प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.9.5 TS 3.2.9.5
प॒हनी॑त पु॒राऽस्य॑ संॅवथ्स॒राद्-गृ॒ह आ वे॑वीर॒ञ्छोꣳसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते॒ यथा॒ वा आय॑तां प्र॒तीक्ष॑त ए॒वम॑द्ध्व॒र्युः प्र॑तिग॒रं प्रती᳚क्षते॒ यद॑भि प्रतिगृणी॒याद्यथा ऽऽय॑तया समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्द्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व तत् प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्-गा॑तृ॒णा - [ ]
पदपाठः (Word-by-word)
अ॒प॒हनी॒तेत्यप॑ - हनी॑त । पु॒रा । अ॒स्य॒ । सं॒ॅव॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् । गृ॒हे । एति॑ । वे॒वी॒र॒न्न् । शोꣳसा᳚ । मोदः॑ । इ॒व॒ । इति॑ । प्र॒त्याह्व॑यत॒ इति॑ प्रति - आह्व॑यते । तेन॑ । ए॒व । तत् । अपेति॑ । ह॒ते॒ । यथा᳚ । वै । आय॑ता॒मित्या - य॒ता॒म् । प्र॒तीक्ष॑त॒ इति॑ प्रति - ईक्ष॑ते । ए॒वम् । अ॒द्ध्व॒र्युः । प्र॒ति॒ग॒रमिति॑ प्रति - ग॒रम् । प्रतीति॑ । ई॒क्ष॒ते॒ । यत् । अ॒भि॒प्र॒ति॒गृ॒णी॒यादित्य॑भि - प्र॒ति॒गृ॒णी॒यात् । यथा᳚ । आय॑त॒येत्या - य॒त॒या॒ । स॒मृ॒च्छत॒ इति॑ सं - ऋ॒च्छते᳚ । ता॒दृक् । ए॒व । तत् । यत् । अ॒र्द्ध॒र्चादित्य॑र्द्ध-ऋ॒चात् । लुप्ये॑त । यथा᳚ । धाव॑द्भ्य॒ इति॒ धाव॑त् - भ्यः॒ । हीय॑ते । ता॒दृक् । ए॒व । तत् । प्र॒बाहु॒गिति॑ प्र - बाहु॑क् । वै । ऋ॒त्विजा᳚म् । उ॒द्गी॒था इत्यु॑त्-गी॒थाः । उ॒द्गी॒थ इत्यु॑त् - गी॒थः । ए॒व । उ॒द्गा॒तृ॒णामित्यु॑त्-गा॒तृ॒णाम् ।
पदसंख्या: 50