मृ॒चः प्र॑ण॒व उ॑क्थशꣳ॒॒सिनां᳚ प्रतिग॒रो᳚ऽद्ध्वर्यू॒णां ॅय ए॒वं ॅवि॒द्वान् प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्याऽस्य॑ प्र॒जायां᳚ ॅवा॒जी जा॑यत इ॒यं ॅवै होता॒ऽसाव॑द्ध्व॒र्युर्यदासी॑नः॒ शꣳ स॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे॒ यत् तिष्ठ॑न् प्रतिगृ॒णात्य॒मुष्या॑ ए॒व तद॑द्ध्व॒र्युर्नैति॒ - [ ]
पदपाठः (Word-by-word)
ऋ॒चः । प्र॒ण॒व इति॑ प्र - न॒वः । उ॒क्थ॒शꣳ॒॒सिना॒मित्यु॑क्थ - शꣳ॒॒सिना᳚म् । प्र॒ति॒ग॒र इति॑ प्रति - ग॒रः । अ॒द्ध्व॒र्यू॒णाम् । यः । ए॒वम् । वि॒द्वान् । प्र॒ति॒गृ॒णातीति॑ प्रति-गृ॒णाति॑ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । एति॑ । अ॒स्य॒ । प्र॒जाया॒मिति॑ प्र - जाया᳚म् । वा॒जी । जा॒य॒ते॒ । इ॒यम् । वै । होता᳚ । अ॒सौ । अ॒द्ध्व॒र्युः । यत् । आसी॑नः । शꣳस॑ति । अ॒स्याः । ए॒व । तत् । होता᳚ । न । ए॒ति॒ । आस्ते᳚ । इ॒व॒ । हि । इ॒यम् । अथो॒ इति॑ । इ॒माम् । ए॒व । तेन॑ । यज॑मानः । दु॒हे॒ । यत् । तिष्ठन्न्॑ । प्र॒ति॒गृ॒णातीति॑ प्रति - गृ॒णाति॑ । अ॒मुष्याः᳚ । ए॒व । तत् । अ॒द्ध्व॒र्युः । न । ए॒ति॒ ।