-त्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒ सोमं॑ गच्छ॒ स्वाहेत्या॑ह सौ॒म्या हि दे॒वत॑या प्र॒जा य॒ज्ञ्ं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व य॒ज्ञियाः᳚ करोति॒ छन्दाꣳ॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुन्धे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑ गृह्णाति॒ नभो॑- [ ]
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । प्र॒जास्विति॑ प्र - जासु॑ । ए॒व । प्रजा॑ता॒स्विति॒ प्र - जा॒ता॒सु॒ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । द॒धा॒ति॒ । सोम᳚म् । ग॒च्छ॒ । स्वाहा᳚ । इति॑ । आ॒ह॒ । सौ॒म्याः । हि । दे॒वत॑या । प्र॒जा इति॑ प्र - जाः । य॒ज्ञ्म् । ग॒च्छ॒ । स्वाहा᳚ । इति॑ । आ॒ह॒ । प्र॒जा इति॑ प्र-जाः । ए॒व । य॒ज्ञियाः᳚ । क॒रो॒ति॒ । छन्दाꣳ॑सि । ग॒च्छ॒ । स्वाहा᳚ । इति॑ । आ॒ह॒ । प॒शवः॑ । वै । छन्दाꣳ॑सि । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚-पृ॒थि॒वी । ग॒च्छ॒ । स्वाहा᳚ । इति॑ । आ॒ह॒ । प्र॒जा इति॑ प्र - जाः । ए॒व । प्रजा॑ता॒ इति॒ प्र-जा॒ताः॒ । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्णा॒ति॒ । नभः॑ ।