ए॒व तद् द॑धात्य॒न्तरि॑क्षं गच्छ॒ स्वाहेत्या॑हा॒ऽन्तरि॑क्षेणै॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्य॒न्तरि॑क्षꣳ॒॒ ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते दे॒वꣳ स॑वि॒तारं॑ गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्य-होरा॒त्रे ग॑च्छ॒ स्वाहेत्या॑हा-होरा॒त्राभ्या॑-मे॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्य-होरा॒त्रे ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ॒ स्वाहे- [ ]
पदपाठः (Word-by-word)
ए॒व । तत् । द॒धा॒ति॒ । अ॒न्तरि॑क्षम् । ग॒च्छ॒ । स्वाहा᳚ । इति॑ । आ॒ह॒ । अ॒न्तरि॑क्षेण । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । ज॒न॒य॒ति॒ । अ॒न्तरि॑क्षम् । हि । अन्विति॑ । प्र॒जा इति॑ प्र - जाः । प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । दे॒वम् । स॒वि॒तार᳚म् । ग॒च्छ॒ । स्वाहा᳚ । इति॑ । आ॒ह॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । ज॒न॒य॒ति॒ । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । ग॒च्छ॒ । स्वाहा᳚ । इति॑ । आ॒ह॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । ज॒न॒य॒ति॒ । अ॒हो॒रा॒त्रे इत्य॑हः-रा॒त्रे । हि । अन्विति॑ । प्र॒जा इति॑ प्र - जाः । प्र॒जाय॑न्त॒ इति॑ प्र-जाय॑न्ते । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । ग॒च्छ॒ । स्वाहा᳚ ।