पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः) ।
उक्ताः प्रस्थितयाज्यारूपहोमाद्या अष्टमेऽखिलाः ।
अथ नवमे प्रतिगरानन्तरभाविमन्त्रा वक्तव्याः । शंसितुर्मन्त्रेण प्रोत्साहनं प्रतिगरस्तस्य प्रतिगरस्यानन्तरभाविषु मन्त्रेषु प्रथमपुत्पाद्य विनियुङ्क्ते — यद्वै होतेति । यदाशंसनकाले होताऽध्वर्युनाभिमुख्येनाह्वयति । आह्वान मन्त्रस्तु र्शोसावोमिति । तस्मायमर्थः — हेऽध्वर्यो शस्त्र पठानि मदीयशस्रपाठकाले प्रातेगराय त्वं सावधानो भवेति पदेन यदध्वर्युं प्रति होतुराह्वानं तदेतद्वज्रप्रहरमयं होता करोति । तस्माद्भोतृप्रयुक्तवज्रप्रहारं समाधातुं प्रातःसवनप्रतिगरादूर्ध्वमुख्थशा इति मन्त्रेण होतारं स्तुवीत । उक्थं शस्नं शंसतीत्युक्थशाः सम्यक्शंसितवानसीति मन्त्रार्थः । प्रतिगंरप्रकारस्त्वापस्तम्बेन दर्शितः — “अध्वर्युः सदो बिले प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रं मतिगरिष्यञ्जपत्यध्वर्यो शोंसावोमिति होतुरभिज्ञाय प्रदक्षिणमावर्तमानः शोंसामादैवेति प्रत्याह्वयते शंसामोद इवेति वा” इति । प्रतिगर्तुं पात्रं धारयमाणः सदोबिले प्रत्यङ्तिष्ठन्संबोधनमाश्रुत्य होतारं प्रत्याह्वयते । हे होत शोंसा सर्वथैव मोद एवास्माकं त्वदीयेन प्रतिगरणेति मन्त्रार्थः । ऋचि समाप्तायामयमेव प्रतिगरः प्रणवादिः पठ्यत । अस्त्विति प्रणवस्यार्थः । कृस्नशस्त्रसमाप्तावङ्गीकारवाचिना प्रणवेनैव प्रतिगरः । प्रत्युत्तरकथनं प्रतिगरशब्देनोच्यते । प्रातःसवने यानि शस्त्राणि तेषां सर्वेषां प्रतिगरमुक्त्वा तदवसाने त्र्यक्षरमुक्थशा इति मन्त्रं पठेत् । अत्राक्षरगतत्रित्वेन त्रिपदा गायत्री स्मार्यते । तया च गायत्र्या तद्युक्तं प्रातःसवनं स्मर्यते । पातःसवने स्मृतया गायत्र्यैव होतृप्रयुक्तं वज्रमन्तर्हितं करोति । अथ मन्त्रान्तरमुत्पाद्य विधत्ते —
उक्थं वाचीति । पूर्ववद्व्याख्येयम् । उक्थं शस्त्रं त्वदीयायां वाचि सम्यक्प्रवृत्तमिति मन्त्रार्थः । पुनरपि मन्त्रान्तरमुत्पाद्य विधत्ते —
उक्थं वाचीति । वज्रो वै शक्वरीत्युक्तत्वाद्वज्रस्य शाक्वरत्वम् । अनेन सप्ताक्षरेण शाक्वरेण वज्रेण होतृप्रयुक्तं वज्रमन्तर्हितं करोति ।
ब्रह्मवादिन इति । यः पुरुषः सवनानरूपेण च्छन्दांसि कर्तुं जानाति प्रातः सवने गायत्री माध्यंदिने सवने त्रिष्टुप्तृतीयसवने जगतीत्येवंविधानि च्छन्दांसि । तानि च प्रतिगरेऽमिहिते सति पश्चात्संपादनीयानि । एतत्संपादने यः सगर्थः स एव मुख्योऽध्वुर्युः स्यात् । किंच प्रातःसवने समाप्ते सति स्वात्मनि यस्तेजो धारयेन्माध्यंदिने समाप्ते सतीन्द्रियं धारयेत्तृतीयसवने समाप्ते सति पशून्धारयेत्स एव मुख्योऽध्वर्युरित्येवं ब्रह्मवादिनः परस्परमाहुः ।
तत्र प्रथममन्त्रेण सवनोचितछंदः संपात्तिं तेजोधारणं च दर्शयति —
उक्थशा इति । प्रातः सवनगतानां स्तोत्रशास्त्राणां गायत्रीछन्दस्कत्वात्प्रातःसवनस्य बहिष्पवमानगता उपास्मै गायतेस्याद्या आज्यस्तोत्रगता अग्न आयाहीत्याद्याश्च गायत्रीछन्दस्काः । तथा शस्त्रोष्वपि द्रष्टव्यम् । गायत्र्युपदेशेन ब्राह्मण्यसंपूर्तेर्गायत्र्यास्तेजोरूपत्वम् ।
द्वितीयमन्त्रेणोचितच्छन्दः संपत्तिमिदन्द्रियधारणं च दर्शयति —
उक्थं वाचीति । माध्यंदिनपवमाने प्र तु द्रवेति सूक्तस्य त्रिष्टुप्छन्दस्कत्वात्तत्सवनं त्रैष्टुभं प्रजापतेरुरसो बाहुभ्यां चेन्द्रेण सहोत्पन्नत्वादिन्द्रसृष्टस्येन्द्रियस्य त्रिष्टुप्त्वम् ।
तृतीयसवनोचितच्छन्दःसंपत्तिं पशुप्राप्तिं च सप्ताक्षरमन्त्रेण दर्शयति —
उक्थं वाचिति । शक्वरीजगत्योः पशुप्राप्तिहेतुत्वं सवनगतस्तोत्रशस्त्रर्चां जगतीछन्दस्कत्वात्तत्सवनं जागतम् । अतः शक्वरीद्वारा सवनोचितच्छन्दःसंपत्तिस्तृतीयसवनस्य पशुप्राप्तिहेतुतया पशुत्वम् । अथ प्रत्याह्वानं विधत्ते —
यद्वै होतेति । आ समन्ताद्व्यते पीड्यते येन रोगविशेषेण स रोगविशेष आव्यः । यदा होताऽध्वर्युं संबोध्य शोंसावोमिति प्रष्टुमाभिमुख्येनाऽऽह्वयते तदानीमस्मिन्नध्वर्यौ रोगविशेषं स्थापयति । सावधानत्वहेतोश्चित्तक्लेशस्योपद्रवत्वात् । तद्रोगस्थापनं यद्यध्वर्युर्नापहनीत न निराकुर्यातदानीमस्याध्वर्योर्गृहे संवत्सरात्पुरैव प्रजा आवेवीरन्सर्वरोगादिभिः पीड्येरन् । ततस्तत्परिहाराय शोसा मोद इवेति मन्त्रेणाध्वर्युः प्रत्याह्वानं कुर्यात् । तेनैव प्रत्याह्वानेन तदभ्याह्वानं कृतं रोगजातमपहते विनाशयति । प्रश्नरूपस्याऽऽह्वानस्य प्रत्युत्तररूपमाह्वानं परिहारः । मन्त्रस्यायमर्थः — हे होतस्त्वं शोंसा सर्वथा शंसैव माद इवास्माकं हर्ष इव हर्ष एवेति । इदानीमध्वर्योरप्रमत्तत्वं विधत्ते — यथा वा इति । यथा लोके पृच्छन्तं वादिनं प्रत्याभिमुख्येन नियतां वाचं वक्तुं प्रतिवादी सावधानः प्रतीक्षते । तथा वा राजामात्यादिकं प्रति सेवको भृत्य आभिमुख्येन नियतां वाच वक्तुमप्रमत्तः प्रतीक्षते, एवमसावध्वर्युः प्रतिगरं प्रत्युत्तरं वक्तुं सर्वदा सावधानः प्रतीक्षेत ।
प्रतिगरकालमतिक्रम्य वा तस्मात्कालात्प्रागेव वा प्रतिगरे बाधं दर्शयति...
यदभिप्रतीति । अर्धर्चसमाप्तिः प्रतिगरस्य कालस्तस्याभितो यदि प्रतिगृणीयात्तदा यथा प्रागतीते वा काले प्रत्युत्तरमाभाषमाण आयतया वाचा समृच्छत आभिमुख्येन या वाग्वक्तव्या तया नियतया वाचा हीना भवतीत्यर्थः । तदेतदकाले प्रतिगरोच्चारणं तादृग्भगवति । प्रतिगरविस्मरणे बाधं दर्शयति —
यदर्थर्चादिति । अर्थर्चसमापूतेरनन्तरं यदि प्रतिगरो लुप्यते । तत्र दृष्टान्तो यथा लोको चोख्याध्रादिभयाकुले महारण्ये शीघ्रं धावद्भ्यः सार्थगतेभ्यः पुरुषेभ्यः सकाशात्कश्चिद्धावितुमशक्तो हीना गच्छन्संश्चोरादिभिरुपद्रुतो भवति । तदेतदर्धर्शमतिगरलापनं तादृगेव । तस्मात्सावधानः प्रतिगरकालं प्रतीक्षेत ।
प्रबाहुग्वा इति । ऋत्विजामुद्गातृहोत्रध्वर्यूणामुद्गीथा उत्कृष्टगानविशेषाः प्रबाहुग्वै समाना एव । समानत्वं कथमिति तदुच्यते उद्गातृणां सामगानामुद्गीथनाम्नैव गानविशेषः प्रसिद्धः । प्रस्तावमन्त्रादुपरितना भक्तिरुद्गीथः । स च प्रणवपुरःसरं गीयते । एवमुक्थशंसिनां होतृणां संबन्धी प्रणव उद्गीथः । अध्वर्गूणां तु प्रतिगर उद्गीथः । तथा च श्रूयते — ‘ओमिति सामानि गायन्ति । ओशोमिति शस्राणि शसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगरं प्रतिगृणाति” इति । ओं शो सा मोद इवेति ब्रुवन्सामवदुच्चारयति । प्रतिगरवेदनं प्रशंसति —
य एवं विद्वानिति । हेतुः शंसनकाल उपवेशनमध्वर्योश्च प्रतिगरकाल उत्थानं क्रमेण विधत्ते —
इयं वै होतेति । होतुर्भूमिस्वरुपत्वादयमासीनः शंसेत्तेनापवेशनेनास्या एव भूमेर्होता नापगच्छति । भूमिश्चाऽऽसीनेव दृश्यते । किंच तथा सति यजमानो भूमिं दुग्धे । तत्रत्वं सारं गृह्णातीत्यर्थः । अध्वर्योः स्वर्गरूपत्वादुत्थित एवायं प्रतिगृणीयात् । तथा सति अयमध्वर्युरमुष्या दिवो नापगच्छति । द्यौश्च तिष्ठतीव दृश्यते । उपरिवर्तमानत्वात् । किंचाध्वर्योरुत्थितत्वेन यजमानो दिवं दुग्धे । तत्रत्यं सारं गृह्णाति । प्रकारान्तरेणोपवेशनोत्थाने प्रशंसति —
यदासीन इति । यस्मादासीनो होता शंसति तस्माद्देवा इतः प्रदानमुपजीवन्ति । अस्मिँलोके यत्प्रदीयते हविस्तदुपजीवन्तीत्यर्थः । यस्मादध्वर्युस्तिष्ठन्प्रतिगृणाति तस्मान्मनुष्या अमृतःप्रदानमुपजीवन्ति । अमुष्य लो(ष्माल्लो) काद्देवैः प्रेरितं वर्ष पुजीवन्तीत्यर्थः । होतुः प्राङ्मुखत्वमध्वर्योः प्रत्यङ्मुखत्वं च विधत्ते —
यत्प्राङासीन इति । यस्माद्धोता प्राङ्मुखस्तस्मात्प्राचीनं पत्नीक्षेत्राभि मुखं रेतः स्थाप्यते । यस्मादध्वर्युः प्रत्यङ्मुखस्तस्मात्प्रजाः क्षेत्रविमुखा उत्पद्यन्ते ।
होतुरभ्याह्वानात्पूर्वमिडा देवहूरिति मन्त्रं जपतः प्राङ्मुखस्याध्वर्योरभ्याह्वानादूर्ध्व प्रत्यङमुखत्वाय परावृत्तिं विधत्ते —
यद्वै होतेति । यद्यपि शोंसावोमिति होतुरभ्याह्वानं सकृदेव तथाऽपि त्रीनर्थान्विधातुं द्वितीयानुवादस्तस्मिन्नेव काले प्राङ्मुखस्य परावृत्तिं विधातुं तृतीया नुवादः । अत एवाऽऽपस्तम्बेनोक्तम — “प्रदक्षिणमावर्तमानः शोंसा मोदवेति प्रत्याह्वयते” इति । अत्र विनियोगसंग्रहः —
प्रत्याह्वयेत शोंसावो सवनेषु त्रिषूच्चरेत् ।
उक्थादिमन्त्रांस्त्रीनत्र मन्त्राश्चत्वार ईरिताः ॥
द्वितीयप्रपाठके नवमोऽनुवाकः ॥९ ॥