तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे॒ यदासी॑नः॒ शꣳस॑ति॒ तस्मा॑दि॒तः प्र॑दानं दे॒वा उप॑ जीवन्ति॒ यत् तिष्ठ॑न् प्रतिगृ॒णाति॒ तस्मा॑द॒मुतः॑ प्रदानं मनु॒ष्या॑ उप॑ जीवन्ति॒ यत् प्राङासी॑नः॒ शꣳस॑ति प्र॒त्यङ् तिष्ठ॑न् प्रतिगृ॒णाति॒ तस्मा᳚त् प्रा॒चीनꣳ॒॒ रेतो॑ धीयते प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ यद्वै होता᳚ऽद्ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्रव॑र्तयति॒ ( ) परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ॥
पदपाठः (Word-by-word)
तिष्ठ॑ति । इ॒व॒ । हि । अ॒सौ । अथो॒ इति॑ । अ॒मूम् । ए॒व । तेन॑ । यज॑मानः । दु॒हे॒ । यत् । आसी॑नः । शꣳस॑ति । तस्मा᳚त् । इ॒तः प्र॑दान॒मिती॒तः - प्र॒दा॒न॒म् । दे॒वाः । उपेति॑ । जी॒व॒न्ति॒ । यत् । तिष्ठन्न्॑ । प्र॒ति॒गृ॒णातीति॑ प्रति - गृ॒णाति॑ । तस्मा᳚त् । अ॒मुतः॑ प्रदान॒मित्य॒मुतः॑ - प्र॒दा॒न॒म् । म॒नु॒ष्याः᳚ । उपेति॑ । जी॒व॒न्ति॒ । यत् । प्राङ् । आसी॑नः । शꣳस॑ति । प्र॒त्यङ् । तिष्ठन्न्॑ । प्र॒ति॒गृ॒णातीति॑ प्रति - गृ॒णाति॑ । तस्मा᳚त् । प्रा॒चीन᳚म् । रेतः॑ । धी॒य॒ते॒ । प्र॒तीचीः᳚ । प्र॒जा इति॑ प्र - जाः । जा॒य॒न्ते॒ । यत् । वै । होता᳚ । अ॒द्ध्व॒र्युम् । अ॒भ्या॒ह्वय॑त॒ इत्य॑भि - आ॒ह्वय॑ते । वज्र᳚म् । ए॒न॒म् । अ॒भि । प्रेति॑ । व॒र्त॒य॒ति॒ ( ) । पराङ्॑ । एति॑ । व॒र्त॒ते॒ । वज्र᳚म् । ए॒व । तत् । नीति॑ । क॒रो॒ति॒ ॥