प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.1.5 TS 6.4.1.5
-म॒भि समे॑ति॒ यत् पृ॑थि॒व्याꣳ हृ॑दयशू॒ल-मु॑द्वा॒सये᳚त् पृथि॒वीꣳ शु॒चाऽर्प॑ये॒द् यद॒फ्स्व॑पः शु॒चाऽर्प॑ये॒च्छुष्क॑स्य चा॒ऽऽ*र्द्रस्य॑ च स॒न्धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै॒ यं द्वि॒ष्यात् तं ध्या॑ये-च्छु॒चैवैन॑-मर्पयति ॥
पदपाठः (Word-by-word)
अ॒भि । समिति॑ । ए॒ति॒ । यत् । पृ॒थि॒व्याम् । हृ॒द॒य॒शू॒लमिति॑ हृदय - शू॒लम् । उ॒द्वा॒सये॒दित्यु॑त् - वा॒सये᳚त् । पृ॒थि॒वीम् । शु॒चा । अ॒र्प॒ये॒त् । यत् । अ॒फ्स्वित्य॑प्- सु । अ॒पः । शु॒चा । अ॒र्प॒ये॒त् । शुष्क॑स्य । च॒ । आ॒र्द्रस्य॑ । च॒ । स॒न्धाविति॑ सं - धौ । उदिति॑ । वा॒स॒य॒ति॒ । उ॒भय॑स्य । शान्त्यै᳚ । यम् । द्वि॒ष्यात् । तम् । ध्या॒ये॒त् । शु॒चा । ए॒व । ए॒न॒म् । अ॒र्प॒य॒ति॒ ॥
पदसंख्या: 32