प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.9.2 TS 3.2.9.2
उ॒क्थं ॅवा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नं प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्द्ध॑त्ते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा अ॑द्ध्व॒र्युः स्या॒द्यो य॑थासव॒नं प्र॑तिग॒रे छन्दाꣳ॑सि सम्पा॒दये॒त् तेजः॑ प्रातः सव॒न आ॒त्मन् दधी॑तेन्द्रि॒यं माद्ध्य॑न्दिने॒ सव॑ने प॒शूꣳ स्तृ॑तीयसव॒न इत्युक्थ॑शा॒ इत्या॑ह प्रातस्सव॒नं प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि - [ ]
पदपाठः (Word-by-word)
उ॒क्थम् । वा॒चि । इन्द्रा॑य । इति॑ । आ॒ह॒ । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय -स॒व॒नम् । प्र॒ति॒गीर्येति॑ प्रति - गीर्य॑ । स॒प्त । ए॒तानि॑ । अ॒क्षरा॑णि । स॒प्तप॒देति॑ स॒प्त - प॒दा॒ । शक्व॑री । शा॒क्व॒रः । वज्रः॑ । वज्रे॑ण । ए॒व । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । वज्र᳚म् । अ॒न्तः । ध॒त्ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । सः । तु । वै । अ॒ध्व॒र्युः । स्या॒त् । यः । य॒था॒स॒व॒नमिति॑ यथा - स॒व॒नम् । प्र॒ति॒ग॒र इति॑ प्रति - ग॒रे । छन्दाꣳ॑सि । स॒पां॒दये॒दिति॑ सं - पा॒दये᳚त् । तेजः॑ । प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । आ॒त्मन्न् । दधी॑त । इ॒न्द्रि॒यम् । माध्य॑न्दिने । सव॑ने । प॒शून् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । इति॑ । उक्थ॑शा॒ इत्युक्थ॑ - शाः॒ । इति॑ । आ॒ह॒ । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । प्र॒ति॒गीर्येति॑ प्रति - गीर्य॑ । त्रीणि॑ । ए॒तानि॑ । अ॒क्षरा॑णि ।
पदसंख्या: 50