प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.9.4 TS 3.2.9.4
-मिन्द्रि॒यमे॒व माद्ध्य॑न्दिने॒ सव॑न आ॒त्मन् ध॑त्त उ॒क्थं ॅवा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नं प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राः प॒शवो॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दाꣳ॑सि॒ संपा॑दय॒त्यथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒नं प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन् ध॑त्ते॒ यद्वै होता᳚ऽद्ध्व॒र्युम॑भ्या॒ह्वय॑त आ॒व्य॑मस्मिन् दधाति॒ तद्यन्ना - [ ]
पदपाठः (Word-by-word)
इ॒न्द्रि॒यम् । ए॒व । माद्ध्य॑न्दिने । सव॑ने । आ॒त्मन्न् । ध॒त्ते॒ । उ॒क्थम् । वा॒चि । इन्द्रा॑य । इति॑ । आ॒ह॒ । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । प्र॒ति॒गीर्येति॑ प्रति - गीर्य॑ । स॒प्त । ए॒तानि॑ । अ॒क्षरा॑णि । स॒प्तप॒देति॑ स॒प्त - प॒दा॒ । शक्व॑री । शा॒क्व॒राः । प॒शवः॑ । जाग॑तम् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । ए॒व । प्र॒ति॒ग॒र इति॑ प्रति - ग॒रे । छन्दाꣳ॑सि । समिति॑ । पा॒द॒य॒ति॒ । अथो॒ इति॑ । प॒शवः॑ । वै । जग॑ती । प॒शवः॑ । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । प॒शून् । ए॒व । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । आ॒त्मन्न् । ध॒त्ते॒ । यत् । वै । होता᳚ । अ॒द्ध्व॒र्युम् । अ॒भ्या॒ह्वय॑त॒ इत्य॑भि - आ॒ह्वय॑ते । आ॒व्य᳚म् । अ॒स्मि॒न्न् । द॒धा॒ति॒ । तत् । यत् । न ।
पदसंख्या: 50