्रातस्सवने आत्मनि तेजो धत्ते उक्थशा इति तेजोरूपगायत्र्यात्मकत्र्यक्षरोच्चारणात् ॥
6 एवं माध्यन्दिने सवने त्रिष्टुभस्सवनानुरूप्यं, इन्द्रियरूपत्रिष्टुभात्मकचतुरक्षरोच्चारणादिन्द्रियमात्मनि धत्ते ॥
7 तृतीयसवने जागतशक्वर्योस्सवनानुरूप्यं, जगतीशक्वर्योः पशुसाधनत्वात्पश्वात्मके तृतीयसवने पशुरूपशक्वर्यात्मकसप्ताक्षरोच्चारणात् पशूनात्मनि धत्ते ॥
8 दोषान्तरमप्याह - यद्वा - इत्यादि ॥ आव्यं रोगविशेषः, समन्तात्पीड्यते येन तदाव्यम् । आङ्पूर्वाद्वीतेः 'अचो यत्' इति यति 'यीवर्णयोः' इति लोपः, द्वितीयस्वरलोपश्छान्दसः । तदस्मिन्नध्वर्योरभ्याह्वानेन होता दधाति उत्पादयति । तदध्वर्युः यदि नापहनीत नापहन्यात् । व्यत्ययेनात्मनेपदम् । संवत्सरसमाप्तेः पुरा अस्याध्वर्योर्गृहे प्रजा आवेवीरन् सर्वतो रोगादिभिः पीड्येरन् । वेवीङ् वेतिना तुल्ये । तत्परिहारार्थं अभ्याहूतोध्वर्युः शोंसा मोद इव शंस बाढं भो होतः मोद इव अस्माकं, मोदामह एव वयमिति प्रत्याह्वयते अभ्याह्वयमानं होतारं प्रत्याहवस्थानीयं प्रतिगरमिममुच्चारयेत्, तेन तदाव्यमपहत्येव । शोंसावोमिति द्वावोकाराकारौ । 'प्रतिगरोध्वर्यूणाम्' इति उद्गीथत्वं प्रतिगरस्य । यथेत्यादि । यथा लोके आयतां आभिमुख्येन नियतां वाचं स्थाने वक्तुं प्रतीक्षते, एवमध्वर्युरपि प्रतिगरं प्रतीक्षेत न सहसा प्रतिगरितव्यम्, अपि तु होत्राभ्याहूतः अध्वर्यो इति प्रतिगृणियात्, न पूर्वमित्यर्थः । न चाभिप्रतिगृणीयादर्धर्चान्तमतिक्रम्य उपरिगत्वा न प्रतिगृणीयात् । यद्यभिप्रतिगृणीयात् यथा लोके आयतया अस्थाने समृच्छते संगच्छते । पीड्यते इति केचित् । तादृगेव तदभिप्रतिगरणम् । तस्मान्नाभिप्रतिगृणीयात् । न चार्धर्चाल्लुप्येतेत्याह - यदर्धर्चाल्लुप्येतेति । यद्यर्धर्चाल्लुप्येताभिप्रतिगरः यथा धावद्भ्यः एकः धिया हीयते सामर्थ्याद्भ्रष्टो भवति तथाऽर्धर्चात्प्रतिगरं लुम्पन्तं शंसन् सामर्थ्याद्धीयते तस्मादर्धर्चयोः प्रतिगृणीयादिति । ऋचोर्धमर्धर्चं, 'अर्धं नपुंसकम्' इति समासः, 'ऋक्पूरब्धूः' इति समासान्तः । तत्र 'शोंसावोम्' इति यत्राह अतोर्धर्चो भवति तत्र 'शोंसा मोद इव' इति प्रत्याहवः प्रतिगरः क्रियते, अन्यत्रार्धर्चे 'ओथा मोद इव' इति शाखान्तरे प्रसिद्धं प्रतिगृणीयादिति । प्रबाहुग्वा इत्यादि । प्रबाहुक्सममित्यर्थः । सर्वेषामृत्विजामप्युद्गीथाः उद्गानानि समानीत्यर्थः । तत्रोद्गातॄणां उद्गीथः प्रसिद्धः एव । उक्थशंसिनां होतॄणामृचोन्ते यः प्रणवस्स उद्गीथः । अध्वर्यूणां तु प्रतिगरः उद्गीथः । य एवमित्यादि । गतम् । वजी अन्नवान् जायते ॥
9 इयं वा इत्यादि ॥ आसित्वा शंसनादधोभावादियं पृथिवी होता, स्थित्वा प्रतिगरणादुपरिभावादसौ द्यौरध्वर्युः । एतदेव प्रतिपादयति - यदित्यादि । गतम् । अस्या नैति न पृथग्भवति पृथिव्येव भवति । तदपि कुत इत्याह - आस्त इव हीयं पृथिवी अथो अपि च तेनानेन होत्रा आसीनां पृथिवीं दुहे दुग्धे यजमानः । यत्तिष्ठन्नित्यादि समानं पूर्वेण । 'लोपस्त आत्मनेपदेषु' इति तलोपः । एवमाभ्यां द्यावापृथिव्यौ दुग्धे यजमानः ॥
10 यदासीन इत्यादि ॥ इतःप्रदानं अनया पृथिव्या प्रदत्तं हविरादि देवा उपजीवन्ति । अमुतःप्रदानं अमुना द्युलोकेन प्रदत्तं वृष्ट्यादिकं मनुष्या उपजीवन्ति । सार्वविभक्तिकस्तसिः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । इतः प्रदानं यस्येति वा बहुव्रीहिः । यत्प्राङित्यादि । प्राचीनं प्रकृष्टगमनं क्षेत्राधीनं रेतो धीयते निपातितं तत्रास्ते । 'विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । प्रतीचीः प्रतिकूलगतिकाः प्रजाः ज्ञात्वा उत्तिष्ठन्ति । 'चौ' इति पूर्वपदस्यान्तोदात्तत्वम् दीर्घत्वं च ॥
11 दोषान्तरं दर्शयितुं तृतीयं पठति - यद्वा इति ॥ पराङ् पराचीनगतिः आवर्तते यत आगतस्ततो गच्छति, तेन वज्रं निकरोति न्यक्करोति । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् ॥
इति तृतीये द्वितीये नवमोनुवाकः ॥